१२.३६.१व्यास उवाच
१२.३६.२तपसा कर्मभिश्चैव प्रदानेन च भारत
पुनाति पापं पुरुषः पूतश्चेन्न प्रवर्तते
१२.३६.३एककालं तु भुञ्जानश्चरन्भैक्षं स्वकर्मकृत्
कपालपाणिः खट्वाङ्गी ब्रह्मचारी सदोत्थितः
१२.३६.४अनसूयुरधःशायी कर्म लोके प्रकाशयन्
पूर्णैर्द्वादशभिर्वर्षैर्ब्रह्महा विप्रमुच्यते
१२.३६.५षड्भिर्वर्षैः कृच्छ्रभोजी ब्रह्महा पूयते नरः
मासे मासे समश्नंस्तु त्रिभिर्वर्षैः प्रमुच्यते
१२.३६.६संवत्सरेण मासाशी पूयते नात्र संशयः
तथैवोपरमन्राजन्स्वल्पेनापि प्रमुच्यते
१२.३६.७क्रतुना चाश्वमेधेन पूयते नात्र संशयः
ये चास्यावभृथे स्नान्ति केचिदेवंविधा नराः
१२.३६.८ते सर्वे पूतपाप्मानो भवन्तीति परा श्रुतिः
ब्राह्मणार्थे हतो युद्धे मुच्यते ब्रह्महत्यया
१२.३६.९गवां शतसहस्रं तु पात्रेभ्यः प्रतिपादयन्
ब्रह्महा विप्रमुच्येत सर्वपापेभ्य एव च
१२.३६.१०कपिलानां सहस्राणि यो दद्यात्पञ्चविंशतिम्
दोग्ध्रीणां स च पापेभ्यः सर्वेभ्यो विप्रमुच्यते
१२.३६.११गोसहस्रं सवत्सानां दोग्ध्रीणां प्राणसंशये
साधुभ्यो वै दरिद्रेभ्यो दत्त्वा मुच्येत किल्बिषात्
१२.३६.१२शतं वै यस्तु काम्बोजान्ब्राह्मणेभ्यः प्रयच्छति
नियतेभ्यो महीपाल स च पापात्प्रमुच्यते
१२.३६.१३मनोरथं तु यो दद्यादेकस्मा अपि भारत
न कीर्तयेत दत्त्वा यः स च पापात्प्रमुच्यते
१२.३६.१४सुरापानं सकृत्पीत्वा योऽग्निवर्णां पिबेद्द्विजः
स पावयत्यथात्मानमिह लोके परत्र च
१२.३६.१५मेरुप्रपातं प्रपतञ्ज्वलनं वा समाविशन्
महाप्रस्थानमातिष्ठन्मुच्यते सर्वकिल्बिषैः
१२.३६.१६बृहस्पतिसवेनेष्ट्वा सुरापो ब्राह्मणः पुनः
समितिं ब्राह्मणैर्गच्छेदिति वै ब्राह्मणी श्रुतिः
१२.३६.१७भूमिप्रदानं कुर्याद्यः सुरां पीत्वा विमत्सरः
पुनर्न च पिबेद्राजन्संस्कृतः शुध्यते नरः
१२.३६.१८गुरुतल्पी शिलां तप्तामायसीमधिसंविशेत्
पाणावाधाय वा शेफं प्रव्रजेदूर्ध्वदर्शनः
१२.३६.१९शरीरस्य विमोक्षेण मुच्यते कर्मणोऽशुभात्
कर्मभ्यो विप्रमुच्यन्ते यत्ताः संवत्सरं स्त्रियः
१२.३६.२०महाव्रतं चरेद्यस्तु दद्यात्सर्वस्वमेव तु
गुर्वर्थे वा हतो युद्धे स मुच्येत्कर्मणोऽशुभात्
१२.३६.२१अनृतेनोपचर्ता च प्रतिरोद्धा गुरोस्तथा
उपहृत्य प्रियं तस्मै तस्मात्पापात्प्रमुच्यते
१२.३६.२२अवकीर्णिनिमित्तं तु ब्रह्महत्याव्रतं चरेत्
खरचर्मवासाः षण्मासं तथा मुच्येत किल्बिषात्
१२.३६.२३परदारापहारी च परस्यापहरन्वसु
संवत्सरं व्रती भूत्वा तथा मुच्येत किल्बिषात्
१२.३६.२४स्तेयं तु यस्यापहरेत्तस्मै दद्यात्समं वसु
विविधेनाभ्युपायेन तेन मुच्येत किल्बिषात्
१२.३६.२५कृच्छ्राद्द्वादशरात्रेण स्वभ्यस्तेन दशावरम्
परिवेत्ता भवेत्पूतः परिवित्तिश्च भारत
१२.३६.२६निवेश्यं तु भवेत्तेन सदा तारयिता पितॄन्
न तु स्त्रिया भवेद्दोषो न तु सा तेन लिप्यते
१२.३६.२७भजने ह्यृतुना शुद्धं चातुर्मास्यं विधीयते
स्त्रियस्तेन विशुध्यन्ति इति धर्मविदो विदुः
१२.३६.२८स्त्रियस्त्वाशङ्किताः पापैर्नोपगम्या हि जानता
रजसा ता विशुध्यन्ते भस्मना भाजनं यथा
१२.३६.२९चतुष्पात्सकलो धर्मो ब्राह्मणानां विधीयते
पादावकृष्टो राजन्ये तथा धर्मो विधीयते
१२.३६.३०तथा वैश्ये च शूद्रे च पादः पादो विधीयते
विद्यादेवंविधेनैषां गुरुलाघवनिश्चयम्
१२.३६.३१तिर्यग्योनिवधं कृत्वा द्रुमांश्छित्त्वेतरान्बहून्
त्रिरात्रं वायुभक्षः स्यात्कर्म च प्रथयेन्नरः
१२.३६.३२अगम्यागमने राजन्प्रायश्चित्तं विधीयते
आर्द्रवस्त्रेण षण्मासं विहार्यं भस्मशायिना
१२.३६.३३एष एव तु सर्वेषामकार्याणां विधिर्भवेत्
ब्राह्मणोक्तेन विधिना दृष्टान्तागमहेतुभिः
१२.३६.३४सावित्रीमप्यधीयानः शुचौ देशे मिताशनः
अहिंस्रोऽमन्दकोऽजल्पन्मुच्यते सर्वकिल्बिषैः
१२.३६.३५अहःसु सततं तिष्ठेदभ्याकाशं निशि स्वपेत्
त्रिरह्नस्त्रिर्निशायाश्च सवासा जलमाविशेत्
१२.३६.३६स्त्रीशूद्रपतितांश्चापि नाभिभाषेद्व्रतान्वितः
पापान्यज्ञानतः कृत्वा मुच्येदेवंव्रतो द्विजः
१२.३६.३७शुभाशुभफलं प्रेत्य लभते भूतसाक्षिकः
अतिरिच्येत्तयोर्यत्तु तत्कर्ता लभते फलम्
१२.३६.३८तस्माद्दानेन तपसा कर्मणा च शुभं फलम्
वर्धयेदशुभं कृत्वा यथा स्यादतिरेकवान्
१२.३६.३९कुर्याच्छुभानि कर्माणि निमित्ते पापकर्मणाम्
दद्यान्नित्यं च वित्तानि तथा मुच्येत किल्बिषात्
१२.३६.४०अनुरूपं हि पापस्य प्रायश्चित्तमुदाहृतम्
महापातकवर्जं तु प्रायश्चित्तं विधीयते
१२.३६.४१भक्ष्याभक्ष्येषु सर्वेषु वाच्यावाच्ये तथैव च
अज्ञानज्ञानयो राजन्विहितान्यनुजानते
१२.३६.४२जानता तु कृतं पापं गुरु सर्वं भवत्युत
अज्ञानात्स्खलिते दोषे प्रायश्चित्तं विधीयते
१२.३६.४३शक्यते विधिना पापं यथोक्तेन व्यपोहितुम्
आस्तिके श्रद्दधाने तु विधिरेष विधीयते
१२.३६.४४नास्तिकाश्रद्दधानेषु पुरुषेषु कदाचन
दम्भदोषप्रधानेषु विधिरेष न दृश्यते
१२.३६.४५शिष्टाचारश्च शिष्टश्च धर्मो धर्मभृतां वर
सेवितव्यो नरव्याघ्र प्रेत्य चेह सुखार्थिना
१२.३६.४६स राजन्मोक्ष्यसे पापात्तेन पूर्वेण हेतुना
त्राणार्थं वा वधेनैषामथ वा नृपकर्मणा
१२.३६.४७अथ वा ते घृणा काचित्प्रायश्चित्तं चरिष्यसि
मा त्वेवानार्यजुष्टेन कर्मणा निधनं गमः