१२.४६.१युधिष्ठिर उवाच
१२.४६.२किमिदं परमाश्चर्यं ध्यायस्यमितविक्रम
कच्चिल्लोकत्रयस्यास्य स्वस्ति लोकपरायण
१२.४६.३चतुर्थं ध्यानमार्गं त्वमालम्ब्य पुरुषोत्तम
अपक्रान्तो यतो देव तेन मे विस्मितं मनः
१२.४६.४निगृहीतो हि वायुस्ते पञ्चकर्मा शरीरगः
इन्द्रियाणि च सर्वाणि मनसि स्थापितानि ते
१२.४६.५इन्द्रियाणि मनश्चैव बुद्धौ संवेशितानि ते
सर्वश्चैव गणो देव क्षेत्रज्ञे ते निवेशितः
१२.४६.६नेङ्गन्ति तव रोमाणि स्थिरा बुद्धिस्तथा मनः
स्थाणुकुड्यशिलाभूतो निरीहश्चासि माधव
१२.४६.७यथा दीपो निवातस्थो निरिङ्गो ज्वलतेऽच्युत
तथासि भगवन्देव निश्चलो दृढनिश्चयः
१२.४६.८यदि श्रोतुमिहार्हामि न रहस्यं च ते यदि
छिन्धि मे संशयं देव प्रपन्नायाभियाचते
१२.४६.९त्वं हि कर्ता विकर्ता च त्वं क्षरं चाक्षरं च हि
अनादिनिधनश्चाद्यस्त्वमेव पुरुषोत्तम
१२.४६.१०त्वत्प्रपन्नाय भक्ताय शिरसा प्रणताय च
ध्यानस्यास्य यथातत्त्वं ब्रूहि धर्मभृतां वर
१२.४६.११वैशंपायन उवाच
१२.४६.१२ततः स्वगोचरे न्यस्य मनो बुद्धीन्द्रियाणि च
स्मितपूर्वमुवाचेदं भगवान्वासवानुजः
१२.४६.१३शरतल्पगतो भीष्मः शाम्यन्निव हुताशनः
मां ध्याति पुरुषव्याघ्रस्ततो मे तद्गतं मनः
१२.४६.१४यस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः
न सहेद्देवराजोऽपि तमस्मि मनसा गतः
१२.४६.१५येनाभिद्रुत्य तरसा समस्तं राजमण्डलम्
ऊढास्तिस्रः पुरा कन्यास्तमस्मि मनसा गतः
१२.४६.१६त्रयोविंशतिरात्रं यो योधयामास भार्गवम्
न च रामेण निस्तीर्णस्तमस्मि मनसा गतः
१२.४६.१७यं गङ्गा गर्भविधिना धारयामास पार्थिवम्
वसिष्ठशिष्यं तं तात मनसास्मि गतो नृप
१२.४६.१८दिव्यास्त्राणि महातेजा यो धारयति बुद्धिमान्
साङ्गांश्च चतुरो वेदांस्तमस्मि मनसा गतः
१२.४६.१९रामस्य दयितं शिष्यं जामदग्न्यस्य पाण्डव
आधारं सर्वविद्यानां तमस्मि मनसा गतः
१२.४६.२०एकीकृत्येन्द्रियग्रामं मनः संयम्य मेधया
शरणं मामुपागच्छत्ततो मे तद्गतं मनः
१२.४६.२१स हि भूतं च भव्यं च भवच्च पुरुषर्षभ
वेत्ति धर्मभृतां श्रेष्ठस्ततो मे तद्गतं मनः
१२.४६.२२तस्मिन्हि पुरुषव्याघ्रे कर्मभिः स्वैर्दिवं गते
भविष्यति मही पार्थ नष्टचन्द्रेव शर्वरी
१२.४६.२३तद्युधिष्ठिर गाङ्गेयं भीष्मं भीमपराक्रमम्
अभिगम्योपसंगृह्य पृच्छ यत्ते मनोगतम्
१२.४६.२४चातुर्वेद्यं चातुर्होत्रं चातुराश्रम्यमेव च
चातुर्वर्ण्यस्य धर्मं च पृच्छैनं पृथिवीपते
१२.४६.२५तस्मिन्नस्तमिते भीष्मे कौरवाणां धुरंधरे
ज्ञानान्यल्पीभविष्यन्ति तस्मात्त्वां चोदयाम्यहम्
१२.४६.२६तच्छ्रुत्वा वासुदेवस्य तथ्यं वचनमुत्तमम्
साश्रुकण्ठः स धर्मज्ञो जनार्दनमुवाच ह
१२.४६.२७यद्भवानाह भीष्मस्य प्रभावं प्रति माधव
तथा तन्नात्र संदेहो विद्यते मम मानद
१२.४६.२८महाभाग्यं हि भीष्मस्य प्रभावश्च महात्मनः
श्रुतं मया कथयतां ब्राह्मणानां महात्मनाम्
१२.४६.२९भवांश्च कर्ता लोकानां यद्ब्रवीत्यरिसूदन
तथा तदनभिध्येयं वाक्यं यादवनन्दन
१२.४६.३०यतस्त्वनुग्रहकृता बुद्धिस्ते मयि माधव
त्वामग्रतः पुरस्कृत्य भीष्मं पश्यामहे वयम्
१२.४६.३१आवृत्ते भगवत्यर्के स हि लोकान्गमिष्यति
त्वद्दर्शनं महाबाहो तस्मादर्हति कौरवः
१२.४६.३२तव ह्याद्यस्य देवस्य क्षरस्यैवाक्षरस्य च
दर्शनं तस्य लाभः स्यात्त्वं हि ब्रह्ममयो निधिः
१२.४६.३३श्रुत्वैतद्धर्मराजस्य वचनं मधुसूदनः
पार्श्वस्थं सात्यकिं प्राह रथो मे युज्यतामिति
१२.४६.३४सात्यकिस्तूपनिष्क्रम्य केशवस्य समीपतः
दारुकं प्राह कृष्णस्य युज्यतां रथ इत्युत
१२.४६.३५स सात्यकेराशु वचो निशम्य; रथोत्तमं काञ्चनभूषिताङ्गम्
मसारगल्वर्कमयैर्विभङ्गै;र्विभूषितं हेमपिनद्धचक्रम्
१२.४६.३६दिवाकरांशुप्रभमाशुगामिनं; विचित्रनानामणिरत्नभूषितम्
नवोदितं सूर्यमिव प्रतापिनं; विचित्रतार्क्ष्यध्वजिनं पताकिनम्
१२.४६.३७सुग्रीवसैन्यप्रमुखैर्वराश्वै;र्मनोजवैः काञ्चनभूषिताङ्गैः
सुयुक्तमावेदयदच्युताय; कृताञ्जलिर्दारुको राजसिंह