१२.४५.१जनमेजय उवाच
१२.४५.२प्राप्य राज्यं महातेजा धर्मराजो युधिष्ठिरः
यदन्यदकरोद्विप्र तन्मे वक्तुमिहार्हसि
१२.४५.३भगवान्वा हृषीकेशस्त्रैलोक्यस्य परो गुरुः
ऋषे यदकरोद्वीरस्तच्च व्याख्यातुमर्हसि
१२.४५.४वैशंपायन उवाच
१२.४५.५शृणु राजेन्द्र तत्त्वेन कीर्त्यमानं मयानघ
वासुदेवं पुरस्कृत्य यदकुर्वत पाण्डवाः
१२.४५.६प्राप्य राज्यं महातेजा धर्मराजो युधिष्ठिरः
चातुर्वर्ण्यं यथायोगं स्वे स्वे धर्मे न्यवेशयत्
१२.४५.७ब्राह्मणानां सहस्रं च स्नातकानां महात्मनाम्
सहस्रनिष्कमेकैकं वाचयामास पाण्डवः
१२.४५.८तथानुजीविनो भृत्यान्संश्रितानतिथीनपि
कामैः संतर्पयामास कृपणांस्तर्ककानपि
१२.४५.९पुरोहिताय धौम्याय प्रादादयुतशः स गाः
धनं सुवर्णं रजतं वासांसि विविधानि च
१२.४५.१०कृपाय च महाराज गुरुवृत्तिमवर्तत
विदुराय च धर्मात्मा पूजां चक्रे यतव्रतः
१२.४५.११भक्षान्नपानैर्विविधैर्वासोभिः शयनासनैः
सर्वान्संतोषयामास संश्रितान्ददतां वरः
१२.४५.१२लब्धप्रशमनं कृत्वा स राजा राजसत्तम
युयुत्सोर्धार्तराष्ट्रस्य पूजां चक्रे महायशाः
१२.४५.१३धृतराष्ट्राय तद्राज्यं गान्धार्यै विदुराय च
निवेद्य स्वस्थवद्राजन्नास्ते राजा युधिष्ठिरः
१२.४५.१४तथा सर्वं स नगरं प्रसाद्य जनमेजय
वासुदेवं महात्मानमभ्यगच्छत्कृताञ्जलिः
१२.४५.१५ततो महति पर्यङ्के मणिकाञ्चनभूषिते
ददर्श कृष्णमासीनं नीलं मेराविवाम्बुदम्
१२.४५.१६जाज्वल्यमानं वपुषा दिव्याभरणभूषितम्
पीतकौशेयसंवीतं हेम्नीवोपहितं मणिम्
१२.४५.१७कौस्तुभेन उरःस्थेन मणिनाभिविराजितम्
उद्यतेवोदयं शैलं सूर्येणाप्तकिरीटिनम्
नौपम्यं विद्यते यस्य त्रिषु लोकेषु किंचन
१२.४५.१८सोऽभिगम्य महात्मानं विष्णुं पुरुषविग्रहम्
उवाच मधुराभाषः स्मितपूर्वमिदं तदा
१२.४५.१९सुखेन ते निशा कच्चिद्व्युष्टा बुद्धिमतां वर
कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत
१२.४५.२०तव ह्याश्रित्य तां देवीं बुद्धिं बुद्धिमतां वर
वयं राज्यमनुप्राप्ताः पृथिवी च वशे स्थिता
१२.४५.२१भवत्प्रसादाद्भगवंस्त्रिलोकगतिविक्रम
जयः प्राप्तो यशश्चाग्र्यं न च धर्माच्च्युता वयम्
१२.४५.२२तं तथा भाषमाणं तु धर्मराजं युधिष्ठिरम्
नोवाच भगवान्किंचिद्ध्यानमेवान्वपद्यत