१२.४९.१वासुदेव उवाच
१२.४९.२शृणु कौन्तेय रामस्य मया यावत्परिश्रुतम्
महर्षीणां कथयतां कारणं तस्य जन्म च
१२.४९.३यथा च जामदग्न्येन कोटिशः क्षत्रिया हताः
उद्भूता राजवंशेषु ये भूयो भारते हताः
१२.४९.४जह्नोरजह्नुस्तनयो बल्लवस्तस्य चात्मजः
कुशिको नाम धर्मज्ञस्तस्य पुत्रो महीपतिः
१२.४९.५उग्रं तपः समातिष्ठत्सहस्राक्षसमो भुवि
पुत्रं लभेयमजितं त्रिलोकेश्वरमित्युत
१२.४९.६तमुग्रतपसं दृष्ट्वा सहस्राक्षः पुरंदरः
समर्थः पुत्रजनने स्वयमेवैत्य भारत
१२.४९.७पुत्रत्वमगमद्राजंस्तस्य लोकेश्वरेश्वरः
गाधिर्नामाभवत्पुत्रः कौशिकः पाकशासनः
१२.४९.८तस्य कन्याभवद्राजन्नाम्ना सत्यवती प्रभो
तां गाधिः कविपुत्राय सोर्चीकाय ददौ प्रभुः
१२.४९.९ततः प्रीतस्तु कौन्तेय भार्गवः कुरुनन्दन
पुत्रार्थे श्रपयामास चरुं गाधेस्तथैव च
१२.४९.१०आहूय चाह तां भार्यामृचीको भार्गवस्तदा
उपयोज्यश्चरुरयं त्वया मात्राप्ययं तव
१२.४९.११तस्या जनिष्यते पुत्रो दीप्तिमान्क्षत्रियर्षभः
अजय्यः क्षत्रियैर्लोके क्षत्रियर्षभसूदनः
१२.४९.१२तवापि पुत्रं कल्याणि धृतिमन्तं तपोन्वितम्
शमात्मकं द्विजश्रेष्ठं चरुरेष विधास्यति
१२.४९.१३इत्येवमुक्त्वा तां भार्यामृचीको भृगुनन्दनः
तपस्यभिरतो धीमाञ्जगामारण्यमेव ह
१२.४९.१४एतस्मिन्नेव काले तु तीर्थयात्रापरो नृपः
गाधिः सदारः संप्राप्त ऋचीकस्याश्रमं प्रति
१२.४९.१५चरुद्वयं गृहीत्वा तु राजन्सत्यवती तदा
भर्तुर्वाक्यादथाव्यग्रा मात्रे हृष्टा न्यवेदयत्
१२.४९.१६माता तु तस्याः कौन्तेय दुहित्रे स्वं चरुं ददौ
तस्याश्चरुमथाज्ञातमात्मसंस्थं चकार ह
१२.४९.१७अथ सत्यवती गर्भं क्षत्रियान्तकरं तदा
धारयामास दीप्तेन वपुषा घोरदर्शनम्
१२.४९.१८तामृचीकस्तदा दृष्ट्वा ध्यानयोगेन वै ततः
अब्रवीद्राजशार्दूल स्वां भार्यां वरवर्णिनीम्
१२.४९.१९मात्रासि व्यंसिता भद्रे चरुव्यत्यासहेतुना
जनिष्यते हि ते पुत्रः क्रूरकर्मा महाबलः
१२.४९.२०जनिष्यते हि ते भ्राता ब्रह्मभूतस्तपोधनः
विश्वं हि ब्रह्म तपसा मया तत्र समर्पितम्
१२.४९.२१सैवमुक्ता महाभागा भर्त्रा सत्यवती तदा
पपात शिरसा तस्मै वेपन्ती चाब्रवीदिदम्
१२.४९.२२नार्होऽसि भगवन्नद्य वक्तुमेवंविधं वचः
ब्राह्मणापसदं पुत्रं प्राप्स्यसीति महामुने
१२.४९.२३ऋचीक उवाच
१२.४९.२४नैष संकल्पितः कामो मया भद्रे तथा त्वयि
उग्रकर्मा भवेत्पुत्रश्चरुर्माता च कारणम्
१२.४९.२५सत्यवत्युवाच
१२.४९.२६इच्छँल्लोकानपि मुने सृजेथाः किं पुनर्मम
शमात्मकमृजुं पुत्रं लभेयं जपतां वर
१२.४९.२७ऋचीक उवाच
१२.४९.२८नोक्तपूर्वं मया भद्रे स्वैरेष्वप्यनृतं वचः
किमुताग्निं समाधाय मन्त्रवच्चरुसाधने
१२.४९.२९सत्यवत्युवाच
१२.४९.३०काममेवं भवेत्पौत्रो ममेह तव चैव ह
शमात्मकमृजुं पुत्रं लभेयं जपतां वर
१२.४९.३१ऋचीक उवाच
१२.४९.३२पुत्रे नास्ति विशेषो मे पौत्रे वा वरवर्णिनि
यथा त्वयोक्तं तु वचस्तथा भद्रे भविष्यति
१२.४९.३३वासुदेव उवाच
१२.४९.३४ततः सत्यवती पुत्रं जनयामास भार्गवम्
तपस्यभिरतं शान्तं जमदग्निं शमात्मकम्
१२.४९.३५विश्वामित्रं च दायादं गाधिः कुशिकनन्दनः
प्राप ब्रह्मर्षिसमितं विश्वेन ब्रह्मणा युतम्
१२.४९.३६आर्चीको जनयामास जमदग्निः सुदारुणम्
सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदे च पारगम्
रामं क्षत्रियहन्तारं प्रदीप्तमिव पावकम्
१२.४९.३७एतस्मिन्नेव काले तु कृतवीर्यात्मजो बली
अर्जुनो नाम तेजस्वी क्षत्रियो हैहयान्वयः
१२.४९.३८ददाह पृथिवीं सर्वां सप्तद्वीपां सपत्तनाम्
स्वबाह्वस्त्रबलेनाजौ धर्मेण परमेण च
१२.४९.३९तृषितेन स कौरव्य भिक्षितश्चित्रभानुना
सहस्रबाहुर्विक्रान्तः प्रादाद्भिक्षामथाग्नये
१२.४९.४०ग्रामान्पुराणि घोषांश्च पत्तनानि च वीर्यवान्
जज्वाल तस्य बाणैस्तु चित्रभानुर्दिधक्षया
१२.४९.४१स तस्य पुरुषेन्द्रस्य प्रभावेन महातपाः
ददाह कार्तवीर्यस्य शैलानथ वनानि च
१२.४९.४२स शून्यमाश्रमारण्यं वरुणस्यात्मजस्य तत्
ददाह पवनेनेद्धश्चित्रभानुः सहैहयः
१२.४९.४३आपवस्तं ततो रोषाच्छशापार्जुनमच्युत
दग्धेऽऽश्रमे महाराज कार्तवीर्येण वीर्यवान्
१२.४९.४४त्वया न वर्जितं मोहाद्यस्माद्वनमिदं मम
दग्धं तस्माद्रणे रामो बाहूंस्ते छेत्स्यतेऽर्जुन
१२.४९.४५अर्जुनस्तु महाराज बली नित्यं शमात्मकः
ब्रह्मण्यश्च शरण्यश्च दाता शूरश्च भारत
१२.४९.४६तस्य पुत्राः सुबलिनः शापेनासन्पितुर्वधे
निमित्तमवलिप्ता वै नृशंसाश्चैव नित्यदा
१२.४९.४७जमदग्निधेन्वास्ते वत्समानिन्युर्भरतर्षभ
अज्ञातं कार्तवीर्यस्य हैहयेन्द्रस्य धीमतः
१२.४९.४८ततोऽर्जुनस्य बाहूंस्तु छित्त्वा वै पौरुषान्वितः
तं रुवन्तं ततो वत्सं जामदग्न्यः स्वमाश्रमम्
प्रत्यानयत राजेन्द्र तेषामन्तःपुरात्प्रभुः
१२.४९.४९अर्जुनस्य सुतास्ते तु संभूयाबुद्धयस्तदा
गत्वाश्रममसंबुद्धं जमदग्नेर्महात्मनः
१२.४९.५०अपातयन्त भल्लाग्रैः शिरः कायान्नराधिप
समित्कुशार्थं रामस्य निर्गतस्य महात्मनः
१२.४९.५१ततः पितृवधामर्षाद्रामः परममन्युमान्
निःक्षत्रियां प्रतिश्रुत्य महीं शस्त्रमगृह्णत
१२.४९.५२ततः स भृगुशार्दूलः कार्तवीर्यस्य वीर्यवान्
विक्रम्य निजघानाशु पुत्रान्पौत्रांश्च सर्वशः
१२.४९.५३स हैहयसहस्राणि हत्वा परममन्युमान्
चकार भार्गवो राजन्महीं शोणितकर्दमाम्
१२.४९.५४स तथा सुमहातेजाः कृत्वा निःक्षत्रियां महीम्
कृपया परयाविष्टो वनमेव जगाम ह
१२.४९.५५ततो वर्षसहस्रेषु समतीतेषु केषुचित्
क्षोभं संप्राप्तवांस्तीव्रं प्रकृत्या कोपनः प्रभुः
१२.४९.५६विश्वामित्रस्य पौत्रस्तु रैभ्यपुत्रो महातपाः
परावसुर्महाराज क्षिप्त्वाह जनसंसदि
१२.४९.५७ये ते ययातिपतने यज्ञे सन्तः समागताः
प्रतर्दनप्रभृतयो राम किं क्षत्रिया न ते
१२.४९.५८मिथ्याप्रतिज्ञो राम त्वं कत्थसे जनसंसदि
भयात्क्षत्रियवीराणां पर्वतं समुपाश्रितः
१२.४९.५९स पुनः क्षत्रियशतैः पृथिवीमनुसंतताम्
परावसोस्तदा श्रुत्वा शस्त्रं जग्राह भार्गवः
१२.४९.६०ततो ये क्षत्रिया राजञ्शतशस्तेन जीविताः
ते विवृद्धा महावीर्याः पृथिवीपतयोऽभवन्
१२.४९.६१स पुनस्ताञ्जघानाशु बालानपि नराधिप
गर्भस्थैस्तु मही व्याप्ता पुनरेवाभवत्तदा
१२.४९.६२जातं जातं स गर्भं तु पुनरेव जघान ह
अरक्षंश्च सुतान्कांश्चित्तदा क्षत्रिययोषितः
१२.४९.६३त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः
दक्षिणामश्वमेधान्ते कश्यपायाददत्ततः
१२.४९.६४क्षत्रियाणां तु शेषार्थं करेणोद्दिश्य कश्यपः
स्रुक्प्रग्रहवता राजञ्श्रीमान्वाक्यमथाब्रवीत्
१२.४९.६५गच्छ पारं समुद्रस्य दक्षिणस्य महामुने
न ते मद्विषये राम वस्तव्यमिह कर्हिचित्
१२.४९.६६ततः शूर्पारकं देशं सागरस्तस्य निर्ममे
संत्रासाज्जामदग्न्यस्य सोऽपरान्तं महीतलम्
१२.४९.६७कश्यपस्तु महाराज प्रतिगृह्य महीमिमाम्
कृत्वा ब्राह्मणसंस्थां वै प्रविवेश महावनम्
१२.४९.६८ततः शूद्राश्च वैश्याश्च यथास्वैरप्रचारिणः
अवर्तन्त द्विजाग्र्याणां दारेषु भरतर्षभ
१२.४९.६९अराजके जीवलोके दुर्बला बलवत्तरैः
बाध्यन्ते न च वित्तेषु प्रभुत्वमिह कस्यचित्
१२.४९.७०ततः कालेन पृथिवी प्रविवेश रसातलम्
अरक्ष्यमाणा विधिवत्क्षत्रियैर्धर्मरक्षिभिः
१२.४९.७१ऊरुणा धारयामास कश्यपः पृथिवीं ततः
निमज्जन्तीं तदा राजंस्तेनोर्वीति मही स्मृता
१२.४९.७२रक्षिणश्च समुद्दिश्य प्रायाचत्पृथिवी तदा
प्रसाद्य कश्यपं देवी क्षत्रियान्बाहुशालिनः
१२.४९.७३सन्ति ब्रह्मन्मया गुप्ता नृषु क्षत्रियपुंगवाः
हैहयानां कुले जातास्ते संरक्षन्तु मां मुने
१२.४९.७४अस्ति पौरवदायादो विडूरथसुतः प्रभो
ऋक्षैः संवर्धितो विप्र ऋक्षवत्येव पर्वते
१२.४९.७५तथानुकम्पमानेन यज्वनाथामितौजसा
पराशरेण दायादः सौदासस्याभिरक्षितः
१२.४९.७६सर्वकर्माणि कुरुते तस्यर्षेः शूद्रवद्धि सः
सर्वकर्मेत्यभिख्यातः स मां रक्षतु पार्थिवः
१२.४९.७७शिबेः पुत्रो महातेजा गोपतिर्नाम नामतः
वने संरक्षितो गोभिः सोऽभिरक्षतु मां मुने
१२.४९.७८प्रतर्दनस्य पुत्रस्तु वत्सो नाम महायशाः
वत्सैः संवर्धितो गोष्ठे स मां रक्षतु पार्थिवः
१२.४९.७९दधिवाहनपौत्रस्तु पुत्रो दिविरथस्य ह
अङ्गः स गौतमेनापि गङ्गाकूलेऽभिरक्षितः
१२.४९.८०बृहद्रथो महाबाहुर्भुवि भूतिपुरस्कृतः
गोलाङ्गूलैर्महाभागो गृध्रकूटेऽभिरक्षितः
१२.४९.८१मरुत्तस्यान्ववाये तु क्षत्रियास्तुर्वसोस्त्रयः
मरुत्पतिसमा वीर्ये समुद्रेणाभिरक्षिताः
१२.४९.८२एते क्षत्रियदायादास्तत्र तत्र परिश्रुताः
सम्यङ्मामभिरक्षन्तु ततः स्थास्यामि निश्चला
१२.४९.८३एतेषां पितरश्चैव तथैव च पितामहाः
मदर्थं निहता युद्धे रामेणाक्लिष्टकर्मणा
१२.४९.८४तेषामपचितिश्चैव मया कार्या न संशयः
न ह्यहं कामये नित्यमविक्रान्तेन रक्षणम्
१२.४९.८५ततः पृथिव्या निर्दिष्टांस्तान्समानीय कश्यपः
अभ्यषिञ्चन्महीपालान्क्षत्रियान्वीर्यसंमतान्
१२.४९.८६तेषां पुत्राश्च पौत्राश्च येषां वंशाः प्रतिष्ठिताः
एवमेतत्पुरा वृत्तं यन्मां पृच्छसि पाण्डव
१२.४९.८७वैशंपायन उवाच
१२.४९.८८एवं ब्रुवन्नेव यदुप्रवीरो; युधिष्ठिरं धर्मभृतां वरिष्ठम्
रथेन तेनाशु ययौ यथार्को; विशन्प्रभाभिर्भगवांस्त्रिलोकम्