१२. शान्तिपर्व
१२.५०.१वैशंपायन उवाच

१२.५०.२ततो रामस्य तत्कर्म श्रुत्वा राजा युधिष्ठिरः
विस्मयं परमं गत्वा प्रत्युवाच जनार्दनम्

१२.५०.३अहो रामस्य वार्ष्णेय शक्रस्येव महात्मनः
विक्रमो येन वसुधा क्रोधान्निःक्षत्रिया कृता

१२.५०.४गोभिः समुद्रेण तथा गोलाङ्गूलर्क्षवानरैः
गुप्ता रामभयोद्विग्नाः क्षत्रियाणां कुलोद्वहाः

१२.५०.५अहो धन्यो हि लोकोऽयं सभाग्याश्च नरा भुवि
यत्र कर्मेदृशं धर्म्यं द्विजेन कृतमच्युत

१२.५०.६तथा यान्तौ तदा तात तावच्युतयुधिष्ठिरौ
जग्मतुर्यत्र गाङ्गेयः शरतल्पगतः प्रभुः

१२.५०.७ततस्ते ददृशुर्भीष्मं शरप्रस्तरशायिनम्
स्वरश्मिजालसंवीतं सायंसूर्यमिवानलम्

१२.५०.८उपास्यमानं मुनिभिर्देवैरिव शतक्रतुम्
देशे परमधर्मिष्ठे नदीमोघवतीमनु

१२.५०.९दूरादेव तमालोक्य कृष्णो राजा च धर्मराट्
चत्वारः पाण्डवाश्चैव ते च शारद्वतादयः

१२.५०.१०अवस्कन्द्याथ वाहेभ्यः संयम्य प्रचलं मनः
एकीकृत्येन्द्रियग्राममुपतस्थुर्महामुनीन्

१२.५०.११अभिवाद्य च गोविन्दः सात्यकिस्ते च कौरवाः
व्यासादींस्तानृषीन्पश्चाद्गाङ्गेयमुपतस्थिरे

१२.५०.१२तपोवृद्धिं ततः पृष्ट्वा गाङ्गेयं यदुकौरवाः
परिवार्य ततः सर्वे निषेदुः पुरुषर्षभाः

१२.५०.१३ततो निशम्य गाङ्गेयं शाम्यमानमिवानलम्
किंचिद्दीनमना भीष्ममिति होवाच केशवः

१२.५०.१४कच्चिज्ज्ञानानि ते राजन्प्रसन्नानि यथा पुरा
कच्चिदव्याकुला चैव बुद्धिस्ते वदतां वर

१२.५०.१५शराभिघातदुःखात्ते कच्चिद्गात्रं न दूयते
मानसादपि दुःखाद्धि शारीरं बलवत्तरम्

१२.५०.१६वरदानात्पितुः कामं छन्दमृत्युरसि प्रभो
शंतनोर्धर्मशीलस्य न त्वेतच्छमकारणम्

१२.५०.१७सुसूक्ष्मोऽपीह देहे वै शल्यो जनयते रुजम्
किं पुनः शरसंघातैश्चितस्य तव भारत

१२.५०.१८कामं नैतत्तवाख्येयं प्राणिनां प्रभवाप्ययौ
भवान्ह्युपदिशेच्छ्रेयो देवानामपि भारत

१२.५०.१९यद्धि भूतं भविष्यच्च भवच्च पुरुषर्षभ
सर्वं तज्ज्ञानवृद्धस्य तव पाणाविवाहितम्

१२.५०.२०संसारश्चैव भूतानां धर्मस्य च फलोदयः
विदितस्ते महाप्राज्ञ त्वं हि ब्रह्ममयो निधिः

१२.५०.२१त्वां हि राज्ये स्थितं स्फीते समग्राङ्गमरोगिणम्
स्त्रीसहस्रैः परिवृतं पश्यामीहोर्ध्वरेतसम्

१२.५०.२२ऋते शांतनवाद्भीष्मात्त्रिषु लोकेषु पार्थिव
सत्यसंधान्महावीर्याच्छूराद्धर्मैकतत्परात्

१२.५०.२३मृत्युमावार्य तरसा शरप्रस्तरशायिनः
निसर्गप्रभवं किंचिन्न च तातानुशुश्रुम

१२.५०.२४सत्ये तपसि दाने च यज्ञाधिकरणे तथा
धनुर्वेदे च वेदे च नित्यं चैवान्ववेक्षणे

१२.५०.२५अनृशंसं शुचिं दान्तं सर्वभूतहिते रतम्
महारथं त्वत्सदृशं न कंचिदनुशुश्रुम

१२.५०.२६त्वं हि देवान्सगन्धर्वान्ससुरासुरराक्षसान्
शक्त एकरथेनैव विजेतुं नात्र संशयः

१२.५०.२७त्वं हि भीष्म महाबाहो वसूनां वासवोपमः
नित्यं विप्रैः समाख्यातो नवमोऽनवमो गुणैः

१२.५०.२८अहं हि त्वाभिजानामि यस्त्वं पुरुषसत्तम
त्रिदशेष्वपि विख्यातः स्वशक्त्या सुमहाबलः

१२.५०.२९मनुष्येषु मनुष्येन्द्र न दृष्टो न च मे श्रुतः
भवतो यो गुणैस्तुल्यः पृथिव्यां पुरुषः क्वचित्

१२.५०.३०त्वं हि सर्वैर्गुणै राजन्देवानप्यतिरिच्यसे
तपसा हि भवाञ्शक्तः स्रष्टुं लोकांश्चराचरान्

१२.५०.३१तदस्य तप्यमानस्य ज्ञातीनां संक्षयेण वै
ज्येष्ठस्य पाण्डुपुत्रस्य शोकं भीष्म व्यपानुद

१२.५०.३२ये हि धर्माः समाख्याताश्चातुर्वर्ण्यस्य भारत
चातुराश्रम्यसंसृष्टास्ते सर्वे विदितास्तव

१२.५०.३३चातुर्वेद्ये च ये प्रोक्ताश्चातुर्होत्रे च भारत
सांख्ये योगे च नियता ये च धर्माः सनातनाः

१२.५०.३४चातुर्वर्ण्येन यश्चैको धर्मो न स्म विरुध्यते
सेव्यमानः स चैवाद्यो गाङ्गेय विदितस्तव

१२.५०.३५इतिहासपुराणं च कार्त्स्न्येन विदितं तव
धर्मशास्त्रं च सकलं नित्यं मनसि ते स्थितम्

१२.५०.३६ये च केचन लोकेऽस्मिन्नर्थाः संशयकारकाः
तेषां छेत्ता नास्ति लोके त्वदन्यः पुरुषर्षभ

१२.५०.३७स पाण्डवेयस्य मनःसमुत्थितं; नरेन्द्र शोकं व्यपकर्ष मेधया
भवद्विधा ह्युत्तमबुद्धिविस्तरा; विमुह्यमानस्य जनस्य शान्तये