१२.५३.१वैशंपायन उवाच
१२.५३.२ततः प्रविश्य भवनं प्रसुप्तो मधुसूदनः
याममात्रावशेषायां यामिन्यां प्रत्यबुध्यत
१२.५३.३स ध्यानपथमाश्रित्य सर्वज्ञानानि माधवः
अवलोक्य ततः पश्चाद्दध्यौ ब्रह्म सनातनम्
१२.५३.४ततः श्रुतिपुराणज्ञाः शिक्षिता रक्तकण्ठिनः
अस्तुवन्विश्वकर्माणं वासुदेवं प्रजापतिम्
१२.५३.५पठन्ति पाणिस्वनिकास्तथा गायन्ति गायनाः
शङ्खानकमृदङ्गांश्च प्रवाद्यन्त सहस्रशः
१२.५३.६वीणापणववेणूनां स्वनश्चातिमनोरमः
प्रहास इव विस्तीर्णः शुश्रुवे तस्य वेश्मनः
१२.५३.७तथा युधिष्ठिरस्यापि राज्ञो मङ्गलसंहिताः
उच्चेरुर्मधुरा वाचो गीतवादित्रसंहिताः
१२.५३.८तत उत्थाय दाशार्हः स्नातः प्राञ्जलिरच्युतः
जप्त्वा गुह्यं महाबाहुरग्नीनाश्रित्य तस्थिवान्
१२.५३.९ततः सहस्रं विप्राणां चतुर्वेदविदां तथा
गवां सहस्रेणैकैकं वाचयामास माधवः
१२.५३.१०मङ्गलालम्भनं कृत्वा आत्मानमवलोक्य च
आदर्शे विमले कृष्णस्ततः सात्यकिमब्रवीत्
१२.५३.११गच्छ शैनेय जानीहि गत्वा राजनिवेशनम्
अपि सज्जो महातेजा भीष्मं द्रष्टुं युथिष्ठिरः
१२.५३.१२ततः कृष्णस्य वचनात्सात्यकिस्त्वरितो ययौ
उपगम्य च राजानं युधिष्ठिरमुवाच ह
१२.५३.१३युक्तो रथवरो राजन्वासुदेवस्य धीमतः
समीपमापगेयस्य प्रयास्यति जनार्दनः
१२.५३.१४भवत्प्रतीक्षः कृष्णोऽसौ धर्मराज महाद्युते
यदत्रानन्तरं कृत्यं तद्भवान्कर्तुमर्हति
१२.५३.१५युधिष्ठिर उवाच
१२.५३.१६युज्यतां मे रथवरः फल्गुनाप्रतिमद्युते
न सैनिकैश्च यातव्यं यास्यामो वयमेव हि
१२.५३.१७न च पीडयितव्यो मे भीष्मो धर्मभृतां वरः
अतः पुरःसराश्चापि निवर्तन्तु धनंजय
१२.५३.१८अद्यप्रभृति गाङ्गेयः परं गुह्यं प्रवक्ष्यति
ततो नेच्छामि कौन्तेय पृथग्जनसमागमम्
१२.५३.१९वैशंपायन उवाच
१२.५३.२०तद्वाक्यमाकर्ण्य तथा कुन्तीपुत्रो धनंजयः
युक्तं रथवरं तस्मा आचचक्षे नरर्षभ
१२.५३.२१ततो युधिष्ठिरो राजा यमौ भीमार्जुनावपि
भूतानीव समस्तानि ययुः कृष्णनिवेशनम्
१२.५३.२२आगच्छत्स्वथ कृष्णोऽपि पाण्डवेषु महात्मसु
शैनेयसहितो धीमान्रथमेवान्वपद्यत
१२.५३.२३रथस्थाः संविदं कृत्वा सुखां पृष्ट्वा च शर्वरीम्
मेघघोषै रथवरैः प्रययुस्ते महारथाः
१२.५३.२४मेघपुष्पं बलाहं च सैन्यं सुग्रीवमेव च
दारुकश्चोदयामास वासुदेवस्य वाजिनः
१२.५३.२५ते हया वासुदेवस्य दारुकेण प्रचोदिताः
गां खुराग्रैस्तथा राजँल्लिखन्तः प्रययुस्तदा
१२.५३.२६ते ग्रसन्त इवाकाशं वेगवन्तो महाबलाः
क्षेत्रं धर्मस्य कृत्स्नस्य कुरुक्षेत्रमवातरन्
१२.५३.२७ततो ययुर्यत्र भीष्मः शरतल्पगतः प्रभुः
आस्ते ब्रह्मर्षिभिः सार्धं ब्रह्मा देवगणैर्यथा
१२.५३.२८ततोऽवतीर्य गोविन्दो रथात्स च युधिष्ठिरः
भीमो गाण्डीवधन्वा च यमौ सात्यकिरेव च
ऋषीनभ्यर्चयामासुः करानुद्यम्य दक्षिणान्
१२.५३.२९स तैः परिवृतो राजा नक्षत्रैरिव चन्द्रमाः
अभ्याजगाम गाङ्गेयं ब्रह्माणमिव वासवः
१२.५३.३०शरतल्पे शयानं तमादित्यं पतितं यथा
ददर्श स महाबाहुर्भयादागतसाध्वसः