१२. शान्तिपर्व
१२.५५.१वैशंपायन उवाच

१२.५५.२अथाब्रवीन्महातेजा वाक्यं कौरवनन्दनः
हन्त धर्मान्प्रवक्ष्यामि दृढे वाङ्मनसी मम
तव प्रसादाद्गोविन्द भूतात्मा ह्यसि शाश्वतः

१२.५५.३युधिष्ठिरस्तु मां राजा धर्मान्समनुपृच्छतु
एवं प्रीतो भविष्यामि धर्मान्वक्ष्यामि चानघ

१२.५५.४यस्मिन्राजर्षभे जाते धर्मात्मनि महात्मनि
अहृष्यन्नृषयः सर्वे स मां पृच्छतु पाण्डवः

१२.५५.५सर्वेषां दीप्तयशसां कुरूणां धर्मचारिणाम्
यस्य नास्ति समः कश्चित्स मां पृच्छतु पाण्डवः

१२.५५.६धृतिर्दमो ब्रह्मचर्यं क्षमा धर्मश्च नित्यदा
यस्मिन्नोजश्च तेजश्च स मां पृच्छतु पाण्डवः

१२.५५.७सत्यं दानं तपः शौचं शान्तिर्दाक्ष्यमसंभ्रमः
यस्मिन्नेतानि सर्वाणि स मां पृच्छतु पाण्डवः

१२.५५.८यो न कामान्न संरम्भान्न भयान्नार्थकारणात्
कुर्यादधर्मं धर्मात्मा स मां पृच्छतु पाण्डवः

१२.५५.९संबन्धिनोऽतिथीन्भृत्यान्संश्रितोपाश्रितांश्च यः
संमानयति सत्कृत्य स मां पृच्छतु पाण्डवः

१२.५५.१०सत्यनित्यः क्षमानित्यो ज्ञाननित्योऽतिथिप्रियः
यो ददाति सतां नित्यं स मां पृच्छतु पाण्डवः

१२.५५.११इज्याध्ययननित्यश्च धर्मे च निरतः सदा
शान्तः श्रुतरहस्यश्च स मां पृच्छतु पाण्डवः

१२.५५.१२वासुदेव उवाच

१२.५५.१३लज्जया परयोपेतो धर्मात्मा स युधिष्ठिरः
अभिशापभयाद्भीतो भवन्तं नोपसर्पति

१२.५५.१४लोकस्य कदनं कृत्वा लोकनाथो विशां पते
अभिशापभयाद्भीतो भवन्तं नोपसर्पति

१२.५५.१५पूज्यान्मान्यांश्च भक्तांश्च गुरून्संबन्धिबान्धवान्
अर्घ्यार्हानिषुभिर्हत्वा भवन्तं नोपसर्पति

१२.५५.१६भीष्म उवाच

१२.५५.१७ब्राह्मणानां यथा धर्मो दानमध्ययनं तपः
क्षत्रियाणां तथा कृष्ण समरे देहपातनम्

१२.५५.१८पितॄन्पितामहान्पुत्रान्गुरून्संबन्धिबान्धवान्
मिथ्याप्रवृत्तान्यः संख्ये निहन्याद्धर्म एव सः

१२.५५.१९समयत्यागिनो लुब्धान्गुरूनपि च केशव
निहन्ति समरे पापान्क्षत्रियो यः स धर्मवित्

१२.५५.२०आहूतेन रणे नित्यं योद्धव्यं क्षत्रबन्धुना
धर्म्यं स्वर्ग्यं च लोक्यं च युद्धं हि मनुरब्रवीत्

१२.५५.२१वैशंपायन उवाच

१२.५५.२२एवमुक्तस्तु भीष्मेण धर्मराजो युधिष्ठिरः
विनीतवदुपागम्य तस्थौ संदर्शनेऽग्रतः

१२.५५.२३अथास्य पादौ जग्राह भीष्मश्चाभिननन्द तम्
मूर्ध्नि चैनमुपाघ्राय निषीदेत्यब्रवीत्तदा

१२.५५.२४तमुवाचाथ गाङ्गेय ऋषभः सर्वधन्विनाम्
पृच्छ मां तात विस्रब्धं मा भैस्त्वं कुरुसत्तम