१२.५६.१वैशंपायन उवाच
१२.५६.२प्रणिपत्य हृषीकेशमभिवाद्य पितामहम्
अनुमान्य गुरून्सर्वान्पर्यपृच्छद्युधिष्ठिरः
१२.५६.३राज्यं वै परमो धर्म इति धर्मविदो विदुः
महान्तमेतं भारं च मन्ये तद्ब्रूहि पार्थिव
१२.५६.४राजधर्मान्विशेषेण कथयस्व पितामह
सर्वस्य जीवलोकस्य राजधर्माः परायणम्
१२.५६.५त्रिवर्गोऽत्र समासक्तो राजधर्मेषु कौरव
मोक्षधर्मश्च विस्पष्टः सकलोऽत्र समाहितः
१२.५६.६यथा हि रश्मयोऽश्वस्य द्विरदस्याङ्कुशो यथा
नरेन्द्रधर्मो लोकस्य तथा प्रग्रहणं स्मृतम्
१२.५६.७अत्र वै संप्रमूढे तु धर्मे राजर्षिसेविते
लोकस्य संस्था न भवेत्सर्वं च व्याकुलं भवेत्
१२.५६.८उदयन्हि यथा सूर्यो नाशयत्यासुरं तमः
राजधर्मास्तथालोक्यामाक्षिपन्त्यशुभां गतिम्
१२.५६.९तदग्रे राजधर्माणामर्थतत्त्वं पितामह
प्रब्रूहि भरतश्रेष्ठ त्वं हि बुद्धिमतां वरः
१२.५६.१०आगमश्च परस्त्वत्तः सर्वेषां नः परंतप
भवन्तं हि परं बुद्धौ वासुदेवोऽभिमन्यते
१२.५६.११भीष्म उवाच
१२.५६.१२नमो धर्माय महते नमः कृष्णाय वेधसे
ब्राह्मणेभ्यो नमस्कृत्य धर्मान्वक्ष्यामि शाश्वतान्
१२.५६.१३शृणु कार्त्स्न्येन मत्तस्त्वं राजधर्मान्युधिष्ठिर
निरुच्यमानान्नियतो यच्चान्यदभिवाञ्छसि
१२.५६.१४आदावेव कुरुश्रेष्ठ राज्ञा रञ्जनकाम्यया
देवतानां द्विजानां च वर्तितव्यं यथाविधि
१२.५६.१५दैवतान्यर्चयित्वा हि ब्राह्मणांश्च कुरूद्वह
आनृण्यं याति धर्मस्य लोकेन च स मान्यते
१२.५६.१६उत्थाने च सदा पुत्र प्रयतेथा युधिष्ठिर
न ह्युत्थानमृते दैवं राज्ञामर्थप्रसिद्धये
१२.५६.१७साधारणं द्वयं ह्येतद्दैवमुत्थानमेव च
पौरुषं हि परं मन्ये दैवं निश्चित्यमुच्यते
१२.५६.१८विपन्ने च समारम्भे संतापं मा स्म वै कृथाः
घटते विनयस्तात राज्ञामेष नयः परः
१२.५६.१९न हि सत्यादृते किंचिद्राज्ञां वै सिद्धिकारणम्
सत्ये हि राजा निरतः प्रेत्य चेह च नन्दति
१२.५६.२०ऋषीणामपि राजेन्द्र सत्यमेव परं धनम्
तथा राज्ञः परं सत्यान्नान्यद्विश्वासकारणम्
१२.५६.२१गुणवाञ्शीलवान्दान्तो मृदुर्धर्म्यो जितेन्द्रियः
सुदर्शः स्थूललक्ष्यश्च न भ्रश्येत सदा श्रियः
१२.५६.२२आर्जवं सर्वकार्येषु श्रयेथाः कुरुनन्दन
पुनर्नयविचारेण त्रयीसंवरणेन च
१२.५६.२३मृदुर्हि राजा सततं लङ्घ्यो भवति सर्वशः
तीक्ष्णाच्चोद्विजते लोकस्तस्मादुभयमाचर
१२.५६.२४अदण्ड्याश्चैव ते नित्यं विप्राः स्युर्ददतां वर
भूतमेतत्परं लोके ब्राह्मणा नाम भारत
१२.५६.२५मनुना चापि राजेन्द्र गीतौ श्लोकौ महात्मना
धर्मेषु स्वेषु कौरव्य हृदि तौ कर्तुमर्हसि
१२.५६.२६अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम्
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति
१२.५६.२७अयो हन्ति यदाश्मानमग्निश्चापोऽभिपद्यते
ब्रह्म च क्षत्रियो द्वेष्टि तदा सीदन्ति ते त्रयः
१२.५६.२८एतज्ज्ञात्वा महाराज नमस्या एव ते द्विजाः
भौमं ब्रह्म द्विजश्रेष्ठा धारयन्ति शमान्विताः
१२.५६.२९एवं चैव नरव्याघ्र लोकतन्त्रविघातकाः
निग्राह्या एव सततं बाहुभ्यां ये स्युरीदृशाः
१२.५६.३०श्लोकौ चोशनसा गीतौ पुरा तात महर्षिणा
तौ निबोध महाप्राज्ञ त्वमेकाग्रमना नृप
१२.५६.३१उद्यम्य शस्त्रमायान्तमपि वेदान्तगं रणे
निगृह्णीयात्स्वधर्मेण धर्मापेक्षी नरेश्वरः
१२.५६.३२विनश्यमानं धर्मं हि यो रक्षति स धर्मवित्
न तेन भ्रूणहा स स्यान्मन्युस्तं मनुमृच्छति
१२.५६.३३एवं चैव नरश्रेष्ठ रक्ष्या एव द्विजातयः
स्वपराद्धानपि हि तान्विषयान्ते समुत्सृजेत्
१२.५६.३४अभिशस्तमपि ह्येषां कृपायीत विशां पते
ब्रह्मघ्ने गुरुतल्पे च भ्रूणहत्ये तथैव च
१२.५६.३५राजद्विष्टे च विप्रस्य विषयान्ते विसर्जनम्
विधीयते न शारीरं भयमेषां कदाचन
१२.५६.३६दयिताश्च नरास्ते स्युर्नित्यं पुरुषसत्तम
न कोशः परमो ह्यन्यो राज्ञां पुरुषसंचयात्
१२.५६.३७दुर्गेषु च महाराज षट्सु ये शास्त्रनिश्चिताः
सर्वेषु तेषु मन्यन्ते नरदुर्गं सुदुस्तरम्
१२.५६.३८तस्मान्नित्यं दया कार्या चातुर्वर्ण्ये विपश्चिता
धर्मात्मा सत्यवाक्चैव राजा रञ्जयति प्रजाः
१२.५६.३९न च क्षान्तेन ते भाव्यं नित्यं पुरुषसत्तम
अधर्म्यो हि मृदू राजा क्षमावानिव कुञ्जरः
१२.५६.४०बार्हस्पत्ये च शास्त्रे वै श्लोका विनियताः पुरा
अस्मिन्नर्थे महाराज तन्मे निगदतः शृणु
१२.५६.४१क्षममाणं नृपं नित्यं नीचः परिभवेज्जनः
हस्तियन्ता गजस्येव शिर एवारुरुक्षति
१२.५६.४२तस्मान्नैव मृदुर्नित्यं तीक्ष्णो वापि भवेन्नृपः
वसन्तेऽर्क इव श्रीमान्न शीतो न च घर्मदः
१२.५६.४३प्रत्यक्षेणानुमानेन तथौपम्योपदेशतः
परीक्ष्यास्ते महाराज स्वे परे चैव सर्वदा
१२.५६.४४व्यसनानि च सर्वाणि त्यजेथा भूरिदक्षिण
न चैव न प्रयुञ्जीत सङ्गं तु परिवर्जयेत्
१२.५६.४५नित्यं हि व्यसनी लोके परिभूतो भवत्युत
उद्वेजयति लोकं चाप्यतिद्वेषी महीपतिः
१२.५६.४६भवितव्यं सदा राज्ञा गर्भिणीसहधर्मिणा
कारणं च महाराज शृणु येनेदमिष्यते
१२.५६.४७यथा हि गर्भिणी हित्वा स्वं प्रियं मनसोऽनुगम्
गर्भस्य हितमाधत्ते तथा राज्ञाप्यसंशयम्
१२.५६.४८वर्तितव्यं कुरुश्रेष्ठ नित्यं धर्मानुवर्तिना
स्वं प्रियं समभित्यज्य यद्यल्लोकहितं भवेत्
१२.५६.४९न संत्याज्यं च ते धैर्यं कदाचिदपि पाण्डव
धीरस्य स्पष्टदण्डस्य न ह्याज्ञा प्रतिहन्यते
१२.५६.५०परिहासश्च भृत्यैस्ते न नित्यं वदतां वर
कर्तव्यो राजशार्दूल दोषमत्र हि मे शृणु
१२.५६.५१अवमन्यन्ति भर्तारं संहर्षादुपजीविनः
स्वे स्थाने न च तिष्ठन्ति लङ्घयन्ति हि तद्वचः
१२.५६.५२प्रेष्यमाणा विकल्पन्ते गुह्यं चाप्यनुयुञ्जते
अयाच्यं चैव याचन्तेऽभोज्यान्याहारयन्ति च
१२.५६.५३क्रुध्यन्ति परिदीप्यन्ति भूमिमध्यासतेऽस्य च
उत्कोचैर्वञ्चनाभिश्च कार्याण्यनुविहन्ति च
१२.५६.५४जर्जरं चास्य विषयं कुर्वन्ति प्रतिरूपकैः
स्त्रीरक्षिभिश्च सज्जन्ते तुल्यवेषा भवन्ति च
१२.५६.५५वातं च ष्ठीवनं चैव कुर्वते चास्य संनिधौ
निर्लज्जा नरशार्दूल व्याहरन्ति च तद्वचः
१२.५६.५६हयं वा दन्तिनं वापि रथं नृपतिसंमतम्
अधिरोहन्त्यनादृत्य हर्षुले पार्थिवे मृदौ
१२.५६.५७इदं ते दुष्करं राजन्निदं ते दुर्विचेष्टितम्
इत्येवं सुहृदो नाम ब्रुवन्ति परिषद्गताः
१२.५६.५८क्रुद्धे चास्मिन्हसन्त्येव न च हृष्यन्ति पूजिताः
संघर्षशीलाश्च सदा भवन्त्यन्योन्यकारणात्
१२.५६.५९विस्रंसयन्ति मन्त्रं च विवृण्वन्ति च दुष्कृतम्
लीलया चैव कुर्वन्ति सावज्ञास्तस्य शासनम्
अलंकरणभोज्यं च तथा स्नानानुलेपनम्
१२.५६.६०हेलमाना नरव्याघ्र स्वस्थास्तस्योपशृण्वते
निन्दन्ति स्वानधीकारान्संत्यजन्ति च भारत
१२.५६.६१न वृत्त्या परितुष्यन्ति राजदेयं हरन्ति च
क्रीडितुं तेन चेच्छन्ति ससूत्रेणेव पक्षिणा
अस्मत्प्रणेयो राजेति लोके चैव वदन्त्युत
१२.५६.६२एते चैवापरे चैव दोषाः प्रादुर्भवन्त्युत
नृपतौ मार्दवोपेते हर्षुले च युधिष्ठिर