१२.५८.१भीष्म उवाच
१२.५८.२एतत्ते राजधर्माणां नवनीतं युधिष्ठिर
बृहस्पतिर्हि भगवान्नान्यं धर्मं प्रशंसति
१२.५८.३विशालाक्षश्च भगवान्काव्यश्चैव महातपाः
सहस्राक्षो महेन्द्रश्च तथा प्राचेतसो मनुः
१२.५८.४भरद्वाजश्च भगवांस्तथा गौरशिरा मुनिः
राजशास्त्रप्रणेतारो ब्रह्मण्या ब्रह्मवादिनः
१२.५८.५रक्षामेव प्रशंसन्ति धर्मं धर्मभृतां वर
राज्ञां राजीवताम्राक्ष साधनं चात्र वै शृणु
१२.५८.६चारश्च प्रणिधिश्चैव काले दानममत्सरः
युक्त्यादानं न चादानमयोगेन युधिष्ठिर
१२.५८.७सतां संग्रहणं शौर्यं दाक्ष्यं सत्यं प्रजाहितम्
अनार्जवैरार्जवैश्च शत्रुपक्षस्य भेदनम्
१२.५८.८साधूनामपरित्यागः कुलीनानां च धारणम्
निचयश्च निचेयानां सेवा बुद्धिमतामपि
१२.५८.९बलानां हर्षणं नित्यं प्रजानामन्ववेक्षणम्
कार्येष्वखेदः कोशस्य तथैव च विवर्धनम्
१२.५८.१०पुरगुप्तिरविश्वासः पौरसंघातभेदनम्
केतनानां च जीर्णानामवेक्षा चैव सीदताम्
१२.५८.११द्विविधस्य च दण्डस्य प्रयोगः कालचोदितः
अरिमध्यस्थमित्राणां यथावच्चान्ववेक्षणम्
१२.५८.१२उपजापश्च भृत्यानामात्मनः परदर्शनात्
अविश्वासः स्वयं चैव परस्याश्वासनं तथा
१२.५८.१३नीतिधर्मानुसरणं नित्यमुत्थानमेव च
रिपूणामनवज्ञानं नित्यं चानार्यवर्जनम्
१२.५८.१४उत्थानं हि नरेन्द्राणां बृहस्पतिरभाषत
राजधर्मस्य यन्मूलं श्लोकांश्चात्र निबोध मे
१२.५८.१५उत्थानेनामृतं लब्धमुत्थानेनासुरा हताः
उत्थानेन महेन्द्रेण श्रैष्ठ्यं प्राप्तं दिवीह च
१२.५८.१६उत्थानधीरः पुरुषो वाग्धीरानधितिष्ठति
उत्थानधीरं वाग्धीरा रमयन्त उपासते
१२.५८.१७उत्थानहीनो राजा हि बुद्धिमानपि नित्यशः
धर्षणीयो रिपूणां स्याद्भुजंग इव निर्विषः
१२.५८.१८न च शत्रुरवज्ञेयो दुर्बलोऽपि बलीयसा
अल्पोऽपि हि दहत्यग्निर्विषमल्पं हिनस्ति च
१२.५८.१९एकाश्वेनापि संभूतः शत्रुर्दुर्गसमाश्रितः
तं तं तापयते देशमपि राज्ञः समृद्धिनः
१२.५८.२०राज्ञो रहस्यं यद्वाक्यं जयार्थं लोकसंग्रहः
हृदि यच्चास्य जिह्मं स्यात्कारणार्थं च यद्भवेत्
१२.५८.२१यच्चास्य कार्यं वृजिनमार्जवेनैव धार्यते
दम्भनार्थाय लोकस्य धर्मिष्ठामाचरेत्क्रियाम्
१२.५८.२२राज्यं हि सुमहत्तन्त्रं दुर्धार्यमकृतात्मभिः
न शक्यं मृदुना वोढुमाघातस्थानमुत्तमम्
१२.५८.२३राज्यं सर्वामिषं नित्यमार्जवेनेह धार्यते
तस्मान्मिश्रेण सततं वर्तितव्यं युधिष्ठिर
१२.५८.२४यद्यप्यस्य विपत्तिः स्याद्रक्षमाणस्य वै प्रजाः
सोऽप्यस्य विपुलो धर्म एवंवृत्ता हि भूमिपाः
१२.५८.२५एष ते राजधर्माणां लेशः समनुवर्णितः
भूयस्ते यत्र संदेहस्तद्ब्रूहि वदतां वर
१२.५८.२६वैशंपायन उवाच
१२.५८.२७ततो व्यासश्च भगवान्देवस्थानोऽश्मना सह
वासुदेवः कृपश्चैव सात्यकिः संजयस्तथा
१२.५८.२८साधु साध्विति संहृष्टाः पुष्यमाणैरिवाननैः
अस्तुवंस्ते नरव्याघ्रं भीष्मं धर्मभृतां वरम्
१२.५८.२९ततो दीनमना भीष्ममुवाच कुरुसत्तमः
नेत्राभ्यामश्रुपूर्णाभ्यां पादौ तस्य शनैः स्पृशन्
१२.५८.३०श्व इदानीं स्वसंदेहं प्रक्ष्यामि त्वा पितामह
उपैति सविताप्यस्तं रसमापीय पार्थिवम्
१२.५८.३१ततो द्विजातीनभिवाद्य केशवः; कृपश्च ते चैव युधिष्ठिरादयः
प्रदक्षिणीकृत्य महानदीसुतं; ततो रथानारुरुहुर्मुदा युताः
१२.५८.३२दृषद्वतीं चाप्यवगाह्य सुव्रताः; कृतोदकार्याः कृतजप्यमङ्गलाः
उपास्य संध्यां विधिवत्परंतपा;स्ततः पुरं ते विविशुर्गजाह्वयम्