१२.५९.१वैशंपायन उवाच
१२.५९.२ततः काल्यं समुत्थाय कृतपौर्वाह्णिकक्रियाः
ययुस्ते नगराकारै रथैः पाण्डवयादवाः
१२.५९.३प्रपद्य च कुरुक्षेत्रं भीष्ममासाद्य चानघम्
सुखां च रजनीं पृष्ट्वा गाङ्गेयं रथिनां वरम्
१२.५९.४व्यासादीनभिवाद्यर्षीन्सर्वैस्तैश्चाभिनन्दिताः
निषेदुरभितो भीष्मं परिवार्य समन्ततः
१२.५९.५ततो राजा महातेजा धर्मराजो युधिष्ठिरः
अब्रवीत्प्राञ्जलिर्भीष्मं प्रतिपूज्याभिवाद्य च
१२.५९.६य एष राजा-राजेति शब्दश्चरति भारत
कथमेष समुत्पन्नस्तन्मे ब्रूहि पितामह
१२.५९.७तुल्यपाणिशिरोग्रीवस्तुल्यबुद्धीन्द्रियात्मकः
तुल्यदुःखसुखात्मा च तुल्यपृष्ठभुजोदरः
१२.५९.८तुल्यशुक्रास्थिमज्जश्च तुल्यमांसासृगेव च
निःश्वासोच्छ्वासतुल्यश्च तुल्यप्राणशरीरवान्
१२.५९.९समानजन्ममरणः समः सर्वगुणैर्नृणाम्
विशिष्टबुद्धीञ्शूरांश्च कथमेकोऽधितिष्ठति
१२.५९.१०कथमेको महीं कृत्स्नां वीरशूरार्यसंकुलाम्
रक्षत्यपि च लोकोऽस्य प्रसादमभिवाञ्छति
१२.५९.११एकस्य च प्रसादेन कृत्स्नो लोकः प्रसीदति
व्याकुलेनाकुलः सर्वो भवतीति विनिश्चयः
१२.५९.१२एतदिच्छाम्यहं सर्वं तत्त्वेन भरतर्षभ
श्रोतुं तन्मे यथातत्त्वं प्रब्रूहि वदतां वर
१२.५९.१३नैतत्कारणमल्पं हि भविष्यति विशां पते
यदेकस्मिञ्जगत्सर्वं देववद्याति संनतिम्
१२.५९.१४भीष्म उवाच
१२.५९.१५नियतस्त्वं नरश्रेष्ठ शृणु सर्वमशेषतः
यथा राज्यं समुत्पन्नमादौ कृतयुगेऽभवत्
१२.५९.१६नैव राज्यं न राजासीन्न दण्डो न च दाण्डिकः
धर्मेणैव प्रजाः सर्वा रक्षन्ति च परस्परम्
१२.५९.१७पालयानास्तथान्योन्यं नरा धर्मेण भारत
खेदं परममाजग्मुस्ततस्तान्मोह आविशत्
१२.५९.१८ते मोहवशमापन्ना मानवा मनुजर्षभ
प्रतिपत्तिविमोहाच्च धर्मस्तेषामनीनशत्
१२.५९.१९नष्टायां प्रतिपत्तौ तु मोहवश्या नरास्तदा
लोभस्य वशमापन्नाः सर्वे भारतसत्तम
१२.५९.२०अप्राप्तस्याभिमर्शं तु कुर्वन्तो मनुजास्ततः
कामो नामापरस्तत्र समपद्यत वै प्रभो
१२.५९.२१तांस्तु कामवशं प्राप्तान्रागो नाम समस्पृशत्
रक्ताश्च नाभ्यजानन्त कार्याकार्यं युधिष्ठिर
१२.५९.२२अगम्यागमनं चैव वाच्यावाच्यं तथैव च
भक्ष्याभक्ष्यं च राजेन्द्र दोषादोषं च नात्यजन्
१२.५९.२३विप्लुते नरलोकेऽस्मिंस्ततो ब्रह्म ननाश ह
नाशाच्च ब्रह्मणो राजन्धर्मो नाशमथागमत्
१२.५९.२४नष्टे ब्रह्मणि धर्मे च देवास्त्रासमथागमन्
ते त्रस्ता नरशार्दूल ब्रह्माणं शरणं ययुः
१२.५९.२५प्रपद्य भगवन्तं ते देवा लोकपितामहम्
ऊचुः प्राञ्जलयः सर्वे दुःखशोकभयार्दिताः
१२.५९.२६भगवन्नरलोकस्थं नष्टं ब्रह्म सनातनम्
लोभमोहादिभिर्भावैस्ततो नो भयमाविशत्
१२.५९.२७ब्रह्मणश्च प्रणाशेन धर्मोऽप्यनशदीश्वर
ततः स्म समतां याता मर्त्यैस्त्रिभुवनेश्वर
१२.५९.२८अधो हि वर्षमस्माकं मर्त्यास्तूर्ध्वप्रवर्षिणः
क्रियाव्युपरमात्तेषां ततोऽगच्छाम संशयम्
१२.५९.२९अत्र निःश्रेयसं यन्नस्तद्ध्यायस्व पितामह
त्वत्प्रभावसमुत्थोऽसौ प्रभावो नो विनश्यति
१२.५९.३०तानुवाच सुरान्सर्वान्स्वयंभूर्भगवांस्ततः
श्रेयोऽहं चिन्तयिष्यामि व्येतु वो भीः सुरर्षभाः
१२.५९.३१ततोऽध्यायसहस्राणां शतं चक्रे स्वबुद्धिजम्
यत्र धर्मस्तथैवार्थः कामश्चैवानुवर्णितः
१२.५९.३२त्रिवर्ग इति विख्यातो गण एष स्वयंभुवा
चतुर्थो मोक्ष इत्येव पृथगर्थः पृथग्गणः
१२.५९.३३मोक्षस्यापि त्रिवर्गोऽन्यः प्रोक्तः सत्त्वं रजस्तमः
स्थानं वृद्धिः क्षयश्चैव त्रिवर्गश्चैव दण्डजः
१२.५९.३४आत्मा देशश्च कालश्चाप्युपायाः कृत्यमेव च
सहायाः कारणं चैव षड्वर्गो नीतिजः स्मृतः
१२.५९.३५त्रयी चान्वीक्षिकी चैव वार्ता च भरतर्षभ
दण्डनीतिश्च विपुला विद्यास्तत्र निदर्शिताः
१२.५९.३६अमात्यरक्षाप्रणिधी राजपुत्रस्य रक्षणम्
चारश्च विविधोपायः प्रणिधिश्च पृथग्विधः
१२.५९.३७साम चोपप्रदानं च भेदो दण्डश्च पाण्डव
उपेक्षा पञ्चमी चात्र कार्त्स्न्येन समुदाहृता
१२.५९.३८मन्त्रश्च वर्णितः कृत्स्नस्तथा भेदार्थ एव च
विभ्रंशश्चैव मन्त्रस्य सिद्ध्यसिद्ध्योश्च यत्फलम्
१२.५९.३९संधिश्च विविधाभिख्यो हीनो मध्यस्तथोत्तमः
भयसत्कारवित्ताख्यः कार्त्स्न्येन परिवर्णितः
१२.५९.४०यात्राकालाश्च चत्वारस्त्रिवर्गस्य च विस्तरः
विजयो धर्मयुक्तश्च तथार्थविजयश्च ह
१२.५९.४१आसुरश्चैव विजयस्तथा कार्त्स्न्येन वर्णितः
लक्षणं पञ्चवर्गस्य त्रिविधं चात्र वर्णितम्
१२.५९.४२प्रकाशश्चाप्रकाशश्च दण्डोऽथ परिशब्दितः
प्रकाशोऽष्टविधस्तत्र गुह्यस्तु बहुविस्तरः
१२.५९.४३रथा नागा हयाश्चैव पादाताश्चैव पाण्डव
विष्टिर्नावश्चराश्चैव देशिकाः पथि चाष्टकम्
१२.५९.४४अङ्गान्येतानि कौरव्य प्रकाशानि बलस्य तु
जङ्गमाजङ्गमाश्चोक्ताश्चूर्णयोगा विषादयः
१२.५९.४५स्पर्शे चाभ्यवहार्ये चाप्युपांशुर्विविधः स्मृतः
अरिर्मित्रमुदासीन इत्येतेऽप्यनुवर्णिताः
१२.५९.४६कृत्स्ना मार्गगुणाश्चैव तथा भूमिगुणाश्च ह
आत्मरक्षणमाश्वासः स्पशानां चान्ववेक्षणम्
१२.५९.४७कल्पना विविधाश्चापि नृनागरथवाजिनाम्
व्यूहाश्च विविधाभिख्या विचित्रं युद्धकौशलम्
१२.५९.४८उत्पाताश्च निपाताश्च सुयुद्धं सुपलायनम्
शस्त्राणां पायनज्ञानं तथैव भरतर्षभ
१२.५९.४९बलव्यसनमुक्तं च तथैव बलहर्षणम्
पीडनास्कन्दकालश्च भयकालश्च पाण्डव
१२.५९.५०तथा खातविधानं च योगसंचार एव च
चौराटव्यबलैश्चोग्रैः परराष्ट्रस्य पीडनम्
१२.५९.५१अग्निदैर्गरदैश्चैव प्रतिरूपकचारकैः
श्रेणिमुख्योपजापेन वीरुधश्छेदनेन च
१२.५९.५२दूषणेन च नागानामाशङ्काजननेन च
आरोधनेन भक्तस्य पथश्चोपार्जनेन च
१२.५९.५३सप्ताङ्गस्य च राज्यस्य ह्रासवृद्धिसमञ्जसम्
दूतसामर्थ्ययोगश्च राष्ट्रस्य च विवर्धनम्
१२.५९.५४अरिमध्यस्थमित्राणां सम्यक्चोक्तं प्रपञ्चनम्
अवमर्दः प्रतीघातस्तथैव च बलीयसाम्
१२.५९.५५व्यवहारः सुसूक्ष्मश्च तथा कण्टकशोधनम्
शमो व्यायामयोगश्च योगो द्रव्यस्य संचयः
१२.५९.५६अभृतानां च भरणं भृतानां चान्ववेक्षणम्
अर्थकाले प्रदानं च व्यसनेष्वप्रसङ्गिता
१२.५९.५७तथा राजगुणाश्चैव सेनापतिगुणाश्च ये
कारणस्य च कर्तुश्च गुणदोषास्तथैव च
१२.५९.५८दुष्टेङ्गितं च विविधं वृत्तिश्चैवानुजीविनाम्
शङ्कितत्वं च सर्वस्य प्रमादस्य च वर्जनम्
१२.५९.५९अलब्धलिप्सा लब्धस्य तथैव च विवर्धनम्
प्रदानं च विवृद्धस्य पात्रेभ्यो विधिवत्तथा
१२.५९.६०विसर्गोऽर्थस्य धर्मार्थमर्थार्थं कामहेतुना
चतुर्थो व्यसनाघाते तथैवात्रानुवर्णितः
१२.५९.६१क्रोधजानि तथोग्राणि कामजानि तथैव च
दशोक्तानि कुरुश्रेष्ठ व्यसनान्यत्र चैव ह
१२.५९.६२मृगयाक्षास्तथा पानं स्त्रियश्च भरतर्षभ
कामजान्याहुराचार्याः प्रोक्तानीह स्वयंभुवा
१२.५९.६३वाक्पारुष्यं तथोग्रत्वं दण्डपारुष्यमेव च
आत्मनो निग्रहस्त्यागोऽथार्थदूषणमेव च
१२.५९.६४यन्त्राणि विविधान्येव क्रियास्तेषां च वर्णिताः
अवमर्दः प्रतीघातः केतनानां च भञ्जनम्
१२.५९.६५चैत्यद्रुमाणामामर्दो रोधःकर्मान्तनाशनम्
अपस्करोऽथ गमनं तथोपास्या च वर्णिता
१२.५९.६६पणवानकशङ्खानां भेरीणां च युधां वर
उपार्जनं च द्रव्याणां परमर्म च तानि षट्
१२.५९.६७लब्धस्य च प्रशमनं सतां चैव हि पूजनम्
विद्वद्भिरेकीभावश्च प्रातर्होमविधिज्ञता
१२.५९.६८मङ्गलालम्भनं चैव शरीरस्य प्रतिक्रिया
आहारयोजनं चैव नित्यमास्तिक्यमेव च
१२.५९.६९एकेन च यथोत्थेयं सत्यत्वं मधुरा गिरः
उत्सवानां समाजानां क्रियाः केतनजास्तथा
१२.५९.७०प्रत्यक्षा च परोक्षा च सर्वाधिकरणेषु च
वृत्तिर्भरतशार्दूल नित्यं चैवान्ववेक्षणम्
१२.५९.७१अदण्ड्यत्वं च विप्राणां युक्त्या दण्डनिपातनम्
अनुजीविस्वजातिभ्यो गुणेषु परिरक्षणम्
१२.५९.७२रक्षणं चैव पौराणां स्वराष्ट्रस्य विवर्धनम्
मण्डलस्था च या चिन्ता राजन्द्वादशराजिका
१२.५९.७३द्वासप्ततिमतिश्चैव प्रोक्ता या च स्वयंभुवा
देशजातिकुलानां च धर्माः समनुवर्णिताः
१२.५९.७४धर्मश्चार्थश्च कामश्च मोक्षश्चात्रानुवर्णितः
उपायश्चार्थलिप्सा च विविधा भूरिदक्षिणाः
१२.५९.७५मूलकर्मक्रिया चात्र माया योगश्च वर्णितः
दूषणं स्रोतसामत्र वर्णितं च स्थिराम्भसाम्
१२.५९.७६यैर्यैरुपायैर्लोकश्च न चलेदार्यवर्त्मनः
तत्सर्वं राजशार्दूल नीतिशास्त्रेऽनुवर्णितम्
१२.५९.७७एतत्कृत्वा शुभं शास्त्रं ततः स भगवान्प्रभुः
देवानुवाच संहृष्टः सर्वाञ्शक्रपुरोगमान्
१२.५९.७८उपकाराय लोकस्य त्रिवर्गस्थापनाय च
नवनीतं सरस्वत्या बुद्धिरेषा प्रभाविता
१२.५९.७९दण्डेन सहिता ह्येषा लोकरक्षणकारिका
निग्रहानुग्रहरता लोकाननु चरिष्यति
१२.५९.८०दण्डेन नीयते चेयं दण्डं नयति चाप्युत
दण्डनीतिरिति प्रोक्ता त्रीँल्लोकाननुवर्तते
१२.५९.८१षाड्गुण्यगुणसारैषा स्थास्यत्यग्रे महात्मसु
महत्त्वात्तस्य दण्डस्य नीतिर्विस्पष्टलक्षणा
१२.५९.८२नयचारश्च विपुलो येन सर्वमिदं ततम्
आगमश्च पुराणानां महर्षीणां च संभवः
१२.५९.८३तीर्थवंशश्च वंशश्च नक्षत्राणां युधिष्ठिर
सकलं चातुराश्रम्यं चातुर्होत्रं तथैव च
१२.५९.८४चातुर्वर्ण्यं तथैवात्र चातुर्वेद्यं च वर्णितम्
इतिहासोपवेदाश्च न्यायः कृत्स्नश्च वर्णितः
१२.५९.८५तपो ज्ञानमहिंसा च सत्यासत्ये नयः परः
वृद्धोपसेवा दानं च शौचमुत्थानमेव च
१२.५९.८६सर्वभूतानुकम्पा च सर्वमत्रोपवर्णितम्
भुवि वाचोगतं यच्च तच्च सर्वं समर्पितम्
१२.५९.८७तस्मिन्पैतामहे शास्त्रे पाण्डवैतदसंशयम्
धर्मार्थकाममोक्षाश्च सकला ह्यत्र शब्दिताः
१२.५९.८८ततस्तां भगवान्नीतिं पूर्वं जग्राह शंकरः
बहुरूपो विशालाक्षः शिवः स्थाणुरुमापतिः
१२.५९.८९युगानामायुषो ह्रासं विज्ञाय भगवाञ्शिवः
संचिक्षेप ततः शास्त्रं महार्थं ब्रह्मणा कृतम्
१२.५९.९०वैशालाक्षमिति प्रोक्तं तदिन्द्रः प्रत्यपद्यत
दशाध्यायसहस्राणि सुब्रह्मण्यो महातपाः
१२.५९.९१भगवानपि तच्छास्त्रं संचिक्षेप पुरंदरः
सहस्रैः पञ्चभिस्तात यदुक्तं बाहुदन्तकम्
१२.५९.९२अध्यायानां सहस्रैस्तु त्रिभिरेव बृहस्पतिः
संचिक्षेपेश्वरो बुद्ध्या बार्हस्पत्यं तदुच्यते
१२.५९.९३अध्यायानां सहस्रेण काव्यः संक्षेपमब्रवीत्
तच्छास्त्रममितप्रज्ञो योगाचार्यो महातपाः
१२.५९.९४एवं लोकानुरोधेन शास्त्रमेतन्महर्षिभिः
संक्षिप्तमायुर्विज्ञाय मर्त्यानां ह्रासि पाण्डव
१२.५९.९५अथ देवाः समागम्य विष्णुमूचुः प्रजापतिम्
एको योऽर्हति मर्त्येभ्यः श्रैष्ठ्यं तं वै समादिश
१२.५९.९६ततः संचिन्त्य भगवान्देवो नारायणः प्रभुः
तैजसं वै विरजसं सोऽसृजन्मानसं सुतम्
१२.५९.९७विरजास्तु महाभाग विभुत्वं भुवि नैच्छत
न्यासायैवाभवद्बुद्धिः प्रणीता तस्य पाण्डव
१२.५९.९८कीर्तिमांस्तस्य पुत्रोऽभूत्सोऽपि पञ्चातिगोऽभवत्
कर्दमस्तस्य च सुतः सोऽप्यतप्यन्महत्तपः
१२.५९.९९प्रजापतेः कर्दमस्य अनङ्गो नाम वै सुतः
प्रजानां रक्षिता साधुर्दण्डनीतिविशारदः
१२.५९.१००अनङ्गपुत्रोऽतिबलो नीतिमानधिगम्य वै
अभिपेदे महीराज्यमथेन्द्रियवशोऽभवत्
१२.५९.१०१मृत्योस्तु दुहिता राजन्सुनीथा नाम मानसी
प्रख्याता त्रिषु लोकेषु या सा वेनमजीजनत्
१२.५९.१०२तं प्रजासु विधर्माणं रागद्वेषवशानुगम्
मन्त्रपूतैः कुशैर्जघ्नुरृषयो ब्रह्मवादिनः
१२.५९.१०३ममन्थुर्दक्षिणं चोरुमृषयस्तस्य मन्त्रतः
ततोऽस्य विकृतो जज्ञे ह्रस्वाङ्गः पुरुषो भुवि
१२.५९.१०४दग्धस्थाणुप्रतीकाशो रक्ताक्षः कृष्णमूर्धजः
निषीदेत्येवमूचुस्तमृषयो ब्रह्मवादिनः
१२.५९.१०५तस्मान्निषादाः संभूताः क्रूराः शैलवनाश्रयाः
ये चान्ये विन्ध्यनिलया म्लेच्छाः शतसहस्रशः
१२.५९.१०६भूयोऽस्य दक्षिणं पाणिं ममन्थुस्ते महर्षयः
ततः पुरुष उत्पन्नो रूपेणेन्द्र इवापरः
१२.५९.१०७कवची बद्धनिस्त्रिंशः सशरः सशरासनः
वेदवेदाङ्गविच्चैव धनुर्वेदे च पारगः
१२.५९.१०८तं दण्डनीतिः सकला श्रिता राजन्नरोत्तमम्
ततः स प्राञ्जलिर्वैन्यो महर्षींस्तानुवाच ह
१२.५९.१०९सुसूक्ष्मा मे समुत्पन्ना बुद्धिर्धर्मार्थदर्शिनी
अनया किं मया कार्यं तन्मे तत्त्वेन शंसत
१२.५९.११०यन्मां भवन्तो वक्ष्यन्ति कार्यमर्थसमन्वितम्
तदहं वै करिष्यामि नात्र कार्या विचारणा
१२.५९.१११तमूचुरथ देवास्ते ते चैव परमर्षयः
नियतो यत्र धर्मो वै तमशङ्कः समाचर
१२.५९.११२प्रियाप्रिये परित्यज्य समः सर्वेषु जन्तुषु
कामक्रोधौ च लोभं च मानं चोत्सृज्य दूरतः
१२.५९.११३यश्च धर्मात्प्रविचलेल्लोके कश्चन मानवः
निग्राह्यस्ते स बाहुभ्यां शश्वद्धर्ममवेक्षतः
१२.५९.११४प्रतिज्ञां चाधिरोहस्व मनसा कर्मणा गिरा
पालयिष्याम्यहं भौमं ब्रह्म इत्येव चासकृत्
१२.५९.११५यश्चात्र धर्मनीत्युक्तो दण्डनीतिव्यपाश्रयः
तमशङ्कः करिष्यामि स्ववशो न कदाचन
१२.५९.११६अदण्ड्या मे द्विजाश्चेति प्रतिजानीष्व चाभिभो
लोकं च संकरात्कृत्स्नात्त्रातास्मीति परंतप
१२.५९.११७वैन्यस्ततस्तानुवाच देवानृषिपुरोगमान्
ब्राह्मणा मे सहायाश्चेदेवमस्तु सुरर्षभाः
१२.५९.११८एवमस्त्विति वैन्यस्तु तैरुक्तो ब्रह्मवादिभिः
पुरोधाश्चाभवत्तस्य शुक्रो ब्रह्ममयो निधिः
१२.५९.११९मन्त्रिणो वालखिल्यास्तु सारस्वत्यो गणो ह्यभूत्
महर्षिर्भगवान्गर्गस्तस्य सांवत्सरोऽभवत्
१२.५९.१२०आत्मनाष्टम इत्येव श्रुतिरेषा परा नृषु
उत्पन्नौ बन्दिनौ चास्य तत्पूर्वौ सूतमागधौ
१२.५९.१२१समतां वसुधायाश्च स सम्यगुपपादयत्
वैषम्यं हि परं भूमेरासीदिति ह नः श्रुतम्
१२.५९.१२२स विष्णुना च देवेन शक्रेण विबुधैः सह
ऋषिभिश्च प्रजापाल्ये ब्रह्मणा चाभिषेचितः
१२.५९.१२३तं साक्षात्पृथिवी भेजे रत्नान्यादाय पाण्डव
सागरः सरितां भर्ता हिमवांश्चाचलोत्तमः
१२.५९.१२४शक्रश्च धनमक्षय्यं प्रादात्तस्य युधिष्ठिर
रुक्मं चापि महामेरुः स्वयं कनकपर्वतः
१२.५९.१२५यक्षराक्षसभर्ता च भगवान्नरवाहनः
धर्मे चार्थे च कामे च समर्थं प्रददौ धनम्
१२.५९.१२६हया रथाश्च नागाश्च कोटिशः पुरुषास्तथा
प्रादुर्बभूवुर्वैन्यस्य चिन्तनादेव पाण्डव
न जरा न च दुर्भिक्षं नाधयो व्याधयस्तथा
१२.५९.१२७सरीसृपेभ्यः स्तेनेभ्यो न चान्योन्यात्कदाचन
भयमुत्पद्यते तत्र तस्य राज्ञोऽभिरक्षणात्
१२.५९.१२८तेनेयं पृथिवी दुग्धा सस्यानि दश सप्त च
यक्षराक्षसनागैश्चापीप्सितं यस्य यस्य यत्
१२.५९.१२९तेन धर्मोत्तरश्चायं कृतो लोको महात्मना
रञ्जिताश्च प्रजाः सर्वास्तेन राजेति शब्द्यते
१२.५९.१३०ब्राह्मणानां क्षतत्राणात्ततः क्षत्रिय उच्यते
प्रथिता धनतश्चेयं पृथिवी साधुभिः स्मृता
१२.५९.१३१स्थापनं चाकरोद्विष्णुः स्वयमेव सनातनः
नातिवर्तिष्यते कश्चिद्राजंस्त्वामिति पार्थिव
१२.५९.१३२तपसा भगवान्विष्णुराविवेश च भूमिपम्
देववन्नरदेवानां नमते यज्जगन्नृप
१२.५९.१३३दण्डनीत्या च सततं रक्षितं तं नरेश्वर
नाधर्षयत्ततः कश्चिच्चारनित्याच्च दर्शनात्
१२.५९.१३४आत्मना करणैश्चैव समस्येह महीक्षितः
को हेतुर्यद्वशे तिष्ठेल्लोको दैवादृते गुणात्
१२.५९.१३५विष्णोर्ललाटात्कमलं सौवर्णमभवत्तदा
श्रीः संभूता यतो देवी पत्नी धर्मस्य धीमतः
१२.५९.१३६श्रियः सकाशादर्थश्च जातो धर्मेण पाण्डव
अथ धर्मस्तथैवार्थः श्रीश्च राज्ये प्रतिष्ठिता
१२.५९.१३७सुकृतस्य क्षयाच्चैव स्वर्लोकादेत्य मेदिनीम्
पार्थिवो जायते तात दण्डनीतिवशानुगः
१२.५९.१३८महत्त्वेन च संयुक्तो वैष्णवेन नरो भुवि
बुद्ध्या भवति संयुक्तो माहात्म्यं चाधिगच्छति
१२.५९.१३९स्थापनामथ देवानां न कश्चिदतिवर्तते
तिष्ठत्येकस्य च वशे तं चेदनुविधीयते
१२.५९.१४०शुभं हि कर्म राजेन्द्र शुभत्वायोपकल्पते
तुल्यस्यैकस्य यस्यायं लोको वचसि तिष्ठति
१२.५९.१४१यो ह्यस्य मुखमद्राक्षीत्सोम्य सोऽस्य वशानुगः
सुभगं चार्थवन्तं च रूपवन्तं च पश्यति
१२.५९.१४२ततो जगति राजेन्द्र सततं शब्दितं बुधैः
देवाश्च नरदेवाश्च तुल्या इति विशां पते
१२.५९.१४३एतत्ते सर्वमाख्यातं महत्त्वं प्रति राजसु
कार्त्स्न्येन भरतश्रेष्ठ किमन्यदिह वर्तताम्