१२. शान्तिपर्व
१२.६३.१भीष्म उवाच

१२.६३.२ज्याकर्षणं शत्रुनिबर्हणं च; कृषिर्वणिज्या पशुपालनं च
शुश्रूषणं चापि तथार्थहेतो;रकार्यमेतत्परमं द्विजस्य

१२.६३.३सेव्यं तु ब्रह्मषट्कर्म गृहस्थेन मनीषिणा
कृतकृत्यस्य चारण्ये वासो विप्रस्य शस्यते

१२.६३.४राजप्रैष्यं कृषिधनं जीवनं च वणिज्यया
कौटिल्यं कौलटेयं च कुसीदं च विवर्जयेत्

१२.६३.५शूद्रो राजन्भवति ब्रह्मबन्धु;र्दुश्चारित्र्यो यश्च धर्मादपेतः
वृषलीपतिः पिशुनो नर्तकश्च; ग्रामप्रैष्यो यश्च भवेद्विकर्मा

१२.६३.६जपन्वेदानजपंश्चापि राज;न्समः शूद्रैर्दासवच्चापि भोज्यः
एते सर्वे शूद्रसमा भवन्ति; राजन्नेतान्वर्जयेद्देवकृत्ये

१२.६३.७निर्मर्यादे चाशने क्रूरवृत्तौ; हिंसात्मके त्यक्तधर्मस्ववृत्ते
हव्यं कव्यं यानि चान्यानि राज;न्देयान्यदेयानि भवन्ति तस्मिन्

१२.६३.८तस्माद्धर्मो विहितो ब्राह्मणस्य; दमः शौचं चार्जवं चापि राजन्
तथा विप्रस्याश्रमाः सर्व एव; पुरा राजन्ब्रह्मणा वै निसृष्टाः

१२.६३.९यः स्याद्दान्तः सोमप आर्यशीलः; सानुक्रोशः सर्वसहो निराशीः
ऋजुर्मृदुरनृशंसः क्षमावा;न्स वै विप्रो नेतरः पापकर्मा

१२.६३.१०शूद्रं वैश्यं राजपुत्रं च राजँ;ल्लोकाः सर्वे संश्रिता धर्मकामाः
तस्माद्वर्णाञ्जातिधर्मेषु सक्ता;न्मत्वा विष्णुर्नेच्छति पाण्डुपुत्र

१२.६३.११लोके चेदं सर्वलोकस्य न स्या;च्चातुर्वर्ण्यं वेदवादाश्च न स्युः
सर्वाश्चेज्याः सर्वलोकक्रियाश्च; सद्यः सर्वे चाश्रमस्था न वै स्युः

१२.६३.१२यश्च त्रयाणां वर्णानामिच्छेदाश्रमसेवनम्
कर्तुमाश्रमदृष्टांश्च धर्मांस्ताञ्शृणु पाण्डव

१२.६३.१३शुश्रूषाकृतकृत्यस्य कृतसंतानकर्मणः
अभ्यनुज्ञाप्य राजानं शूद्रस्य जगतीपते

१२.६३.१४अल्पान्तरगतस्यापि दशधर्मगतस्य वा
आश्रमा विहिताः सर्वे वर्जयित्वा निराशिषम्

१२.६३.१५भैक्षचर्यां न तु प्राहुस्तस्य तद्धर्मचारिणः
तथा वैश्यस्य राजेन्द्र राजपुत्रस्य चैव हि

१२.६३.१६कृतकृत्यो वयोतीतो राज्ञः कृतपरिश्रमः
वैश्यो गच्छेदनुज्ञातो नृपेणाश्रममण्डलम्

१२.६३.१७वेदानधीत्य धर्मेण राजशास्त्राणि चानघ
संतानादीनि कर्माणि कृत्वा सोमं निषेव्य च

१२.६३.१८पालयित्वा प्रजाः सर्वा धर्मेण वदतां वर
राजसूयाश्वमेधादीन्मखानन्यांस्तथैव च

१२.६३.१९समानीय यथापाठं विप्रेभ्यो दत्तदक्षिणः
संग्रामे विजयं प्राप्य तथाल्पं यदि वा बहु

१२.६३.२०स्थापयित्वा प्रजापालं पुत्रं राज्ये च पाण्डव
अन्यगोत्रं प्रशस्तं वा क्षत्रियं क्षत्रियर्षभ

१२.६३.२१अर्चयित्वा पितॄन्सम्यक्पितृयज्ञैर्यथाविधि
देवान्यज्ञैरृषीन्वेदैरर्चित्वा चैव यत्नतः

१२.६३.२२अन्तकाले च संप्राप्ते य इच्छेदाश्रमान्तरम्
आनुपूर्व्याश्रमान्राजन्गत्वा सिद्धिमवाप्नुयात्

१२.६३.२३राजर्षित्वेन राजेन्द्र भैक्षचर्याध्वसेवया
अपेतगृहधर्मोऽपि चरेज्जीवितकाम्यया

१२.६३.२४न चैतन्नैष्ठिकं कर्म त्रयाणां भरतर्षभ
चतुर्णां राजशार्दूल प्राहुराश्रमवासिनाम्

१२.६३.२५बह्वायत्तं क्षत्रियैर्मानवानां; लोकश्रेष्ठं धर्ममासेवमानैः
सर्वे धर्माः सोपधर्मास्त्रयाणां; राज्ञो धर्मादिति वेदाच्छृणोमि

१२.६३.२६यथा राजन्हस्तिपदे पदानि; संलीयन्ते सर्वसत्त्वोद्भवानि
एवं धर्मान्राजधर्मेषु सर्वा;न्सर्वावस्थं संप्रलीनान्निबोध

१२.६३.२७अल्पाश्रयानल्पफलान्वदन्ति; धर्मानन्यान्धर्मविदो मनुष्याः
महाश्रयं बहुकल्याणरूपं; क्षात्रं धर्मं नेतरं प्राहुरार्याः

१२.६३.२८सर्वे धर्मा राजधर्मप्रधानाः; सर्वे धर्माः पाल्यमाना भवन्ति
सर्वत्यागो राजधर्मेषु राजं;स्त्यागे चाहुर्धर्ममग्र्यं पुराणम्

१२.६३.२९मज्जेत्त्रयी दण्डनीतौ हतायां; सर्वे धर्मा न भवेयुर्विरुद्धाः
सर्वे धर्माश्चाश्रमाणां गताः स्युः; क्षात्रे त्यक्ते राजधर्मे पुराणे

१२.६३.३०सर्वे त्यागा राजधर्मेषु दृष्टाः; सर्वा दीक्षा राजधर्मेषु चोक्ताः
सर्वे योगा राजधर्मेषु चोक्ताः; सर्वे लोका राजधर्मान्प्रविष्टाः

१२.६३.३१यथा जीवाः प्रकृतौ वध्यमाना; धर्माश्रितानामुपपीडनाय
एवं धर्मा राजधर्मैर्वियुक्ताः; सर्वावस्थं नाद्रियन्ते स्वधर्मम्