१२.६२.१युधिष्ठिर उवाच
१२.६२.२शिवान्सुखान्महोदर्कानहिंस्राँल्लोकसंमतान्
ब्रूहि धर्मान्सुखोपायान्मद्विधानां सुखावहान्
१२.६२.३भीष्म उवाच
१२.६२.४ब्राह्मणस्येह चत्वार आश्रमा विहिताः प्रभो
वर्णास्ताननुवर्तन्ते त्रयो भरतसत्तम
१२.६२.५उक्तानि कर्माणि बहूनि राज;न्स्वर्ग्याणि राजन्यपरायणानि
नेमानि दृष्टान्तविधौ स्मृतानि; क्षात्रे हि सर्वं विहितं यथावत्
१२.६२.६क्षात्राणि वैश्यानि च सेवमानः; शौद्राणि कर्माणि च ब्राह्मणः सन्
अस्मिँल्लोके निन्दितो मन्दचेताः; परे च लोके निरयं प्रयाति
१२.६२.७या संज्ञा विहिता लोके दासे शुनि वृके पशौ
विकर्मणि स्थिते विप्रे तां संज्ञां कुरु पाण्डव
१२.६२.८षट्कर्मसंप्रवृत्तस्य आश्रमेषु चतुर्ष्वपि
सर्वधर्मोपपन्नस्य संभूतस्य कृतात्मनः
१२.६२.९ब्राह्मणस्य विशुद्धस्य तपस्यभिरतस्य च
निराशिषो वदान्यस्य लोका ह्यक्षरसंज्ञिताः
१२.६२.१०यो यस्मिन्कुरुते कर्म यादृशं येन यत्र च
तादृशं तादृशेनैव स गुणं प्रतिपद्यते
१२.६२.११वृद्ध्या कृषिवणिक्त्वेन जीवसंजीवनेन च
वेत्तुमर्हसि राजेन्द्र स्वाध्यायगणितं महत्
१२.६२.१२कालसंचोदितः कालः कालपर्यायनिश्चितः
उत्तमाधममध्यानि कर्माणि कुरुतेऽवशः
१२.६२.१३अन्तवन्ति प्रदानानि पुरा श्रेयस्कराणि च
स्वकर्मनिरतो लोको ह्यक्षरः सर्वतोमुखः