१२. शान्तिपर्व
१२.६७.१युधिष्ठिर उवाच

१२.६७.२चातुराश्रम्य उक्तोऽत्र चातुर्वर्ण्यस्तथैव च
राष्ट्रस्य यत्कृत्यतमं तन्मे ब्रूहि पितामह

१२.६७.३भीष्म उवाच

१२.६७.४राष्ट्रस्यैतत्कृत्यतमं राज्ञ एवाभिषेचनम्
अनिन्द्रमबलं राष्ट्रं दस्यवोऽभिभवन्ति च

१२.६७.५अराजकेषु राष्ट्रेषु धर्मो न व्यवतिष्ठते
परस्परं च खादन्ति सर्वथा धिगराजकम्

१२.६७.६इन्द्रमेनं प्रवृणुते यद्राजानमिति श्रुतिः
यथैवेन्द्रस्तथा राजा संपूज्यो भूतिमिच्छता

१२.६७.७नाराजकेषु राष्ट्रेषु वस्तव्यमिति वैदिकम्
नाराजकेषु राष्ट्रेषु हव्यमग्निर्वहत्यपि

१२.६७.८अथ चेदभिवर्तेत राज्यार्थी बलवत्तरः
अराजकानि राष्ट्राणि हतराजानि वा पुनः

१२.६७.९प्रत्युद्गम्याभिपूज्यः स्यादेतदत्र सुमन्त्रितम्
न हि पापात्पापतरमस्ति किंचिदराजकात्

१२.६७.१०स चेत्समनुपश्येत समग्रं कुशलं भवेत्
बलवान्हि प्रकुपितः कुर्यान्निःशेषतामपि

१२.६७.११भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा
सुदुहा या तु भवति नैव तां क्लेशयन्त्युत

१२.६७.१२यदतप्तं प्रणमति न तत्संतापयन्त्युत
यच्च स्वयं नतं दारु न तत्संनामयन्त्यपि

१२.६७.१३एतयोपमया धीरः संनमेत बलीयसे
इन्द्राय स प्रणमते नमते यो बलीयसे

१२.६७.१४तस्माद्राजैव कर्तव्यः सततं भूतिमिच्छता
न धनार्थो न दारार्थस्तेषां येषामराजकम्

१२.६७.१५प्रीयते हि हरन्पापः परवित्तमराजके
यदास्य उद्धरन्त्यन्ये तदा राजानमिच्छति

१२.६७.१६पापा अपि तदा क्षेमं न लभन्ते कदाचन
एकस्य हि द्वौ हरतो द्वयोश्च बहवोऽपरे

१२.६७.१७अदासः क्रियते दासो ह्रियन्ते च बलात्स्त्रियः
एतस्मात्कारणाद्देवाः प्रजापालान्प्रचक्रिरे

१२.६७.१८राजा चेन्न भवेल्लोके पृथिव्यां दण्डधारकः
शूले मत्स्यानिवापक्ष्यन्दुर्बलान्बलवत्तराः

१२.६७.१९अराजकाः प्रजाः पूर्वं विनेशुरिति नः श्रुतम्
परस्परं भक्षयन्तो मत्स्या इव जले कृशान्

१२.६७.२०ताः समेत्य ततश्चक्रुः समयानिति नः श्रुतम्
वाक्क्रूरो दण्डपुरुषो यश्च स्यात्पारदारिकः
यश्च न स्वमथादद्यात्त्याज्या नस्तादृशा इति

१२.६७.२१विश्वासनार्थं वर्णानां सर्वेषामविशेषतः
तास्तथा समयं कृत्वा समये नावतस्थिरे

१२.६७.२२सहितास्तास्तदा जग्मुरसुखार्ताः पितामहम्
अनीश्वरा विनश्यामो भगवन्नीश्वरं दिश

१२.६७.२३यं पूजयेम संभूय यश्च नः परिपालयेत्
ताभ्यो मनुं व्यादिदेश मनुर्नाभिननन्द ताः

१२.६७.२४मनुरुवाच

१२.६७.२५बिभेमि कर्मणः क्रूराद्राज्यं हि भृशदुष्करम्
विशेषतो मनुष्येषु मिथ्यावृत्तिषु नित्यदा

१२.६७.२६भीष्म उवाच

१२.६७.२७तमब्रुवन्प्रजा मा भैः कर्मणैनो गमिष्यति
पशूनामधिपञ्चाशद्धिरण्यस्य तथैव च
धान्यस्य दशमं भागं दास्यामः कोशवर्धनम्

१२.६७.२८मुख्येन शस्त्रपत्रेण ये मनुष्याः प्रधानतः
भवन्तं तेऽनुयास्यन्ति महेन्द्रमिव देवताः

१२.६७.२९स त्वं जातबलो राजन्दुष्प्रधर्षः प्रतापवान्
सुखे धास्यसि नः सर्वान्कुबेर इव नैरृतान्

१२.६७.३०यं च धर्मं चरिष्यन्ति प्रजा राज्ञा सुरक्षिताः
चतुर्थं तस्य धर्मस्य त्वत्संस्थं नो भविष्यति

१२.६७.३१तेन धर्मेण महता सुखलब्धेन भावितः
पाह्यस्मान्सर्वतो राजन्देवानिव शतक्रतुः

१२.६७.३२विजयायाशु निर्याहि प्रतपन्रश्मिमानिव
मानं विधम शत्रूणां धर्मो जयतु नः सदा

१२.६७.३३स निर्ययौ महातेजा बलेन महता वृतः
महाभिजनसंपन्नस्तेजसा प्रज्वलन्निव

१२.६७.३४तस्य तां महिमां दृष्ट्वा महेन्द्रस्येव देवताः
अपतत्रसिरे सर्वे स्वधर्मे च दधुर्मनः

१२.६७.३५ततो महीं परिययौ पर्जन्य इव वृष्टिमान्
शमयन्सर्वतः पापान्स्वकर्मसु च योजयन्

१२.६७.३६एवं ये भूतिमिच्छेयुः पृथिव्यां मानवाः क्वचित्
कुर्यू राजानमेवाग्रे प्रजानुग्रहकारणात्

१२.६७.३७नमस्येयुश्च तं भक्त्या शिष्या इव गुरुं सदा
देवा इव सहस्राक्षं प्रजा राजानमन्तिके

१२.६७.३८सत्कृतं स्वजनेनेह परोऽपि बहु मन्यते
स्वजनेन त्ववज्ञातं परे परिभवन्त्युत

१२.६७.३९राज्ञः परैः परिभवः सर्वेषामसुखावहः
तस्माच्छत्रं च पत्रं च वासांस्याभरणानि च

१२.६७.४०भोजनान्यथ पानानि राज्ञे दद्युर्गृहाणि च
आसनानि च शय्याश्च सर्वोपकरणानि च

१२.६७.४१गुप्तात्मा स्याद्दुराधर्षः स्मितपूर्वाभिभाषिता
आभाषितश्च मधुरं प्रतिभाषेत मानवान्

१२.६७.४२कृतज्ञो दृढभक्तिः स्यात्संविभागी जितेन्द्रियः
ईक्षितः प्रतिवीक्षेत मृदु चर्जु च वल्गु च