१२. शान्तिपर्व
१२.६८.१युधिष्ठिर उवाच

१२.६८.२किमाहुर्दैवतं विप्रा राजानं भरतर्षभ
मनुष्याणामधिपतिं तन्मे ब्रूहि पितामह

१२.६८.३भीष्म उवाच

१२.६८.४अत्राप्युदाहरन्तीममितिहासं पुरातनम्
बृहस्पतिं वसुमना यथा पप्रच्छ भारत

१२.६८.५राजा वसुमना नाम कौसल्यो धीमतां वरः
महर्षिं परिपप्रच्छ कृतप्रज्ञो बृहस्पतिम्

१२.६८.६सर्वं वैनयिकं कृत्वा विनयज्ञो बृहस्पतेः
दक्षिणानन्तरो भूत्वा प्रणम्य विधिपूर्वकम्

१२.६८.७विधिं पप्रच्छ राज्यस्य सर्वभूतहिते रतः
प्रजानां हितमन्विच्छन्धर्ममूलं विशां पते

१२.६८.८केन भूतानि वर्धन्ते क्षयं गच्छन्ति केन च
कमर्चन्तो महाप्राज्ञ सुखमत्यन्तमाप्नुयुः

१२.६८.९इति पृष्टो महाराज्ञा कौसल्येनामितौजसा
राजसत्कारमव्यग्रः शशंसास्मै बृहस्पतिः

१२.६८.१०राजमूलो महाराज धर्मो लोकस्य लक्ष्यते
प्रजा राजभयादेव न खादन्ति परस्परम्

१२.६८.११राजा ह्येवाखिलं लोकं समुदीर्णं समुत्सुकम्
प्रसादयति धर्मेण प्रसाद्य च विराजते

१२.६८.१२यथा ह्यनुदये राजन्भूतानि शशिसूर्ययोः
अन्धे तमसि मज्जेयुरपश्यन्तः परस्परम्

१२.६८.१३यथा ह्यनुदके मत्स्या निराक्रन्दे विहंगमाः
विहरेयुर्यथाकाममभिसृत्य पुनः पुनः

१२.६८.१४विमथ्यातिक्रमेरंश्च विषह्यापि परस्परम्
अभावमचिरेणैव गच्छेयुर्नात्र संशयः

१२.६८.१५एवमेव विना राज्ञा विनश्येयुरिमाः प्रजाः
अन्धे तमसि मज्जेयुरगोपाः पशवो यथा

१२.६८.१६हरेयुर्बलवन्तो हि दुर्बलानां परिग्रहान्
हन्युर्व्यायच्छमानांश्च यदि राजा न पालयेत्

१२.६८.१७यानं वस्त्रमलंकारान्रत्नानि विविधानि च
हरेयुः सहसा पापा यदि राजा न पालयेत्

१२.६८.१८ममेदमिति लोकेऽस्मिन्न भवेत्संपरिग्रहः
विश्वलोपः प्रवर्तेत यदि राजा न पालयेत्

१२.६८.१९मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम्
क्लिश्नीयुरपि हिंस्युर्वा यदि राजा न पालयेत्

१२.६८.२०पतेद्बहुविधं शस्त्रं बहुधा धर्मचारिषु
अधर्मः प्रगृहीतः स्याद्यदि राजा न पालयेत्

१२.६८.२१वधबन्धपरिक्लेशो नित्यमर्थवतां भवेत्
ममत्वं च न विन्देयुर्यदि राजा न पालयेत्

१२.६८.२२अन्तश्चाकाशमेव स्याल्लोकोऽयं दस्युसाद्भवेत्
पतेच्च नरकं घोरं यदि राजा न पालयेत्

१२.६८.२३न योनिपोषो वर्तेत न कृषिर्न वणिक्पथः
मज्जेद्धर्मस्त्रयी न स्याद्यदि राजा न पालयेत्

१२.६८.२४न यज्ञाः संप्रवर्तेरन्विधिवत्स्वाप्तदक्षिणाः
न विवाहाः समाजा वा यदि राजा न पालयेत्

१२.६८.२५न वृषाः संप्रवर्तेरन्न मथ्येरंश्च गर्गराः
घोषाः प्रणाशं गच्छेयुर्यदि राजा न पालयेत्

१२.६८.२६त्रस्तमुद्विग्नहृदयं हाहाभूतमचेतनम्
क्षणेन विनशेत्सर्वं यदि राजा न पालयेत्

१२.६८.२७न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः
विधिवद्दक्षिणावन्ति यदि राजा न पालयेत्

१२.६८.२८ब्राह्मणाश्चतुरो वेदान्नाधीयेरंस्तपस्विनः
विद्यास्नातास्तपःस्नाता यदि राजा न पालयेत्

१२.६८.२९हस्तो हस्तं स मुष्णीयाद्भिद्येरन्सर्वसेतवः
भयार्तं विद्रवेत्सर्वं यदि राजा न पालयेत्

१२.६८.३०न लभेद्धर्मसंश्लेषं हतविप्रहतो जनः
कर्ता स्वेच्छेन्द्रियो गच्छेद्यदि राजा न पालयेत्

१२.६८.३१अनयाः संप्रवर्तेरन्भवेद्वै वर्णसंकरः
दुर्भिक्षमाविशेद्राष्ट्रं यदि राजा न पालयेत्

१२.६८.३२विवृत्य हि यथाकामं गृहद्वाराणि शेरते
मनुष्या रक्षिता राज्ञा समन्तादकुतोभयाः

१२.६८.३३नाक्रुष्टं सहते कश्चित्कुतो हस्तस्य लङ्घनम्
यदि राजा मनुष्येषु त्राता भवति धार्मिकः

१२.६८.३४स्त्रियश्चापुरुषा मार्गं सर्वालंकारभूषिताः
निर्भयाः प्रतिपद्यन्ते यदा रक्षति भूमिपः

१२.६८.३५धर्ममेव प्रपद्यन्ते न हिंसन्ति परस्परम्
अनुगृह्णन्ति चान्योन्यं यदा रक्षति भूमिपः

१२.६८.३६यजन्ते च त्रयो वर्णा महायज्ञैः पृथग्विधैः
युक्ताश्चाधीयते शास्त्रं यदा रक्षति भूमिपः

१२.६८.३७वार्तामूलो ह्ययं लोकस्त्रय्या वै धार्यते सदा
तत्सर्वं वर्तते सम्यग्यदा रक्षति भूमिपः

१२.६८.३८यदा राजा धुरं श्रेष्ठामादाय वहति प्रजाः
महता बलयोगेन तदा लोकः प्रसीदति

१२.६८.३९यस्याभावे च भूतानामभावः स्यात्समन्ततः
भावे च भावो नित्यः स्यात्कस्तं न प्रतिपूजयेत्

१२.६८.४०तस्य यो वहते भारं सर्वलोकसुखावहम्
तिष्ठेत्प्रियहिते राज्ञ उभौ लोकौ हि यो जयेत्

१२.६८.४१यस्तस्य पुरुषः पापं मनसाप्यनुचिन्तयेत्
असंशयमिह क्लिष्टः प्रेत्यापि नरकं पतेत्

१२.६८.४२न हि जात्ववमन्तव्यो मनुष्य इति भूमिपः
महती देवता ह्येषा नररूपेण तिष्ठति

१२.६८.४३कुरुते पञ्च रूपाणि कालयुक्तानि यः सदा
भवत्यग्निस्तथादित्यो मृत्युर्वैश्रवणो यमः

१२.६८.४४यदा ह्यासीदतः पापान्दहत्युग्रेण तेजसा
मिथ्योपचरितो राजा तदा भवति पावकः

१२.६८.४५यदा पश्यति चारेण सर्वभूतानि भूमिपः
क्षेमं च कृत्वा व्रजति तदा भवति भास्करः

१२.६८.४६अशुचींश्च यदा क्रुद्धः क्षिणोति शतशो नरान्
सपुत्रपौत्रान्सामात्यांस्तदा भवति सोऽन्तकः

१२.६८.४७यदा त्वधार्मिकान्सर्वांस्तीक्ष्णैर्दण्डैर्नियच्छति
धार्मिकांश्चानुगृह्णाति भवत्यथ यमस्तदा

१२.६८.४८यदा तु धनधाराभिस्तर्पयत्युपकारिणः
आच्छिनत्ति च रत्नानि विविधान्यपकारिणाम्

१२.६८.४९श्रियं ददाति कस्मैचित्कस्माच्चिदपकर्षति
तदा वैश्रवणो राजँल्लोके भवति भूमिपः

१२.६८.५०नास्यापवादे स्थातव्यं दक्षेणाक्लिष्टकर्मणा
धर्म्यमाकाङ्क्षता लाभमीश्वरस्यानसूयता

१२.६८.५१न हि राज्ञः प्रतीपानि कुर्वन्सुखमवाप्नुयात्
पुत्रो भ्राता वयस्यो वा यद्यप्यात्मसमो भवेत्

१२.६८.५२कुर्यात्कृष्णगतिः शेषं ज्वलितोऽनिलसारथिः
न तु राज्ञाभिपन्नस्य शेषं क्वचन विद्यते

१२.६८.५३तस्य सर्वाणि रक्ष्याणि दूरतः परिवर्जयेत्
मृत्योरिव जुगुप्सेत राजस्वहरणान्नरः

१२.६८.५४नश्येदभिमृशन्सद्यो मृगः कूटमिव स्पृशन्
आत्मस्वमिव संरक्षेद्राजस्वमिह बुद्धिमान्

१२.६८.५५महान्तं नरकं घोरमप्रतिष्ठमचेतसः
पतन्ति चिररात्राय राजवित्तापहारिणः

१२.६८.५६राजा भोजो विराट्सम्राट्क्षत्रियो भूपतिर्नृपः
य एवं स्तूयते शब्दैः कस्तं नार्चितुमिच्छति

१२.६८.५७तस्माद्बुभूषुर्नियतो जितात्मा संयतेन्द्रियः
मेधावी स्मृतिमान्दक्षः संश्रयेत महीपतिम्

१२.६८.५८कृतज्ञं प्राज्ञमक्षुद्रं दृढभक्तिं जितेन्द्रियम्
धर्मनित्यं स्थितं स्थित्यां मन्त्रिणं पूजयेन्नृपः

१२.६८.५९दृढभक्तिं कृतप्रज्ञं धर्मज्ञं संयतेन्द्रियम्
शूरमक्षुद्रकर्माणं निषिद्धजनमाश्रयेत्

१२.६८.६०राजा प्रगल्भं पुरुषं करोति; राजा कृशं बृंहयते मनुष्यम्
राजाभिपन्नस्य कुतः सुखानि; राजाभ्युपेतं सुखिनं करोति

१२.६८.६१राजा प्रजानां हृदयं गरीयो; गतिः प्रतिष्ठा सुखमुत्तमं च
यमाश्रिता लोकमिमं परं च; जयन्ति सम्यक्पुरुषा नरेन्द्रम्

१२.६८.६२नराधिपश्चाप्यनुशिष्य मेदिनीं; दमेन सत्येन च सौहृदेन
महद्भिरिष्ट्वा क्रतुभिर्महायशा;स्त्रिविष्टपे स्थानमुपैति सत्कृतम्

१२.६८.६३स एवमुक्तो गुरुणा कौसल्यो राजसत्तमः
प्रयत्नात्कृतवान्वीरः प्रजानां परिपालनम्