१२.७१.१युधिष्ठिर उवाच
१२.७१.२केन वृत्तेन वृत्तज्ञ वर्तमानो महीपतिः
सुखेनार्थान्सुखोदर्कानिह च प्रेत्य चाप्नुयात्
१२.७१.३भीष्म उवाच
१२.७१.४इयं गुणानां षट्त्रिंशत्षट्त्रिंशद्गुणसंयुता
यान्गुणांस्तु गुणोपेतः कुर्वन्गुणमवाप्नुयात्
१२.७१.५चरेद्धर्मानकटुको मुञ्चेत्स्नेहं न नास्तिकः
अनृशंसश्चरेदर्थं चरेत्काममनुद्धतः
१२.७१.६प्रियं ब्रूयादकृपणः शूरः स्यादविकत्थनः
दाता नापात्रवर्षी स्यात्प्रगल्भः स्यादनिष्ठुरः
१२.७१.७संदधीत न चानार्यैर्विगृह्णीयान्न बन्धुभिः
नानाप्तैः कारयेच्चारं कुर्यात्कार्यमपीडया
१२.७१.८अर्थान्ब्रूयान्न चासत्सु गुणान्ब्रूयान्न चात्मनः
आदद्यान्न च साधुभ्यो नासत्पुरुषमाश्रयेत्
१२.७१.९नापरीक्ष्य नयेद्दण्डं न च मन्त्रं प्रकाशयेत्
विसृजेन्न च लुब्धेभ्यो विश्वसेन्नापकारिषु
१२.७१.१०अनीर्षुर्गुप्तदारः स्याच्चोक्षः स्यादघृणी नृपः
स्त्रियं सेवेत नात्यर्थं मृष्टं भुञ्जीत नाहितम्
१२.७१.११अस्तब्धः पूजयेन्मान्यान्गुरून्सेवेदमायया
अर्चेद्देवान्न दम्भेन श्रियमिच्छेदकुत्सिताम्
१२.७१.१२सेवेत प्रणयं हित्वा दक्षः स्यान्न त्वकालवित्
सान्त्वयेन्न च भोगार्थमनुगृह्णन्न चाक्षिपेत्
१२.७१.१३प्रहरेन्न त्वविज्ञाय हत्वा शत्रून्न शेषयेत्
क्रोधं कुर्यान्न चाकस्मान्मृदुः स्यान्नापकारिषु
१२.७१.१४एवं चरस्व राज्यस्थो यदि श्रेय इहेच्छसि
अतोऽन्यथा नरपतिर्भयमृच्छत्यनुत्तमम्
१२.७१.१५इति सर्वान्गुणानेतान्यथोक्तान्योऽनुवर्तते
अनुभूयेह भद्राणि प्रेत्य स्वर्गे महीयते
१२.७१.१६वैशंपायन उवाच
१२.७१.१७इदं वचः शांतनवस्य शुश्रुवा;न्युधिष्ठिरः पाण्डवमुख्यसंवृतः
तदा ववन्दे च पितामहं नृपो; यथोक्तमेतच्च चकार बुद्धिमान्