१२.७२.१युधिष्ठिर उवाच
१२.७२.२कथं राजा प्रजा रक्षन्नाधिबन्धेन युज्यते
धर्मे च नापराध्नोति तन्मे ब्रूहि पितामह
१२.७२.३भीष्म उवाच
१२.७२.४समासेनैव ते तात धर्मान्वक्ष्यामि निश्चितान्
विस्तरेण हि धर्माणां न जात्वन्तमवाप्नुयात्
१२.७२.५धर्मनिष्ठाञ्श्रुतवतो वेदव्रतसमाहितान्
अर्चितान्वासयेथास्त्वं गृहे गुणवतो द्विजान्
१२.७२.६प्रत्युत्थायोपसंगृह्य चरणावभिवाद्य च
अथ सर्वाणि कुर्वीथाः कार्याणि सपुरोहितः
१२.७२.७धर्मकार्याणि निर्वर्त्य मङ्गलानि प्रयुज्य च
ब्राह्मणान्वाचयेथास्त्वमर्थसिद्धिजयाशिषः
१२.७२.८आर्जवेन च संपन्नो धृत्या बुद्ध्या च भारत
अर्थार्थं परिगृह्णीयात्कामक्रोधौ च वर्जयेत्
१२.७२.९कामक्रोधौ पुरस्कृत्य योऽर्थं राजानुतिष्ठति
न स धर्मं न चाप्यर्थं परिगृह्णाति बालिशः
१२.७२.१०मा स्म लुब्धांश्च मूर्खांश्च कामे चार्थेषु यूयुजः
अलुब्धान्बुद्धिसंपन्नान्सर्वकर्मसु योजयेत्
१२.७२.११मूर्खो ह्यधिकृतोऽर्थेषु कार्याणामविशारदः
प्रजाः क्लिश्नात्ययोगेन कामद्वेषसमन्वितः
१२.७२.१२बलिषष्ठेन शुल्केन दण्डेनाथापराधिनाम्
शास्त्रनीतेन लिप्सेथा वेतनेन धनागमम्
१२.७२.१३दापयित्वा करं धर्म्यं राष्ट्रं नित्यं यथाविधि
अशेषान्कल्पयेद्राजा योगक्षेमानतन्द्रितः
१२.७२.१४गोपायितारं दातारं धर्मनित्यमतन्द्रितम्
अकामद्वेषसंयुक्तमनुरज्यन्ति मानवाः
१२.७२.१५मा स्माधर्मेण लाभेन लिप्सेथास्त्वं धनागमम्
धर्मार्थावध्रुवौ तस्य योऽपशास्त्रपरो भवेत्
१२.७२.१६अपशास्त्रपरो राजा संचयान्नाधिगच्छति
अस्थाने चास्य तद्वित्तं सर्वमेव विनश्यति
१२.७२.१७अर्थमूलोऽपहिंसां च कुरुते स्वयमात्मनः
करैरशास्त्रदृष्टैर्हि मोहात्संपीडयन्प्रजाः
१२.७२.१८ऊधश्छिन्द्याद्धि यो धेन्वाः क्षीरार्थी न लभेत्पयः
एवं राष्ट्रमयोगेन पीडितं न विवर्धते
१२.७२.१९यो हि दोग्ध्रीमुपास्ते तु स नित्यं लभते पयः
एवं राष्ट्रमुपायेन भुञ्जानो लभते फलम्
१२.७२.२०अथ राष्ट्रमुपायेन भुज्यमानं सुरक्षितम्
जनयत्यतुलां नित्यं कोशवृद्धिं युधिष्ठिर
१२.७२.२१दोग्धि धान्यं हिरण्यं च प्रजा राज्ञि सुरक्षिता
नित्यं स्वेभ्यः परेभ्यश्च तृप्ता माता यथा पयः
१२.७२.२२मालाकारोपमो राजन्भव माङ्गारिकोपमः
तथा युक्तश्चिरं राष्ट्रं भोक्तुं शक्यसि पालयन्
१२.७२.२३परचक्राभियानेन यदि ते स्याद्धनक्षयः
अथ साम्नैव लिप्सेथा धनमब्राह्मणेषु यत्
१२.७२.२४मा स्म ते ब्राह्मणं दृष्ट्वा धनस्थं प्रचलेन्मनः
अन्त्यायामप्यवस्थायां किमु स्फीतस्य भारत
१२.७२.२५धनानि तेभ्यो दद्यास्त्वं यथाशक्ति यथार्हतः
सान्त्वयन्परिरक्षंश्च स्वर्गमाप्स्यसि दुर्जयम्
१२.७२.२६एवं धर्मेण वृत्तेन प्रजास्त्वं परिपालयन्
स्वन्तं पुण्यं यशोवन्तं प्राप्स्यसे कुरुनन्दन
१२.७२.२७धर्मेण व्यवहारेण प्रजाः पालय पाण्डव
युधिष्ठिर तथा युक्तो नाधिबन्धेन योक्ष्यसे
१२.७२.२८एष एव परो धर्मो यद्राजा रक्षते प्रजाः
भूतानां हि यथा धर्मे रक्षणं च परा दया
१२.७२.२९तस्मादेवं परं धर्मं मन्यन्ते धर्मकोविदाः
यद्राजा रक्षणे युक्तो भूतेषु कुरुते दयाम्
१२.७२.३०यदह्ना कुरुते पापमरक्षन्भयतः प्रजाः
राजा वर्षसहस्रेण तस्यान्तमधिगच्छति
१२.७२.३१यदह्ना कुरुते पुण्यं प्रजा धर्मेण पालयन्
दश वर्षसहस्राणि तस्य भुङ्क्ते फलं दिवि
१२.७२.३२स्विष्टिः स्वधीतिः सुतपा लोकाञ्जयति यावतः
क्षणेन तानवाप्नोति प्रजा धर्मेण पालयन्
१२.७२.३३एवं धर्मं प्रयत्नेन कौन्तेय परिपालयन्
इह पुण्यफलं लब्ध्वा नाधिबन्धेन योक्ष्यसे
१२.७२.३४स्वर्गलोके च महतीं श्रियं प्राप्स्यसि पाण्डव
असंभवश्च धर्माणामीदृशानामराजसु
तस्माद्राजैव नान्योऽस्ति यो महत्फलमाप्नुयात्
१२.७२.३५स राज्यमृद्धिमत्प्राप्य धर्मेण परिपालयन्
इन्द्रं तर्पय सोमेन कामैश्च सुहृदो जनान्