१२. शान्तिपर्व
१२.७६.१युधिष्ठिर उवाच

१२.७६.२यया वृत्त्या महीपालो विवर्धयति मानवान्
पुण्यांश्च लोकाञ्जयति तन्मे ब्रूहि पितामह

१२.७६.३भीष्म उवाच

१२.७६.४दानशीलो भवेद्राजा यज्ञशीलश्च भारत
उपवासतपःशीलः प्रजानां पालने रतः

१२.७६.५सर्वाश्चैव प्रजा नित्यं राजा धर्मेण पालयेत्
उत्थानेनाप्रमादेन पूजयेच्चैव धार्मिकान्

१२.७६.६राज्ञा हि पूजितो धर्मस्ततः सर्वत्र पूज्यते
यद्यदाचरते राजा तत्प्रजानां हि रोचते

१२.७६.७नित्यमुद्यतदण्डश्च भवेन्मृत्युरिवारिषु
निहन्यात्सर्वतो दस्यून्न कामात्कस्यचित्क्षमेत्

१२.७६.८यं हि धर्मं चरन्तीह प्रजा राज्ञा सुरक्षिताः
चतुर्थं तस्य धर्मस्य राजा भारत विन्दति

१२.७६.९यदधीते यद्यजते यद्ददाति यदर्चति
राजा चतुर्थभाक्तस्य प्रजा धर्मेण पालयन्

१२.७६.१०यद्राष्ट्रेऽकुशलं किंचिद्राज्ञोऽरक्षयतः प्रजाः
चतुर्थं तस्य पापस्य राजा भारत विन्दति

१२.७६.११अप्याहुः सर्वमेवेति भूयोऽर्धमिति निश्चयः
कर्मणः पृथिवीपाल नृशंसोऽनृतवागपि
तादृशात्किल्बिषाद्राजा शृणु येन प्रमुच्यते

१२.७६.१२प्रत्याहर्तुमशक्यं स्याद्धनं चोरैर्हृतं यदि
स्वकोशात्तत्प्रदेयं स्यादशक्तेनोपजीवता

१२.७६.१३सर्ववर्णैः सदा रक्ष्यं ब्रह्मस्वं ब्राह्मणास्तथा
न स्थेयं विषये तेषु योऽपकुर्याद्द्विजातिषु

१२.७६.१४ब्रह्मस्वे रक्ष्यमाणे हि सर्वं भवति रक्षितम्
तेषां प्रसादे निर्वृत्ते कृतकृत्यो भवेन्नृपः

१२.७६.१५पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः
नरास्तमुपजीवन्ति नृपं सर्वार्थसाधकम्

१२.७६.१६न हि कामात्मना राज्ञा सततं शठबुद्धिना
नृशंसेनातिलुब्धेन शक्याः पालयितुं प्रजाः

१२.७६.१७युधिष्ठिर उवाच

१२.७६.१८नाहं राज्यसुखान्वेषी राज्यमिच्छाम्यपि क्षणम्
धर्मार्थं रोचये राज्यं धर्मश्चात्र न विद्यते

१२.७६.१९तदलं मम राज्येन यत्र धर्मो न विद्यते
वनमेव गमिष्यामि तस्माद्धर्मचिकीर्षया

१२.७६.२०तत्र मेध्येष्वरण्येषु न्यस्तदण्डो जितेन्द्रियः
धर्ममाराधयिष्यामि मुनिर्मूलफलाशनः

१२.७६.२१भीष्म उवाच

१२.७६.२२वेदाहं तव या बुद्धिरानृशंस्यगुणैव सा
न च शुद्धानृशंस्येन शक्यं महदुपासितुम्

१२.७६.२३अपि तु त्वा मृदुं दान्तमत्यार्यमतिधार्मिकम्
क्लीबं धर्मघृणायुक्तं न लोको बहु मन्यते

१२.७६.२४राजधर्मानवेक्षस्व पितृपैतामहोचितान्
नैतद्राज्ञामथो वृत्तं यथा त्वं स्थातुमिच्छसि

१२.७६.२५न हि वैक्लव्यसंसृष्टमानृशंस्यमिहास्थितः
प्रजापालनसंभूतं प्राप्ता धर्मफलं ह्यसि

१२.७६.२६न ह्येतामाशिषं पाण्डुर्न च कुन्त्यन्वयाचत
न चैतां प्राज्ञतां तात यया चरसि मेधया

१२.७६.२७शौर्यं बलं च सत्त्वं च पिता तव सदाब्रवीत्
माहात्म्यं बलमौदार्यं तव कुन्त्यन्वयाचत

१२.७६.२८नित्यं स्वाहा स्वधा नित्यमुभे मानुषदैवते
पुत्रेष्वाशासते नित्यं पितरो दैवतानि च

१२.७६.२९दानमध्ययनं यज्ञः प्रजानां परिपालनम्
धर्ममेतमधर्मं वा जन्मनैवाभ्यजायिथाः

१२.७६.३०काले धुरि नियुक्तानां वहतां भार आहिते
सीदतामपि कौन्तेय न कीर्तिरवसीदति

१२.७६.३१समन्ततो विनियतो वहत्यस्खलितो हि यः
निर्दोषकर्मवचनात्सिद्धिः कर्मण एव सा

१२.७६.३२नैकान्तविनिपातेन विचचारेह कश्चन
धर्मी गृही वा राजा वा ब्रह्मचार्यथ वा पुनः

१२.७६.३३अल्पं तु साधुभूयिष्ठं यत्कर्मोदारमेव तत्
कृतमेवाकृताच्छ्रेयो न पापीयोऽस्त्यकर्मणः

१२.७६.३४यदा कुलीनो धर्मज्ञः प्राप्नोत्यैश्वर्यमुत्तमम्
योगक्षेमस्तदा राजन्कुशलायैव कल्पते

१२.७६.३५दानेनान्यं बलेनान्यमन्यं सूनृतया गिरा
सर्वतः परिगृह्णीयाद्राज्यं प्राप्येह धार्मिकः

१२.७६.३६यं हि वैद्याः कुले जाता अवृत्तिभयपीडिताः
प्राप्य तृप्ताः प्रतिष्ठन्ति धर्मः कोऽभ्यधिकस्ततः

१२.७६.३७युधिष्ठिर उवाच

१२.७६.३८किं न्वतः परमं स्वर्ग्यं का न्वतः प्रीतिरुत्तमा
किं न्वतः परमैश्वर्यं ब्रूहि मे यदि मन्यसे

१२.७६.३९भीष्म उवाच

१२.७६.४०यस्मिन्प्रतिष्ठिताः सम्यक्क्षेमं विन्दन्ति तत्क्षणम्
स स्वर्गजित्तमोऽस्माकं सत्यमेतद्ब्रवीमि ते

१२.७६.४१त्वमेव प्रीतिमांस्तस्मात्कुरूणां कुरुसत्तम
भव राजा जय स्वर्गं सतो रक्षासतो जहि

१२.७६.४२अनु त्वा तात जीवन्तु सुहृदः साधुभिः सह
पर्जन्यमिव भूतानि स्वादुद्रुममिवाण्डजाः

१२.७६.४३धृष्टं शूरं प्रहर्तारमनृशंसं जितेन्द्रियम्
वत्सलं संविभक्तारमनु जीवन्तु त्वां जनाः