१२.७७.१युधिष्ठिर उवाच
१२.७७.२स्वकर्मण्यपरे युक्तास्तथैवान्ये विकर्मणि
तेषां विशेषमाचक्ष्व ब्राह्मणानां पितामह
१२.७७.३भीष्म उवाच
१२.७७.४विद्यालक्षणसंपन्नाः सर्वत्राम्नायदर्शिनः
एते ब्रह्मसमा राजन्ब्राह्मणाः परिकीर्तिताः
१२.७७.५ऋत्विगाचार्यसंपन्नाः स्वेषु कर्मस्ववस्थिताः
एते देवसमा राजन्ब्राह्मणानां भवन्त्युत
१२.७७.६ऋत्विक्पुरोहितो मन्त्री दूतोऽथार्थानुशासकः
एते क्षत्रसमा राजन्ब्राह्मणानां भवन्त्युत
१२.७७.७अश्वारोहा गजारोहा रथिनोऽथ पदातयः
एते वैश्यसमा राजन्ब्राह्मणानां भवन्त्युत
१२.७७.८जन्मकर्मविहीना ये कदर्या ब्रह्मबन्धवः
एते शूद्रसमा राजन्ब्राह्मणानां भवन्त्युत
१२.७७.९अश्रोत्रियाः सर्व एव सर्वे चानाहिताग्नयः
तान्सर्वान्धार्मिको राजा बलिं विष्टिं च कारयेत्
१२.७७.१०आह्वायका देवलका नक्षत्रग्रामयाजकाः
एते ब्राह्मणचण्डाला महापथिकपञ्चमाः
१२.७७.११एतेभ्यो बलिमादद्याद्धीनकोशो महीपतिः
ऋते ब्रह्मसमेभ्यश्च देवकल्पेभ्य एव च
१२.७७.१२अब्राह्मणानां वित्तस्य स्वामी राजेति वैदिकम्
ब्राह्मणानां च ये केचिद्विकर्मस्था भवन्त्युत
१२.७७.१३विकर्मस्थास्तु नोपेक्ष्या जातु राज्ञा कथंचन
नियम्याः संविभज्याश्च धर्मानुग्रहकाम्यया
१२.७७.१४यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः
राज्ञ एवापराधं तं मन्यन्ते तद्विदो जनाः
१२.७७.१५अवृत्त्या यो भवेत्स्तेनो वेदवित्स्नातकस्तथा
राजन्स राज्ञा भर्तव्य इति धर्मविदो विदुः
१२.७७.१६स चेन्नो परिवर्तेत कृतवृत्तिः परंतप
ततो निर्वासनीयः स्यात्तस्माद्देशात्सबान्धवः