१२. शान्तिपर्व
१२.८१.१युधिष्ठिर उवाच

१२.८१.२यदप्यल्पतरं कर्म तदप्येकेन दुष्करम्
पुरुषेणासहायेन किमु राज्यं पितामह

१२.८१.३किंशीलः किंसमाचारो राज्ञोऽर्थसचिवो भवेत्
कीदृशे विश्वसेद्राजा कीदृशे नापि विश्वसेत्

१२.८१.४भीष्म उवाच

१२.८१.५चतुर्विधानि मित्राणि राज्ञां राजन्भवन्त्युत
सहार्थो भजमानश्च सहजः कृत्रिमस्तथा

१२.८१.६धर्मात्मा पञ्चमं मित्रं स तु नैकस्य न द्वयोः
यतो धर्मस्ततो वा स्यान्मध्यस्थो वा ततो भवेत्

१२.८१.७यस्तस्यार्थो न रोचेत न तं तस्य प्रकाशयेत्
धर्माधर्मेण राजानश्चरन्ति विजिगीषवः

१२.८१.८चतुर्णां मध्यमौ श्रेष्ठौ नित्यं शङ्क्यौ तथापरौ
सर्वे नित्यं शङ्कितव्याः प्रत्यक्षं कार्यमात्मनः

१२.८१.९न हि राज्ञा प्रमादो वै कर्तव्यो मित्ररक्षणे
प्रमादिनं हि राजानं लोकाः परिभवन्त्युत

१२.८१.१०असाधुः साधुतामेति साधुर्भवति दारुणः
अरिश्च मित्रं भवति मित्रं चापि प्रदुष्यति

१२.८१.११अनित्यचित्तः पुरुषस्तस्मिन्को जातु विश्वसेत्
तस्मात्प्रधानं यत्कार्यं प्रत्यक्षं तत्समाचरेत्

१२.८१.१२एकान्तेन हि विश्वासः कृत्स्नो धर्मार्थनाशकः
अविश्वासश्च सर्वत्र मृत्युना न विशिष्यते

१२.८१.१३अकालमृत्युर्विश्वासो विश्वसन्हि विपद्यते
यस्मिन्करोति विश्वासमिच्छतस्तस्य जीवति

१२.८१.१४तस्माद्विश्वसितव्यं च शङ्कितव्यं च केषुचित्
एषा नीतिगतिस्तात लक्ष्मीश्चैव सनातनी

१२.८१.१५यं मन्येत ममाभावादिममर्थागमः स्पृशेत्
नित्यं तस्माच्छङ्कितव्यममित्रं तं विदुर्बुधाः

१२.८१.१६यस्य क्षेत्रादप्युदकं क्षेत्रमन्यस्य गच्छति
न तत्रानिच्छतस्तस्य भिद्येरन्सर्वसेतवः

१२.८१.१७तथैवात्युदकाद्भीतस्तस्य भेदनमिच्छति
यमेवंलक्षणं विद्यात्तममित्रं विनिर्दिशेत्

१२.८१.१८यः समृद्ध्या न तुष्येत क्षये दीनतरो भवेत्
एतदुत्तममित्रस्य निमित्तमभिचक्षते

१२.८१.१९यं मन्येत ममाभावादस्याभावो भवेदिति
तस्मिन्कुर्वीत विश्वासं यथा पितरि वै तथा

१२.८१.२०तं शक्त्या वर्धमानश्च सर्वतः परिबृंहयेत्
नित्यं क्षताद्वारयति यो धर्मेष्वपि कर्मसु

१२.८१.२१क्षताद्भीतं विजानीयादुत्तमं मित्रलक्षणम्
ये तस्य क्षतमिच्छन्ति ते तस्य रिपवः स्मृताः

१२.८१.२२व्यसनान्नित्यभीतोऽसौ समृद्ध्यामेव तृप्यते
यत्स्यादेवंविधं मित्रं तदात्मसममुच्यते

१२.८१.२३रूपवर्णस्वरोपेतस्तितिक्षुरनसूयकः
कुलीनः शीलसंपन्नः स ते स्यात्प्रत्यनन्तरः

१२.८१.२४मेधावी स्मृतिमान्दक्षः प्रकृत्या चानृशंसवान्
यो मानितोऽमानितो वा न संदूष्येत्कदाचन

१२.८१.२५ऋत्विग्वा यदि वाचार्यः सखा वात्यन्तसंस्तुतः
गृहे वसेदमात्यस्ते यः स्यात्परमपूजितः

१२.८१.२६स ते विद्यात्परं मन्त्रं प्रकृतिं चार्थधर्मयोः
विश्वासस्ते भवेत्तत्र यथा पितरि वै तथा

१२.८१.२७नैव द्वौ न त्रयः कार्या न मृष्येरन्परस्परम्
एकार्थादेव भूतानां भेदो भवति सर्वदा

१२.८१.२८कीर्तिप्रधानो यश्च स्याद्यश्च स्यात्समये स्थितः
समर्थान्यश्च न द्वेष्टि समर्थान्कुरुते च यः

१२.८१.२९यो न कामाद्भयाल्लोभात्क्रोधाद्वा धर्ममुत्सृजेत्
दक्षः पर्याप्तवचनः स ते स्यात्प्रत्यनन्तरः

१२.८१.३०शूरश्चार्यश्च विद्वांश्च प्रतिपत्तिविशारदः
कुलीनः शीलसंपन्नस्तितिक्षुरनसूयकः

१२.८१.३१एते ह्यमात्याः कर्तव्याः सर्वकर्मस्ववस्थिताः
पूजिताः संविभक्ताश्च सुसहायाः स्वनुष्ठिताः

१२.८१.३२कृत्स्नमेते विनिक्षिप्ताः प्रतिरूपेषु कर्मसु
युक्ता महत्सु कार्येषु श्रेयांस्युत्पादयन्ति च

१२.८१.३३एते कर्माणि कुर्वन्ति स्पर्धमाना मिथः सदा
अनुतिष्ठन्ति चैवार्थानाचक्षाणाः परस्परम्

१२.८१.३४ज्ञातिभ्यश्चैव बिभ्येथा मृत्योरिव यतः सदा
उपराजेव राजर्धिं ज्ञातिर्न सहते सदा

१२.८१.३५ऋजोर्मृदोर्वदान्यस्य ह्रीमतः सत्यवादिनः
नान्यो ज्ञातेर्महाबाहो विनाशमभिनन्दति

१२.८१.३६अज्ञातिता नातिसुखा नावज्ञेयास्त्वतः परम्
अज्ञातिमन्तं पुरुषं परे परिभवन्त्युत

१२.८१.३७निकृतस्य नरैरन्यैर्ज्ञातिरेव परायणम्
नान्यैर्निकारं सहते ज्ञातेर्ज्ञातिः कदाचन

१२.८१.३८आत्मानमेव जानाति निकृतं बान्धवैरपि
तेषु सन्ति गुणाश्चैव नैर्गुण्यं तेषु लक्ष्यते

१२.८१.३९नाज्ञातिरनुगृह्णाति नाज्ञातिर्दिग्धमस्यति
उभयं ज्ञातिलोकेषु दृश्यते साध्वसाधु च

१२.८१.४०तान्मानयेत्पूजयेच्च नित्यं वाचा च कर्मणा
कुर्याच्च प्रियमेतेभ्यो नाप्रियं किंचिदाचरेत्

१२.८१.४१विश्वस्तवदविश्वस्तस्तेषु वर्तेत सर्वदा
न हि दोषो गुणो वेति निस्पृक्तस्तेषु दृश्यते

१२.८१.४२तस्यैवं वर्तमानस्य पुरुषस्याप्रमादिनः
अमित्राः संप्रसीदन्ति तथा मित्रीभवन्त्यपि

१२.८१.४३य एवं वर्तते नित्यं ज्ञातिसंबन्धिमण्डले
मित्रेष्वमित्रेष्वैश्वर्ये चिरं यशसि तिष्ठति