१२. शान्तिपर्व
१२.८०.१युधिष्ठिर उवाच

१२.८०.२क्वसमुत्थाः कथंशीला ऋत्विजः स्युः पितामह
कथंविधाश्च राजेन्द्र तद्ब्रूहि वदतां वर

१२.८०.३भीष्म उवाच

१२.८०.४प्रतिकर्म पुराचार ऋत्विजां स्म विधीयते
आदौ छन्दांसि विज्ञाय द्विजानां श्रुतमेव च

१२.८०.५ये त्वेकरतयो नित्यं धीरा नाप्रियवादिनः
परस्परस्य सुहृदः संमताः समदर्शिनः

१२.८०.६येष्वानृशंस्यं सत्यं चाप्यहिंसा तप आर्जवम्
अद्रोहो नाभिमानश्च ह्रीस्तितिक्षा दमः शमः

१२.८०.७ह्रीमान्सत्यधृतिर्दान्तो भूतानामविहिंसकः
अकामद्वेषसंयुक्तस्त्रिभिः शुक्लैः समन्वितः

१२.८०.८अहिंसको ज्ञानतृप्तः स ब्रह्मासनमर्हति
एते महर्त्विजस्तात सर्वे मान्या यथातथम्

१२.८०.९युधिष्ठिर उवाच

१२.८०.१०यदिदं वेदवचनं दक्षिणासु विधीयते
इदं देयमिदं देयं न क्वचिद्व्यवतिष्ठते

१२.८०.११नेदं प्रति धनं शास्त्रमापद्धर्ममशास्त्रतः
आज्ञा शास्त्रस्य घोरेयं न शक्तिं समवेक्षते

१२.८०.१२श्रद्धामारभ्य यष्टव्यमित्येषा वैदिकी श्रुतिः
मिथ्योपेतस्य यज्ञस्य किमु श्रद्धा करिष्यति

१२.८०.१३भीष्म उवाच

१२.८०.१४न वेदानां परिभवान्न शाठ्येन न मायया
कश्चिन्महदवाप्नोति मा ते भूद्बुद्धिरीदृशी

१२.८०.१५यज्ञाङ्गं दक्षिणास्तात वेदानां परिबृंहणम्
न मन्त्रा दक्षिणाहीनास्तारयन्ति कथंचन

१२.८०.१६शक्तिस्तु पूर्णपात्रेण संमितानवमा भवेत्
अवश्यं तात यष्टव्यं त्रिभिर्वर्णैर्यथाविधि

१२.८०.१७सोमो राजा ब्राह्मणानामित्येषा वैदिकी श्रुतिः
तं च विक्रेतुमिच्छन्ति न वृथा वृत्तिरिष्यते
तेन क्रीतेन धर्मेण ततो यज्ञः प्रतायते

१२.८०.१८इत्येवं धर्मतः ख्यातमृषिभिर्धर्मवादिभिः
पुमान्यज्ञश्च सोमश्च न्यायवृत्तो यथा भवेत्
अन्यायवृत्तः पुरुषो न परस्य न चात्मनः

१२.८०.१९शरीरं यज्ञपात्राणि इत्येषा श्रूयते श्रुतिः
तानि सम्यक्प्रणीतानि ब्राह्मणानां महात्मनाम्

१२.८०.२०तपो यज्ञादपि श्रेष्ठमित्येषा परमा श्रुतिः
तत्ते तपः प्रवक्ष्यामि विद्वंस्तदपि मे शृणु

१२.८०.२१अहिंसा सत्यवचनमानृशंस्यं दमो घृणा
एतत्तपो विदुर्धीरा न शरीरस्य शोषणम्

१२.८०.२२अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम्
अव्यवस्था च सर्वत्र तद्वै नाशनमात्मनः

१२.८०.२३निबोध दशहोतॄणां विधानं पार्थ यादृशम्
चित्तिः स्रुक्चित्तमाज्यं च पवित्रं ज्ञानमुत्तमम्

१२.८०.२४सर्वं जिह्मं मृत्युपदमार्जवं ब्रह्मणः पदम्
एतावाञ्ज्ञानविषयः किं प्रलापः करिष्यति