१२. शान्तिपर्व
१२.८५.१भीष्म उवाच

१२.८५.२अत्राप्युदाहरन्तीममितिहासं पुरातनम्
बृहस्पतेश्च संवादं शक्रस्य च युधिष्ठिर

१२.८५.३शक्र उवाच

१२.८५.४किं स्विदेकपदं ब्रह्मन्पुरुषः सम्यगाचरन्
प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत्

१२.८५.५बृहस्पतिरुवाच

१२.८५.६सान्त्वमेकपदं शक्र पुरुषः सम्यगाचरन्
प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत्

१२.८५.७एतदेकपदं शक्र सर्वलोकसुखावहम्
आचरन्सर्वभूतेषु प्रियो भवति सर्वदा

१२.८५.८यो हि नाभाषते किंचित्सततं भ्रुकुटीमुखः
द्वेष्यो भवति भूतानां स सान्त्वमिह नाचरन्

१२.८५.९यस्तु पूर्वमभिप्रेक्ष्य पूर्वमेवाभिभाषते
स्मितपूर्वाभिभाषी च तस्य लोकः प्रसीदति

१२.८५.१०दानमेव हि सर्वत्र सान्त्वेनानभिजल्पितम्
न प्रीणयति भूतानि निर्व्यञ्जनमिवाशनम्

१२.८५.११अदाता ह्यपि भूतानां मधुरामीरयन्गिरम्
सर्वलोकमिमं शक्र सान्त्वेन कुरुते वशे

१२.८५.१२तस्मात्सान्त्वं प्रकर्तव्यं दण्डमाधित्सतामिह
फलं च जनयत्येवं न चास्योद्विजते जनः

१२.८५.१३सुकृतस्य हि सान्त्वस्य श्लक्ष्णस्य मधुरस्य च
सम्यगासेव्यमानस्य तुल्यं जातु न विद्यते

१२.८५.१४भीष्म उवाच

१२.८५.१५इत्युक्तः कृतवान्सर्वं तथा शक्रः पुरोधसा
तथा त्वमपि कौन्तेय सम्यगेतत्समाचर