१२. शान्तिपर्व
१२.८६.१युधिष्ठिर उवाच

१२.८६.२कथं स्विदिह राजेन्द्र पालयन्पार्थिवः प्रजाः
प्रति धर्मं विशेषेण कीर्तिमाप्नोति शाश्वतीम्

१२.८६.३भीष्म उवाच

१२.८६.४व्यवहारेण शुद्धेन प्रजापालनतत्परः
प्राप्य धर्मं च कीर्तिं च लोकावाप्नोत्युभौ शुचिः

१२.८६.५युधिष्ठिर उवाच

१२.८६.६कीदृशं व्यवहारं तु कैश्च व्यवहरेन्नृपः
एतत्पृष्टो महाप्राज्ञ यथावद्वक्तुमर्हसि

१२.८६.७ये चैते पूर्वकथिता गुणास्ते पुरुषं प्रति
नैकस्मिन्पुरुषे ह्येते विद्यन्त इति मे मतिः

१२.८६.८भीष्म उवाच

१२.८६.९एवमेतन्महाप्राज्ञ यथा वदसि बुद्धिमान्
दुर्लभः पुरुषः कश्चिदेभिर्गुणगुणैर्युतः

१२.८६.१०किं तु संक्षेपतः शीलं प्रयत्ने नेह दुर्लभम्
वक्ष्यामि तु यथामात्यान्यादृशांश्च करिष्यसि

१२.८६.११चतुरो ब्राह्मणान्वैद्यान्प्रगल्भान्सात्त्विकाञ्शुचीन्
त्रींश्च शूद्रान्विनीतांश्च शुचीन्कर्मणि पूर्वके

१२.८६.१२अष्टाभिश्च गुणैर्युक्तं सूतं पौराणिकं चरेत्
पञ्चाशद्वर्षवयसं प्रगल्भमनसूयकम्

१२.८६.१३मतिस्मृतिसमायुक्तं विनीतं समदर्शनम्
कार्ये विवदमानानां शक्तमर्थेष्वलोलुपम्

१२.८६.१४विवर्जितानां व्यसनैः सुघोरैः सप्तभिर्भृशम्
अष्टानां मन्त्रिणां मध्ये मन्त्रं राजोपधारयेत्

१२.८६.१५ततः संप्रेषयेद्राष्ट्रे राष्ट्रायाथ च दर्शयेत्
अनेन व्यवहारेण द्रष्टव्यास्ते प्रजाः सदा

१२.८६.१६न चापि गूढं कार्यं ते ग्राह्यं कार्योपघातकम्
कार्ये खलु विपन्ने त्वां सोऽधर्मस्तांश्च पीडयेत्

१२.८६.१७विद्रवेच्चैव राष्ट्रं ते श्येनात्पक्षिगणा इव
परिस्रवेच्च सततं नौर्विशीर्णेव सागरे

१२.८६.१८प्रजाः पालयतोऽसम्यगधर्मेणेह भूपतेः
हार्दं भयं संभवति स्वर्गश्चास्य विरुध्यते

१२.८६.१९अथ योऽधर्मतः पाति राजामात्योऽथ वात्मजः
धर्मासने नियुक्तः सन्धर्ममूलं नरर्षभ

१२.८६.२०कार्येष्वधिकृताः सम्यगकुर्वन्तो नृपानुगाः
आत्मानं पुरतः कृत्वा यान्त्यधः सहपार्थिवाः

१२.८६.२१बलात्कृतानां बलिभिः कृपणं बहु जल्पताम्
नाथो वै भूमिपो नित्यमनाथानां नृणां भवेत्

१२.८६.२२ततः साक्षिबलं साधु द्वैधे वादकृतं भवेत्
असाक्षिकमनाथं वा परीक्ष्यं तद्विशेषतः

१२.८६.२३अपराधानुरूपं च दण्डं पापेषु पातयेत्
उद्वेजयेद्धनैरृद्धान्दरिद्रान्वधबन्धनैः

१२.८६.२४विनयैरपि दुर्वृत्तान्प्रहारैरपि पार्थिवः
सान्त्वेनोपप्रदानेन शिष्टांश्च परिपालयेत्

१२.८६.२५राज्ञो वधं चिकीर्षेद्यस्तस्य चित्रो वधो भवेत्
आजीवकस्य स्तेनस्य वर्णसंकरकस्य च

१२.८६.२६सम्यक्प्रणयतो दण्डं भूमिपस्य विशां पते
युक्तस्य वा नास्त्यधर्मो धर्म एवेह शाश्वतः

१२.८६.२७कामकारेण दण्डं तु यः कुर्यादविचक्षणः
स इहाकीर्तिसंयुक्तो मृतो नरकमाप्नुयात्

१२.८६.२८न परस्य श्रवादेव परेषां दण्डमर्पयेत्
आगमानुगमं कृत्वा बध्नीयान्मोक्षयेत वा

१२.८६.२९न तु हन्यान्नृपो जातु दूतं कस्यांचिदापदि
दूतस्य हन्ता निरयमाविशेत्सचिवैः सह

१२.८६.३०यथोक्तवादिनं दूतं क्षत्रधर्मरतो नृपः
यो हन्यात्पितरस्तस्य भ्रूणहत्यामवाप्नुयुः

१२.८६.३१कुलीनः शीलसंपन्नो वाग्मी दक्षः प्रियंवदः
यथोक्तवादी स्मृतिमान्दूतः स्यात्सप्तभिर्गुणैः

१२.८६.३२एतैरेव गुणैर्युक्तः प्रतीहारोऽस्य रक्षिता
शिरोरक्षश्च भवति गुणैरेतैः समन्वितः

१२.८६.३३धर्मार्थशास्त्रतत्त्वज्ञः संधिविग्रहको भवेत्
मतिमान्धृतिमान्धीमान्रहस्यविनिगूहिता

१२.८६.३४कुलीनः सत्यसंपन्नः शक्तोऽमात्यः प्रशंसितः
एतैरेव गुणैर्युक्तस्तथा सेनापतिर्भवेत्

१२.८६.३५व्यूहयन्त्रायुधीयानां तत्त्वज्ञो विक्रमान्वितः
वर्षशीतोष्णवातानां सहिष्णुः पररन्ध्रवित्

१२.८६.३६विश्वासयेत्परांश्चैव विश्वसेन्न तु कस्यचित्
पुत्रेष्वपि हि राजेन्द्र विश्वासो न प्रशस्यते

१२.८६.३७एतच्छास्त्रार्थतत्त्वं तु तवाख्यातं मयानघ
अविश्वासो नरेन्द्राणां गुह्यं परममुच्यते