१२. शान्तिपर्व
१२.८७.१युधिष्ठिर उवाच

१२.८७.२कथंविधं पुरं राजा स्वयमावस्तुमर्हति
कृतं वा कारयित्वा वा तन्मे ब्रूहि पितामह

१२.८७.३भीष्म उवाच

१२.८७.४यत्र कौन्तेय वस्तव्यं सपुत्रभ्रातृबन्धुना
न्याय्यं तत्र परिप्रष्टुं गुप्तिं वृत्तिं च भारत

१२.८७.५तस्मात्ते वर्तयिष्यामि दुर्गकर्म विशेषतः
श्रुत्वा तथा विधातव्यमनुष्ठेयं च यत्नतः

१२.८७.६षड्विधं दुर्गमास्थाय पुराण्यथ निवेशयेत्
सर्वसंपत्प्रधानं यद्बाहुल्यं वापि संभवेत्

१२.८७.७धन्वदुर्गं महीदुर्गं गिरिदुर्गं तथैव च
मनुष्यदुर्गमब्दुर्गं वनदुर्गं च तानि षट्

१२.८७.८यत्पुरं दुर्गसंपन्नं धान्यायुधसमन्वितम्
दृढप्राकारपरिखं हस्त्यश्वरथसंकुलम्

१२.८७.९विद्वांसः शिल्पिनो यत्र निचयाश्च सुसंचिताः
धार्मिकश्च जनो यत्र दाक्ष्यमुत्तममास्थितः

१२.८७.१०ऊर्जस्विनरनागाश्वं चत्वरापणशोभितम्
प्रसिद्धव्यवहारं च प्रशान्तमकुतोभयम्

१२.८७.११सुप्रभं सानुनादं च सुप्रशस्तनिवेशनम्
शूराढ्यजनसंपन्नं ब्रह्मघोषानुनादितम्

१२.८७.१२समाजोत्सवसंपन्नं सदापूजितदैवतम्
वश्यामात्यबलो राजा तत्पुरं स्वयमावसेत्

१२.८७.१३तत्र कोशं बलं मित्रं व्यवहारं च वर्धयेत्
पुरे जनपदे चैव सर्वदोषान्निवर्तयेत्

१२.८७.१४भाण्डागारायुधागारं प्रयत्नेनाभिवर्धयेत्
निचयान्वर्धयेत्सर्वांस्तथा यन्त्रगदागदान्

१२.८७.१५काष्ठलोहतुषाङ्गारदारुशृङ्गास्थिवैणवान्
मज्जास्नेहवसाक्षौद्रमौषधग्राममेव च

१२.८७.१६शणं सर्जरसं धान्यमायुधानि शरांस्तथा
चर्म स्नायु तथा वेत्रं मुञ्जबल्बजधन्वनान्

१२.८७.१७आशयाश्चोदपानाश्च प्रभूतसलिला वराः
निरोद्धव्याः सदा राज्ञा क्षीरिणश्च महीरुहाः

१२.८७.१८सत्कृताश्च प्रयत्नेन आचार्यर्त्विक्पुरोहिताः
महेष्वासाः स्थपतयः सांवत्सरचिकित्सकाः

१२.८७.१९प्राज्ञा मेधाविनो दान्ता दक्षाः शूरा बहुश्रुताः
कुलीनाः सत्त्वसंपन्ना युक्ताः सर्वेषु कर्मसु

१२.८७.२०पूजयेद्धार्मिकान्राजा निगृह्णीयादधार्मिकान्
नियुञ्ज्याच्च प्रयत्नेन सर्ववर्णान्स्वकर्मसु

१२.८७.२१बाह्यमाभ्यन्तरं चैव पौरजानपदं जनम्
चारैः सुविदितं कृत्वा ततः कर्म प्रयोजयेत्

१२.८७.२२चारान्मन्त्रं च कोशं च मन्त्रं चैव विशेषतः
अनुतिष्ठेत्स्वयं राजा सर्वं ह्यत्र प्रतिष्ठितम्

१२.८७.२३उदासीनारिमित्राणां सर्वमेव चिकीर्षितम्
पुरे जनपदे चैव ज्ञातव्यं चारचक्षुषा

१२.८७.२४ततस्तथा विधातव्यं सर्वमेवाप्रमादतः
भक्तान्पूजयता नित्यं द्विषतश्च निगृह्णता

१२.८७.२५यष्टव्यं क्रतुभिर्नित्यं दातव्यं चाप्यपीडया
प्रजानां रक्षणं कार्यं न कार्यं कर्म गर्हितम्

१२.८७.२६कृपणानाथवृद्धानां विधवानां च योषिताम्
योगक्षेमं च वृत्तिं च नित्यमेव प्रकल्पयेत्

१२.८७.२७आश्रमेषु यथाकालं चेलभाजनभोजनम्
सदैवोपहरेद्राजा सत्कृत्यानवमन्य च

१२.८७.२८आत्मानं सर्वकार्याणि तापसे राज्यमेव च
निवेदयेत्प्रयत्नेन तिष्ठेत्प्रह्वश्च सर्वदा

१२.८७.२९सर्वार्थत्यागिनं राजा कुले जातं बहुश्रुतम्
पूजयेत्तादृशं दृष्ट्वा शयनासनभोजनैः

१२.८७.३०तस्मिन्कुर्वीत विश्वासं राजा कस्यांचिदापदि
तापसेषु हि विश्वासमपि कुर्वन्ति दस्यवः

१२.८७.३१तस्मिन्निधीनादधीत प्रज्ञां पर्याददीत च
न चाप्यभीक्ष्णं सेवेत भृशं वा प्रतिपूजयेत्

१२.८७.३२अन्यः कार्यः स्वराष्ट्रेषु परराष्ट्रेषु चापरः
अटवीष्वपरः कार्यः सामन्तनगरेषु च

१२.८७.३३तेषु सत्कारसंस्कारान्संविभागांश्च कारयेत्
परराष्ट्राटवीस्थेषु यथा स्वविषये तथा

१२.८७.३४ते कस्यांचिदवस्थायां शरणं शरणार्थिने
राज्ञे दद्युर्यथाकामं तापसाः संशितव्रताः

१२.८७.३५एष ते लक्षणोद्देशः संक्षेपेण प्रकीर्तितः
यादृशं नगरं राजा स्वयमावस्तुमर्हति