१२. शान्तिपर्व
१२.८९.१युधिष्ठिर उवाच

१२.८९.२यदा राजा समर्थोऽपि कोशार्थी स्यान्महामते
कथं प्रवर्तेत तदा तन्मे ब्रूहि पितामह

१२.८९.३भीष्म उवाच

१२.८९.४यथादेशं यथाकालमपि चैव यथाबलम्
अनुशिष्यात्प्रजा राजा धर्मार्थी तद्धिते रतः

१२.८९.५यथा तासां च मन्येत श्रेय आत्मन एव च
तथा धर्म्याणि सर्वाणि राजा राष्ट्रे प्रवर्तयेत्

१२.८९.६मधुदोहं दुहेद्राष्ट्रं भ्रमरान्न विपातयेत्
वत्सापेक्षी दुहेच्चैव स्तनांश्च न विकुट्टयेत्

१२.८९.७जलौकावत्पिबेद्राष्ट्रं मृदुनैव नराधिप
व्याघ्रीव च हरेत्पुत्रमदष्ट्वा मा पतेदिति

१२.८९.८अल्पेनाल्पेन देयेन वर्धमानं प्रदापयेत्
ततो भूयस्ततो भूयः कामं वृद्धिं समाचरेत्

१२.८९.९दमयन्निव दम्यानां शश्वद्भारं प्रवर्धयेत्
मृदुपूर्वं प्रयत्नेन पाशानभ्यवहारयेत्

१२.८९.१०सकृत्पाशावकीर्णास्ते न भविष्यन्ति दुर्दमाः
उचितेनैव भोक्तव्यास्ते भविष्यन्ति यत्नतः

१२.८९.११तस्मात्सर्वसमारम्भो दुर्लभः पुरुषव्रजः
यथामुख्यान्सान्त्वयित्वा भोक्तव्य इतरो जनः

१२.८९.१२ततस्तान्भेदयित्वाथ परस्परविवक्षितान्
भुञ्जीत सान्त्वयित्वैव यथासुखमयत्नतः

१२.८९.१३न चास्थाने न चाकाले करानेभ्योऽनुपातयेत्
आनुपूर्व्येण सान्त्वेन यथाकालं यथाविधि

१२.८९.१४उपायान्प्रब्रवीम्येतान्न मे माया विवक्षिता
अनुपायेन दमयन्प्रकोपयति वाजिनः

१२.८९.१५पानागाराणि वेशाश्च वेशप्रापणिकास्तथा
कुशीलवाः सकितवा ये चान्ये केचिदीदृशाः

१२.८९.१६नियम्याः सर्व एवैते ये राष्ट्रस्योपघातकाः
एते राष्ट्रे हि तिष्ठन्तो बाधन्ते भद्रिकाः प्रजाः

१२.८९.१७न केनचिद्याचितव्यः कश्चित्किंचिदनापदि
इति व्यवस्था भूतानां पुरस्तान्मनुना कृता

१२.८९.१८सर्वे तथा न जीवेयुर्न कुर्युः कर्म चेदिह
सर्व एव त्रयो लोका न भवेयुरसंशयम्

१२.८९.१९प्रभुर्नियमने राजा य एतान्न नियच्छति
भुङ्क्ते स तस्य पापस्य चतुर्भागमिति श्रुतिः
तथा कृतस्य धर्मस्य चतुर्भागमुपाश्नुते

१२.८९.२०स्थानान्येतानि संगम्य प्रसङ्गे भूतिनाशनः
कामप्रसक्तः पुरुषः किमकार्यं विवर्जयेत्

१२.८९.२१आपद्येव तु याचेरन्येषां नास्ति परिग्रहः
दातव्यं धर्मतस्तेभ्यस्त्वनुक्रोशाद्दयार्थिना

१२.८९.२२मा ते राष्ट्रे याचनका मा ते भूयुश्च दस्यवः
इष्टादातार एवैते नैते भूतस्य भावकाः

१२.८९.२३ये भूतान्यनुगृह्णन्ति वर्धयन्ति च ये प्रजाः
ते ते राष्ट्रे प्रवर्तन्तां मा भूतानामभावकाः

१२.८९.२४दण्ड्यास्ते च महाराज धनादानप्रयोजनाः
प्रयोगं कारयेयुस्तान्यथा बलिकरांस्तथा

१२.८९.२५कृषिगोरक्ष्यवाणिज्यं यच्चान्यत्किंचिदीदृशम्
पुरुषैः कारयेत्कर्म बहुभिः सह कर्मिभिः

१२.८९.२६नरश्चेत्कृषिगोरक्ष्यं वाणिज्यं चाप्यनुष्ठितः
संशयं लभते किंचित्तेन राजा विगर्ह्यते

१२.८९.२७धनिनः पूजयेन्नित्यं यानाच्छादनभोजनैः
वक्तव्याश्चानुगृह्णीध्वं पूजाः सह मयेति ह

१२.८९.२८अङ्गमेतन्महद्राज्ञां धनिनो नाम भारत
ककुदं सर्वभूतानां धनस्थो नात्र संशयः

१२.८९.२९प्राज्ञः शूरो धनस्थश्च स्वामी धार्मिक एव च
तपस्वी सत्यवादी च बुद्धिमांश्चाभिरक्षति

१२.८९.३०तस्मादेतेषु सर्वेषु प्रीतिमान्भव पार्थिव
सत्यमार्जवमक्रोधमानृशंस्यं च पालय

१२.८९.३१एवं दण्डं च कोशं च मित्रं भूमिं च लप्स्यसे
सत्यार्जवपरो राजन्मित्रकोशसमन्वितः