१२. शान्तिपर्व
१२.९०.१भीष्म उवाच

१२.९०.२वनस्पतीन्भक्ष्यफलान्न छिन्द्युर्विषये तव
ब्राह्मणानां मूलफलं धर्म्यमाहुर्मनीषिणः

१२.९०.३ब्राह्मणेभ्योऽतिरिक्तं च भुञ्जीरन्नितरे जनाः
न ब्राह्मणोपरोधेन हरेदन्यः कथंचन

१२.९०.४विप्रश्चेत्त्यागमातिष्ठेदाख्यायावृत्तिकर्शितः
परिकल्प्यास्य वृत्तिः स्यात्सदारस्य नराधिप

१२.९०.५स चेन्नोपनिवर्तेत वाच्यो ब्राह्मणसंसदि
कस्मिन्निदानीं मर्यादामयं लोकः करिष्यति

१२.९०.६असंशयं निवर्तेत न चेद्वक्ष्यत्यतः परम्
पूर्वं परोक्षं कर्तव्यमेतत्कौन्तेय शासनम्

१२.९०.७आहुरेतज्जना ब्रह्मन्न चैतच्छ्रद्दधाम्यहम्
निमन्त्र्यश्च भवेद्भोगैरवृत्त्या चेत्तदाचरेत्

१२.९०.८कृषिगोरक्ष्यवाणिज्यं लोकानामिह जीवनम्
ऊर्ध्वं चैव त्रयी विद्या सा भूतान्भावयत्युत

१२.९०.९तस्यां प्रयतमानायां ये स्युस्तत्परिपन्थिनः
दस्यवस्तद्वधायेह ब्रह्मा क्षत्रमथासृजत्

१२.९०.१०शत्रूञ्जहि प्रजा रक्ष यजस्व क्रतुभिर्नृप
युध्यस्व समरे वीरो भूत्वा कौरवनन्दन

१२.९०.११संरक्ष्यान्पालयेद्राजा यः स राजार्यकृत्तमः
ये केचित्तान्न रक्षन्ति तैरर्थो नास्ति कश्चन

१२.९०.१२सदैव राज्ञा बोद्धव्यं सर्वलोकाद्युधिष्ठिर
तस्माद्धेतोर्हि भुञ्जीत मनुष्यानेव मानवः

१२.९०.१३अन्तरेभ्यः परान्रक्षन्परेभ्यः पुनरन्तरान्
परान्परेभ्यः स्वान्स्वेभ्यः सर्वान्पालय नित्यदा

१२.९०.१४आत्मानं सर्वतो रक्षन्राजा रक्षेत मेदिनीम्
आत्ममूलमिदं सर्वमाहुर्हि विदुषो जनाः

१२.९०.१५किं छिद्रं कोऽनुषङ्गो मे किं वास्त्यविनिपातितम्
कुतो मामास्रवेद्दोष इति नित्यं विचिन्तयेत्

१२.९०.१६गुप्तैश्चारैरनुमतैः पृथिवीमनुचारयेत्
सुनीतं यदि मे वृत्तं प्रशंसन्ति न वा पुनः
कच्चिद्रोचेज्जनपदे कच्चिद्राष्ट्रे च मे यशः

१२.९०.१७धर्मज्ञानां धृतिमतां संग्रामेष्वपलायिनाम्
राष्ट्रं च येऽनुजीवन्ति ये च राज्ञोऽनुजीविनः

१२.९०.१८अमात्यानां च सर्वेषां मध्यस्थानां च सर्वशः
ये च त्वाभिप्रशंसेयुर्निन्देयुरथ वा पुनः
सर्वान्सुपरिणीतांस्तान्कारयेत युधिष्ठिर

१२.९०.१९एकान्तेन हि सर्वेषां न शक्यं तात रोचितुम्
मित्रामित्रमथो मध्यं सर्वभूतेषु भारत

१२.९०.२०तुल्यबाहुबलानां च गुणैरपि निषेविनाम्
कथं स्यादधिकः कश्चित्स तु भुञ्जीत मानवान्

१२.९०.२१ये चरा ह्यचरानद्युरदंष्ट्रान्दंष्ट्रिणस्तथा
आशीविषा इव क्रुद्धा भुजगा भुजगानिव

१२.९०.२२एतेभ्यश्चाप्रमत्तः स्यात्सदा यत्तो युधिष्ठिर
भारुण्डसदृशा ह्येते निपतन्ति प्रमाद्यतः

१२.९०.२३कच्चित्ते वणिजो राष्ट्रे नोद्विजन्ते करार्दिताः
क्रीणन्तो बहु वाल्पेन कान्तारकृतनिश्रमाः

१२.९०.२४कच्चित्कृषिकरा राष्ट्रं न जहत्यतिपीडिताः
ये वहन्ति धुरं राज्ञां संभरन्तीतरानपि

१२.९०.२५इतो दत्तेन जीवन्ति देवाः पितृगणास्तथा
मनुष्योरगरक्षांसि वयांसि पशवस्तथा

१२.९०.२६एषा ते राष्ट्रवृत्तिश्च राष्ट्रगुप्तिश्च भारत
एतमेवार्थमाश्रित्य भूयो वक्ष्यामि पाण्डव