१२.९१.१भीष्म उवाच
१२.९१.२यानङ्गिराः क्षत्रधर्मानुतथ्यो ब्रह्मवित्तमः
मान्धात्रे यौवनाश्वाय प्रीतिमानभ्यभाषत
१२.९१.३स यथानुशशासैनमुतथ्यो ब्रह्मवित्तमः
तत्ते सर्वं प्रवक्ष्यामि निखिलेन युधिष्ठिर
१२.९१.४उतथ्य उवाच
१२.९१.५धर्माय राजा भवति न कामकरणाय तु
मान्धातरेवं जानीहि राजा लोकस्य रक्षिता
१२.९१.६राजा चरति वै धर्मं देवत्वायैव गच्छति
न चेद्धर्मं स चरति नरकायैव गच्छति
१२.९१.७धर्मे तिष्ठन्ति भूतानि धर्मो राजनि तिष्ठति
तं राजा साधु यः शास्ति स राजा पृथिवीपतिः
१२.९१.८राजा परमधर्मात्मा लक्ष्मीवान्पाप उच्यते
देवाश्च गर्हां गच्छन्ति धर्मो नास्तीति चोच्यते
१२.९१.९अधर्मे वर्तमानानामर्थसिद्धिः प्रदृश्यते
तदेव मङ्गलं सर्वं लोकः समनुवर्तते
१२.९१.१०उच्छिद्यते धर्मवृत्तमधर्मो वर्तते महान्
भयमाहुर्दिवारात्रं यदा पापो न वार्यते
१२.९१.११न वेदाननुवर्तन्ति व्रतवन्तो द्विजातयः
न यज्ञांस्तन्वते विप्रा यदा पापो न वार्यते
१२.९१.१२वध्यानामिव सर्वेषां मनो भवति विह्वलम्
मनुष्याणां महाराज यदा पापो न वार्यते
१२.९१.१३उभौ लोकावभिप्रेक्ष्य राजानमृषयः स्वयम्
असृजन्सुमहद्भूतमयं धर्मो भविष्यति
१२.९१.१४यस्मिन्धर्मो विराजेत तं राजानं प्रचक्षते
यस्मिन्विलीयते धर्मस्तं देवा वृषलं विदुः
१२.९१.१५वृषो हि भगवान्धर्मो यस्तस्य कुरुते ह्यलम्
वृषलं तं विदुर्देवास्तस्माद्धर्मं न लोपयेत्
१२.९१.१६धर्मे वर्धति वर्धन्ति सर्वभूतानि सर्वदा
तस्मिन्ह्रसति हीयन्ते तस्माद्धर्मं प्रवर्धयेत्
१२.९१.१७धनात्स्रवति धर्मो हि धारणाद्वेति निश्चयः
अकार्याणां मनुष्येन्द्र स सीमान्तकरः स्मृतः
१२.९१.१८प्रभवार्थं हि भूतानां धर्मः सृष्टः स्वयंभुवा
तस्मात्प्रवर्धयेद्धर्मं प्रजानुग्रहकारणात्
१२.९१.१९तस्माद्धि राजशार्दूल धर्मः श्रेष्ठ इति स्मृतः
स राजा यः प्रजाः शास्ति साधुकृत्पुरुषर्षभः
१२.९१.२०कामक्रोधावनादृत्य धर्ममेवानुपालयेत्
धर्मः श्रेयस्करतमो राज्ञां भरतसत्तम
१२.९१.२१धर्मस्य ब्राह्मणा योनिस्तस्मात्तान्पूजयेत्सदा
ब्राह्मणानां च मान्धातः कामान्कुर्यादमत्सरी
१२.९१.२२तेषां ह्यकामकरणाद्राज्ञः संजायते भयम्
मित्राणि च न वर्धन्ते तथामित्रीभवन्त्यपि
१२.९१.२३ब्राह्मणान्वै तदासूयाद्यदा वैरोचनो बलिः
अथास्माच्छ्रीरपाक्रामद्यास्मिन्नासीत्प्रतापिनी
१२.९१.२४ततस्तस्मादपक्रम्य सागच्छत्पाकशासनम्
अथ सोऽन्वतपत्पश्चाच्छ्रियं दृष्ट्वा पुरंदरे
१२.९१.२५एतत्फलमसूयाया अभिमानस्य चाभिभो
तस्माद्बुध्यस्व मान्धातर्मा त्वा जह्यात्प्रतापिनी
१२.९१.२६दर्पो नाम श्रियः पुत्रो जज्ञेऽधर्मादिति श्रुतिः
तेन देवासुरा राजन्नीताः सुबहुशो वशम्
१२.९१.२७राजर्षयश्च बहवस्तस्माद्बुध्यस्व पार्थिव
राजा भवति तं जित्वा दासस्तेन पराजितः
१२.९१.२८स यथा दर्पसहितमधर्मं नानुसेवसे
तथा वर्तस्व मान्धातश्चिरं चेत्स्थातुमिच्छसि
१२.९१.२९मत्तात्प्रमत्तात्पोगण्डादुन्मत्ताच्च विशेषतः
तदभ्यासादुपावर्तादहितानां च सेवनात्
१२.९१.३०निगृहीतादमात्याच्च स्त्रीभ्यश्चैव विशेषतः
पर्वताद्विषमाद्दुर्गाद्धस्तिनोऽश्वात्सरीसृपात्
१२.९१.३१एतेभ्यो नित्ययत्तः स्यान्नक्तंचर्यां च वर्जयेत्
अत्यायं चातिमानं च दम्भं क्रोधं च वर्जयेत्
१२.९१.३२अविज्ञातासु च स्त्रीषु क्लीबासु स्वैरिणीषु च
परभार्यासु कन्यासु नाचरेन्मैथुनं नृपः
१२.९१.३३कुलेषु पापरक्षांसि जायन्ते वर्णसंकरात्
अपुमांसोऽङ्गहीनाश्च स्थूलजिह्वा विचेतसः
१२.९१.३४एते चान्ये च जायन्ते यदा राजा प्रमाद्यति
तस्माद्राज्ञा विशेषेण वर्तितव्यं प्रजाहिते
१२.९१.३५क्षत्रियस्य प्रमत्तस्य दोषः संजायते महान्
अधर्माः संप्रवर्तन्ते प्रजासंकरकारकाः
१२.९१.३६अशीते विद्यते शीतं शीते शीतं न विद्यते
अवृष्टिरतिवृष्टिश्च व्याधिश्चाविशति प्रजाः
१२.९१.३७नक्षत्राण्युपतिष्ठन्ति ग्रहा घोरास्तथापरे
उत्पाताश्चात्र दृश्यन्ते बहवो राजनाशनाः
१२.९१.३८अरक्षितात्मा यो राजा प्रजाश्चापि न रक्षति
प्रजाश्च तस्य क्षीयन्ते ताश्च सोऽनु विनश्यति
१२.९१.३९द्वावाददाते ह्येकस्य द्वयोश्च बहवोऽपरे
कुमार्यः संप्रलुप्यन्ते तदाहुर्नृपदूषणम्
१२.९१.४०ममैतदिति नैकस्य मनुष्येष्ववतिष्ठते
त्यक्त्वा धर्मं यदा राजा प्रमादमनुतिष्ठति