१३.१.१युधिष्ठिर उवाच
शमो बहुविधाकारः सूक्ष्म उक्तः पितामह
न च मे हृदये शान्तिरस्ति कृत्वेदमीदृशम्
१३.१.२अस्मिन्नर्थे बहुविधा शान्तिरुक्ता त्वयानघ
स्वकृते का नु शान्तिः स्याच्छमाद्बहुविधादपि
१३.१.३शराचितशरीरं हि तीव्रव्रणमुदीक्ष्य च
शमं नोपलभे वीर दुष्कृतान्येव चिन्तयन्
१३.१.४रुधिरेणावसिक्ताङ्गं प्रस्रवन्तं यथाचलम्
त्वां दृष्ट्वा पुरुषव्याघ्र सीदे वर्षास्विवाम्बुजम्
१३.१.५अतः कष्टतरं किं नु मत्कृते यत्पितामहः
इमामवस्थां गमितः प्रत्यमित्रै रणाजिरे
तथैवान्ये नृपतयः सहपुत्राः सबान्धवाः
१३.१.६वयं हि धार्तराष्ट्राश्च कालमन्युवशानुगाः
कृत्वेदं निन्दितं कर्म प्राप्स्यामः कां गतिं नृप
१३.१.७अहं तव ह्यन्तकरः सुहृद्वधकरस्तथा
न शान्तिमधिगच्छामि पश्यंस्त्वां दुःखितं क्षितौ
१३.१.८भीष्म उवाच
१३.१.९परतन्त्रं कथं हेतुमात्मानमनुपश्यसि
कर्मण्यस्मिन्महाभाग सूक्ष्मं ह्येतदतीन्द्रियम्
१३.१.१०अत्राप्युदाहरन्तीममितिहासं पुरातनम्
संवादं मृत्युगौतम्योः काललुब्धकपन्नगैः
१३.१.११गौतमी नाम कौन्तेय स्थविरा शमसंयुता
सर्पेण दष्टं स्वं पुत्रमपश्यद्गतचेतनम्
१३.१.१२अथ तं स्नायुपाशेन बद्ध्वा सर्पममर्षितः
लुब्धकोऽर्जुनको नाम गौतम्याः समुपानयत्
१३.१.१३तां चाब्रवीदयं ते स पुत्रहा पन्नगाधमः
ब्रूहि क्षिप्रं महाभागे वध्यतां केन हेतुना
१३.१.१४अग्नौ प्रक्षिप्यतामेष च्छिद्यतां खण्डशोऽपि वा
न ह्ययं बालहा पापश्चिरं जीवितुमर्हति
१३.१.१५गौतम्युवाच
१३.१.१६विसृजैनमबुद्धिस्त्वं न वध्योऽर्जुनक त्वया
को ह्यात्मानं गुरुं कुर्यात्प्राप्तव्ये सति चिन्तयन्
१३.१.१७प्लवन्ते धर्मलघवो लोकेऽम्भसि यथा प्लवाः
मज्जन्ति पापगुरवः शस्त्रं स्कन्नमिवोदके
१३.१.१८न चामृत्युर्भविता वै हतेऽस्मि;न्को वात्ययः स्यादहतेऽस्मिञ्जनस्य
अस्योत्सर्गे प्राणयुक्तस्य जन्तो;र्मृत्योर्लोकं को नु गच्छेदनन्तम्
१३.१.१९लुब्धक उवाच
१३.१.२०जानाम्येवं नेह गुणागुणज्ञाः; सर्वे नियुक्ता गुरवो वै भवन्ति
स्वस्थस्यैते तूपदेशा भवन्ति; तस्मात्क्षुद्रं सर्पमेनं हनिष्ये
१३.१.२१समीप्सन्तः कालयोगं त्यजन्ति; सद्यः शुचं त्वर्थविदस्त्यजन्ति
श्रेयः क्षयः शोचतां नित्यशो हि; तस्मात्त्याज्यं जहि शोकं हतेऽस्मिन्
१३.१.२२गौतम्युवाच
१३.१.२३न चैवार्तिर्विद्यतेऽस्मद्विधानां; धर्मारामः सततं सज्जनो हि
नित्यायस्तो बालजनो न चास्ति; धर्मो ह्येष प्रभवाम्यस्य नाहम्
१३.१.२४न ब्राह्मणानां कोपोऽस्ति कुतः कोपाच्च यातना
मार्दवात्क्षम्यतां साधो मुच्यतामेष पन्नगः
१३.१.२५लुब्धक उवाच
१३.१.२६हत्वा लाभः श्रेय एवाव्ययं स्या;त्सद्यो लाभो बलवद्भिः प्रशस्तः
कालाल्लाभो यस्तु सद्यो भवेत; हते श्रेयः कुत्सिते त्वीदृशे स्यात्
१३.१.२७गौतम्युवाच
१३.१.२८कार्थप्राप्तिर्गृह्य शत्रुं निहत्य; का वा शान्तिः प्राप्य शत्रुं नमुक्त्वा
कस्मात्सौम्य भुजगे न क्षमेयं; मोक्षं वा किं कारणं नास्य कुर्याम्
१३.१.२९लुब्धक उवाच
१३.१.३०अस्मादेकस्माद्बहवो रक्षितव्या; नैको बहुभ्यो गौतमि रक्षितव्यः
कृतागसं धर्मविदस्त्यजन्ति; सरीसृपं पापमिमं जहि त्वम्
१३.१.३१गौतम्युवाच
१३.१.३२नास्मिन्हते पन्नगे पुत्रको मे; संप्राप्स्यते लुब्धक जीवितं वै
गुणं चान्यं नास्य वधे प्रपश्ये; तस्मात्सर्पं लुब्धक मुञ्च जीवम्
१३.१.३३लुब्धक उवाच
१३.१.३४वृत्रं हत्वा देवराट्श्रेष्ठभाग्वै; यज्ञं हत्वा भागमवाप चैव
शूली देवो देववृत्तं कुरु त्वं; क्षिप्रं सर्पं जहि मा भूद्विशङ्का
१३.१.३५भीष्म उवाच
१३.१.३६असकृत्प्रोच्यमानापि गौतमी भुजगं प्रति
लुब्धकेन महाभागा पापे नैवाकरोन्मतिम्
१३.१.३७ईषदुच्छ्वसमानस्तु कृच्छ्रात्संस्तभ्य पन्नगः
उत्ससर्ज गिरं मन्दां मानुषीं पाशपीडितः
१३.१.३८को न्वर्जुनक दोषोऽत्र विद्यते मम बालिश
अस्वतन्त्रं हि मां मृत्युर्विवशं यदचूचुदत्
१३.१.३९तस्यायं वचनाद्दष्टो न कोपेन न काम्यया
तस्य तत्किल्बिषं लुब्ध विद्यते यदि किल्बिषम्
१३.१.४०लुब्धक उवाच
१३.१.४१यद्यन्यवशगेनेदं कृतं ते पन्नगाशुभम्
कारणं वै त्वमप्यत्र तस्मात्त्वमपि किल्बिषी
१३.१.४२मृत्पात्रस्य क्रियायां हि दण्डचक्रादयो यथा
कारणत्वे प्रकल्प्यन्ते तथा त्वमपि पन्नग
१३.१.४३किल्बिषी चापि मे वध्यः किल्बिषी चासि पन्नग
आत्मानं कारणं ह्यत्र त्वमाख्यासि भुजंगम
१३.१.४४सर्प उवाच
१३.१.४५सर्व एते ह्यस्ववशा दण्डचक्रादयो यथा
तथाहमपि तस्मान्मे नैष हेतुर्मतस्तव
१३.१.४६अथ वा मतमेतत्ते तेऽप्यन्योन्यप्रयोजकाः
कार्यकारणसंदेहो भवत्यन्योन्यचोदनात्
१३.१.४७एवं सति न दोषो मे नास्मि वध्यो न किल्बिषी
किल्बिषं समवाये स्यान्मन्यसे यदि किल्बिषम्
१३.१.४८लुब्धक उवाच
१३.१.४९कारणं यदि न स्याद्वै न कर्ता स्यास्त्वमप्युत
विनाशे कारणं त्वं च तस्माद्वध्योऽसि मे मतः
१३.१.५०असत्यपि कृते कार्ये नेह पन्नग लिप्यते
तस्मान्नात्रैव हेतुः स्याद्वध्यः किं बहु भाषसे
१३.१.५१सर्प उवाच
१३.१.५२कार्याभावे क्रिया न स्यात्सत्यसत्यपि कारणे
तस्मात्त्वमस्मिन्हेतौ मे वाच्यो हेतुर्विशेषतः
१३.१.५३यद्यहं कारणत्वेन मतो लुब्धक तत्त्वतः
अन्यः प्रयोगे स्यादत्र किल्बिषी जन्तुनाशने
१३.१.५४लुब्धक उवाच
१३.१.५५वध्यस्त्वं मम दुर्बुद्धे बालघाती नृशंसकृत्
भाषसे किं बहु पुनर्वध्यः सन्पन्नगाधम
१३.१.५६सर्प उवाच
१३.१.५७यथा हवींषि जुह्वाना मखे वै लुब्धकर्त्विजः
न फलं प्राप्नुवन्त्यत्र परलोके तथा ह्यहम्
१३.१.५८भीष्म उवाच
१३.१.५९तथा ब्रुवति तस्मिंस्तु पन्नगे मृत्युचोदिते
आजगाम ततो मृत्युः पन्नगं चाब्रवीदिदम्
१३.१.६०कालेनाहं प्रणुदितः पन्नग त्वामचूचुदम्
विनाशहेतुर्नास्य त्वमहं वा प्राणिनः शिशोः
१३.१.६१यथा वायुर्जलधरान्विकर्षति ततस्ततः
तद्वज्जलदवत्सर्प कालस्याहं वशानुगः
१३.१.६२सात्त्विका राजसाश्चैव तामसा ये च केचन
भावाः कालात्मकाः सर्वे प्रवर्तन्ते हि जन्तुषु
१३.१.६३जङ्गमाः स्थावराश्चैव दिवि वा यदि वा भुवि
सर्वे कालात्मकाः सर्प कालात्मकमिदं जगत्
१३.१.६४प्रवृत्तयश्च या लोके तथैव च निवृत्तयः
तासां विकृतयो याश्च सर्वं कालात्मकं स्मृतम्
१३.१.६५आदित्यश्चन्द्रमा विष्णुरापो वायुः शतक्रतुः
अग्निः खं पृथिवी मित्र ओषध्यो वसवस्तथा
१३.१.६६सरितः सागराश्चैव भावाभावौ च पन्नग
सर्वे कालेन सृज्यन्ते ह्रियन्ते च तथा पुनः
१३.१.६७एवं ज्ञात्वा कथं मां त्वं सदोषं सर्प मन्यसे
अथ चैवंगते दोषो मयि त्वमपि दोषवान्
१३.१.६८सर्प उवाच
१३.१.६९निर्दोषं दोषवन्तं वा न त्वा मृत्यो ब्रवीम्यहम्
त्वयाहं चोदित इति ब्रवीम्येतावदेव तु
१३.१.७०यदि काले तु दोषोऽस्ति यदि तत्रापि नेष्यते
दोषो नैव परीक्ष्यो मे न ह्यत्राधिकृता वयम्
१३.१.७१निर्मोक्षस्त्वस्य दोषस्य मया कार्यो यथा तथा
मृत्यो विदोषः स्यामेव यथा तन्मे प्रयोजनम्
१३.१.७२भीष्म उवाच
१३.१.७३सर्पोऽथार्जुनकं प्राह श्रुतं ते मृत्युभाषितम्
नानागसं मां पाशेन संतापयितुमर्हसि
१३.१.७४लुब्धक उवाच
१३.१.७५मृत्योः श्रुतं मे वचनं तव चैव भुजंगम
नैव तावद्विदोषत्वं भवति त्वयि पन्नग
१३.१.७६मृत्युस्त्वं चैव हेतुर्हि जन्तोरस्य विनाशने
उभयं कारणं मन्ये न कारणमकारणम्
१३.१.७७धिङ्मृत्युं च दुरात्मानं क्रूरं दुःखकरं सताम्
त्वां चैवाहं वधिष्यामि पापं पापस्य कारणम्
१३.१.७८मृत्युरुवाच
१३.१.७९विवशौ कालवशगावावां तद्दिष्टकारिणौ
नावां दोषेण गन्तव्यौ यदि सम्यक्प्रपश्यसि
१३.१.८०लुब्धक उवाच
१३.१.८१युवामुभौ कालवशौ यदि वै मृत्युपन्नगौ
हर्षक्रोधौ कथं स्यातामेतदिच्छामि वेदितुम्
१३.१.८२मृत्युरुवाच
१३.१.८३याः काश्चिदिह चेष्टाः स्युः सर्वाः कालप्रचोदिताः
पूर्वमेवैतदुक्तं हि मया लुब्धक कालतः
१३.१.८४तस्मादुभौ कालवशावावां तद्दिष्टकारिणौ
नावां दोषेण गन्तव्यौ त्वया लुब्धक कर्हिचित्
१३.१.८५भीष्म उवाच
१३.१.८६अथोपगम्य कालस्तु तस्मिन्धर्मार्थसंशये
अब्रवीत्पन्नगं मृत्युं लुब्धमर्जुनकं च तम्
१३.१.८७काल उवाच
१३.१.८८नैवाहं नाप्ययं मृत्युर्नायं लुब्धक पन्नगः
किल्बिषी जन्तुमरणे न वयं हि प्रयोजकाः
१३.१.८९अकरोद्यदयं कर्म तन्नोऽर्जुनक चोदकम्
प्रणाशहेतुर्नान्योऽस्य वध्यतेऽयं स्वकर्मणा
१३.१.९०यदनेन कृतं कर्म तेनायं निधनं गतः
विनाशहेतुः कर्मास्य सर्वे कर्मवशा वयम्
१३.१.९१कर्मदायादवाँल्लोकः कर्मसंबन्धलक्षणः
कर्माणि चोदयन्तीह यथान्योन्यं तथा वयम्
१३.१.९२यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति
एवमात्मकृतं कर्म मानवः प्रतिपद्यते
१३.१.९३यथा छायातपौ नित्यं सुसंबद्धौ निरन्तरम्
तथा कर्म च कर्ता च संबद्धावात्मकर्मभिः
१३.१.९४एवं नाहं न वै मृत्युर्न सर्पो न तथा भवान्
न चेयं ब्राह्मणी वृद्धा शिशुरेवात्र कारणम्
१३.१.९५तस्मिंस्तथा ब्रुवाणे तु ब्राह्मणी गौतमी नृप
स्वकर्मप्रत्ययाँल्लोकान्मत्वार्जुनकमब्रवीत्
१३.१.९६नैव कालो न भुजगो न मृत्युरिह कारणम्
स्वकर्मभिरयं बालः कालेन निधनं गतः
१३.१.९७मया च तत्कृतं कर्म येनायं मे मृतः सुतः
यातु कालस्तथा मृत्युर्मुञ्चार्जुनक पन्नगम्
१३.१.९८भीष्म उवाच
१३.१.९९ततो यथागतं जग्मुर्मृत्युः कालोऽथ पन्नगः
अभूद्विरोषोऽर्जुनको विशोका चैव गौतमी
१३.१.१००एतच्छ्रुत्वा शमं गच्छ मा भूश्चिन्तापरो नृप
स्वकर्मप्रत्ययाँल्लोकांस्त्रीन्विद्धि मनुजर्षभ
१३.१.१०१न तु त्वया कृतं पार्थ नापि दुर्योधनेन वै
कालेन तत्कृतं विद्धि विहता येन पार्थिवाः
१३.१.१०२वैशंपायन उवाच
१३.१.१०३इत्येतद्वचनं श्रुत्वा बभूव विगतज्वरः
युधिष्ठिरो महातेजाः पप्रच्छेदं च धर्मवित्