१२.३५३.१भीष्म उवाच
१२.३५३.२स चामन्त्र्योरगश्रेष्ठं ब्राह्मणः कृतनिश्चयः
दीक्षाकाङ्क्षी तदा राजंश्च्यवनं भार्गवं श्रितः
१२.३५३.३स तेन कृतसंस्कारो धर्ममेवोपतस्थिवान्
तथैव च कथामेतां राजन्कथितवांस्तदा
१२.३५३.४भार्गवेणापि राजेन्द्र जनकस्य निवेशने
कथैषा कथिता पुण्या नारदाय महात्मने
१२.३५३.५नारदेनापि राजेन्द्र देवेन्द्रस्य निवेशने
कथिता भरतश्रेष्ठ पृष्टेनाक्लिष्टकर्मणा
१२.३५३.६देवराजेन च पुरा कथैषा कथिता शुभा
समस्तेभ्यः प्रशस्तेभ्यो वसुभ्यो वसुधाधिप
१२.३५३.७यदा च मम रामेण युद्धमासीत्सुदारुणम्
वसुभिश्च तदा राजन्कथेयं कथिता मम
१२.३५३.८पृच्छमानाय तत्त्वेन मया तुभ्यं विशां पते
कथेयं कथिता पुण्या धर्म्या धर्मभृतां वर
१२.३५३.९तदेष परमो धर्मो यन्मां पृच्छसि भारत
असन्नधीरनाकाङ्क्षी धर्मार्थकरणे नृप
१२.३५३.१०स च किल कृतनिश्चयो द्विजाग्र्यो; भुजगपतिप्रतिदेशितार्थकृत्यः
यमनियमसमाहितो वनान्तं; परिगणितोञ्छशिलाशनः प्रविष्टः