१३.१०.१युधिष्ठिर उवाच
१३.१०.२मित्रसौहृदभावेन उपदेशं करोति यः
जात्यावरस्य राजर्षे दोषस्तस्य भवेन्न वा
१३.१०.३एतदिच्छामि तत्त्वेन व्याख्यातुं वै पितामह
सूक्ष्मा गतिर्हि धर्मस्य यत्र मुह्यन्ति मानवाः
१३.१०.४भीष्म उवाच
१३.१०.५अत्र ते वर्तयिष्यामि शृणु राजन्यथागमम्
ऋषीणां वदतां पूर्वं श्रुतमासीद्यथा मया
१३.१०.६उपदेशो न कर्तव्यो जातिहीनस्य कस्यचित्
उपदेशे महान्दोष उपाध्यायस्य भाष्यते
१३.१०.७निदर्शनमिदं राजञ्शृणु मे भरतर्षभ
दुरुक्तवचने राजन्यथा पूर्वं युधिष्ठिर
ब्रह्माश्रमपदे वृत्तं पार्श्वे हिमवतः शुभे
१३.१०.८तत्राश्रमपदं पुण्यं नानावृक्षगणायुतम्
बहुगुल्मलताकीर्णं मृगद्विजनिषेवितम्
१३.१०.९सिद्धचारणसंघुष्टं रम्यं पुष्पितकाननम्
व्रतिभिर्बहुभिः कीर्णं तापसैरुपशोभितम्
१३.१०.१०ब्राह्मणैश्च महाभागैः सूर्यज्वलनसंनिभैः
नियमव्रतसंपन्नैः समाकीर्णं तपस्विभिः
दीक्षितैर्भरतश्रेष्ठ यताहारैः कृतात्मभिः
१३.१०.११वेदाध्ययनघोषैश्च नादितं भरतर्षभ
वालखिल्यैश्च बहुभिर्यतिभिश्च निषेवितम्
१३.१०.१२तत्र कश्चित्समुत्साहं कृत्वा शूद्रो दयान्वितः
आगतो ह्याश्रमपदं पूजितश्च तपस्विभिः
१३.१०.१३तांस्तु दृष्ट्वा मुनिगणान्देवकल्पान्महौजसः
वहतो विविधा दीक्षाः संप्रहृष्यत भारत
१३.१०.१४अथास्य बुद्धिरभवत्तपस्ये भरतर्षभ
ततोऽब्रवीत्कुलपतिं पादौ संगृह्य भारत
१३.१०.१५भवत्प्रसादादिच्छामि धर्मं चर्तुं द्विजर्षभ
तन्मां त्वं भगवन्वक्तुं प्रव्राजयितुमर्हसि
१३.१०.१६वर्णावरोऽहं भगवञ्शूद्रो जात्यास्मि सत्तम
शुश्रूषां कर्तुमिच्छामि प्रपन्नाय प्रसीद मे
१३.१०.१७कुलपतिरुवाच
१३.१०.१८न शक्यमिह शूद्रेण लिङ्गमाश्रित्य वर्तितुम्
आस्यतां यदि ते बुद्धिः शुश्रूषानिरतो भव
१३.१०.१९भीष्म उवाच
१३.१०.२०एवमुक्तस्तु मुनिना स शूद्रोऽचिन्तयन्नृप
कथमत्र मया कार्यं श्रद्धा धर्मे परा च मे
विज्ञातमेवं भवतु करिष्ये प्रियमात्मनः
१३.१०.२१गत्वाश्रमपदाद्दूरमुटजं कृतवांस्तु सः
तत्र वेदिं च भूमिं च देवतायतनानि च
निवेश्य भरतश्रेष्ठ नियमस्थोऽभवत्सुखम्
१३.१०.२२अभिषेकांश्च नियमान्देवतायतनेषु च
बलिं च कृत्वा हुत्वा च देवतां चाप्यपूजयत्
१३.१०.२३संकल्पनियमोपेतः फलाहारो जितेन्द्रियः
नित्यं संनिहिताभिश्च ओषधीभिः फलैस्तथा
१३.१०.२४अतिथीन्पूजयामास यथावत्समुपागतान्
एवं हि सुमहान्कालो व्यत्यक्रामत्स तस्य वै
१३.१०.२५अथास्य मुनिरागच्छत्संगत्या वै तमाश्रमम्
संपूज्य स्वागतेनर्षिं विधिवत्पर्यतोषयत्
१३.१०.२६अनुकूलाः कथाः कृत्वा यथावत्पर्यपृच्छत
ऋषिः परमतेजस्वी धर्मात्मा संयतेन्द्रियः
१३.१०.२७एवं स बहुशस्तस्य शूद्रस्य भरतर्षभ
सोऽगच्छदाश्रममृषिः शूद्रं द्रष्टुं नरर्षभ
१३.१०.२८अथ तं तापसं शूद्रः सोऽब्रवीद्भरतर्षभ
पितृकार्यं करिष्यामि तत्र मेऽनुग्रहं कुरु
१३.१०.२९बाढमित्येव तं विप्र उवाच भरतर्षभ
शुचिर्भूत्वा स शूद्रस्तु तस्यर्षेः पाद्यमानयत्
१३.१०.३०अथ दर्भांश्च वन्याश्च ओषधीर्भरतर्षभ
पवित्रमासनं चैव बृसीं च समुपानयत्
१३.१०.३१अथ दक्षिणमावृत्य बृसीं परमशीर्षिकाम्
कृतामन्यायतो दृष्ट्वा ततस्तमृषिरब्रवीत्
१३.१०.३२कुरुष्वैतां पूर्वशीर्षां भव चोदङ्मुखः शुचिः
स च तत्कृतवाञ्शूद्रः सर्वं यदृषिरब्रवीत्
१३.१०.३३यथोपदिष्टं मेधावी दर्भादींस्तान्यथातथम्
हव्यकव्यविधिं कृत्स्नमुक्तं तेन तपस्विना
१३.१०.३४ऋषिणा पितृकार्ये च स च धर्मपथे स्थितः
पितृकार्ये कृते चापि विसृष्टः स जगाम ह
१३.१०.३५अथ दीर्घस्य कालस्य स तप्यञ्शूद्रतापसः
वने पञ्चत्वमगमत्सुकृतेन च तेन वै
अजायत महाराजराजवंशे महाद्युतिः
१३.१०.३६तथैव स ऋषिस्तात कालधर्ममवाप्य ह
पुरोहितकुले विप्र आजातो भरतर्षभ
१३.१०.३७एवं तौ तत्र संभूतावुभौ शूद्रमुनी तदा
क्रमेण वर्धितौ चापि विद्यासु कुशलावुभौ
१३.१०.३८अथर्ववेदे वेदे च बभूवर्षिः सुनिश्चितः
कल्पप्रयोगे चोत्पन्ने ज्योतिषे च परं गतः
सख्ये चापि परा प्रीतिस्तयोश्चापि व्यवर्धत
१३.१०.३९पितर्युपरते चापि कृतशौचः स भारत
अभिषिक्तः प्रकृतिभी राजपुत्रः स पार्थिवः
अभिषिक्तेन स ऋषिरभिषिक्तः पुरोहितः
१३.१०.४०स तं पुरोधाय सुखमवसद्भरतर्षभ
राज्यं शशास धर्मेण प्रजाश्च परिपालयन्
१३.१०.४१पुण्याहवाचने नित्यं धर्मकार्येषु चासकृत्
उत्स्मयन्प्राहसच्चापि दृष्ट्वा राजा पुरोहितम्
एवं स बहुशो राजन्पुरोधसमुपाहसत्
१३.१०.४२लक्षयित्वा पुरोधास्तु बहुशस्तं नराधिपम्
उत्स्मयन्तं च सततं दृष्ट्वासौ मन्युमानभूत्
१३.१०.४३अथ शून्ये पुरोधास्तु सह राज्ञा समागतः
कथाभिरनुकूलाभी राजानमभिरामयत्
१३.१०.४४ततोऽब्रवीन्नरेन्द्रं स पुरोधा भरतर्षभ
वरमिच्छाम्यहं त्वेकं त्वया दत्तं महाद्युते
१३.१०.४५राजोवाच
१३.१०.४६वराणां ते शतं दद्यां किमुतैकं द्विजोत्तम
स्नेहाच्च बहुमानाच्च नास्त्यदेयं हि मे तव
१३.१०.४७पुरोहित उवाच
१३.१०.४८एकं वै वरमिच्छामि यदि तुष्टोऽसि पार्थिव
यद्ददासि महाराज सत्यं तद्वद मानृतम्
१३.१०.४९भीष्म उवाच
१३.१०.५०बाढमित्येव तं राजा प्रत्युवाच युधिष्ठिर
यदि ज्ञास्यामि वक्ष्यामि अजानन्न तु संवदे
१३.१०.५१पुरोहित उवाच
१३.१०.५२पुण्याहवाचने नित्यं धर्मकृत्येषु चासकृत्
शान्तिहोमेषु च सदा किं त्वं हससि वीक्ष्य माम्
१३.१०.५३सव्रीडं वै भवति हि मनो मे हसता त्वया
कामया शापितो राजन्नान्यथा वक्तुमर्हसि
१३.१०.५४भाव्यं हि कारणेनात्र न ते हास्यमकारणम्
कौतूहलं मे सुभृशं तत्त्वेन कथयस्व मे
१३.१०.५५राजोवाच
१३.१०.५६एवमुक्ते त्वया विप्र यदवाच्यं भवेदपि
अवश्यमेव वक्तव्यं शृणुष्वैकमना द्विज
१३.१०.५७पूर्वदेहे यथा वृत्तं तन्निबोध द्विजोत्तम
जातिं स्मराम्यहं ब्रह्मन्नवधानेन मे शृणु
१३.१०.५८शूद्रोऽहमभवं पूर्वं तापसो भृशसंयुतः
ऋषिरुग्रतपास्त्वं च तदाभूर्द्विजसत्तम
१३.१०.५९प्रीयता हि तदा ब्रह्मन्ममानुग्रहबुद्धिना
पितृकार्ये त्वया पूर्वमुपदेशः कृतोऽनघ
बृस्यां दर्भेषु हव्ये च कव्ये च मुनिसत्तम
१३.१०.६०एतेन कर्मदोषेण पुरोधास्त्वमजायथाः
अहं राजा च विप्रेन्द्र पश्य कालस्य पर्ययम्
मत्कृते ह्युपदेशेन त्वया प्राप्तमिदं फलम्
१३.१०.६१एतस्मात्कारणाद्ब्रह्मन्प्रहसे त्वां द्विजोत्तम
न त्वां परिभवन्ब्रह्मन्प्रहसामि गुरुर्भवान्
१३.१०.६२विपर्ययेण मे मन्युस्तेन संतप्यते मनः
जातिं स्मराम्यहं तुभ्यमतस्त्वां प्रहसामि वै
१३.१०.६३एवं तवोग्रं हि तप उपदेशेन नाशितम्
पुरोहितत्वमुत्सृज्य यतस्व त्वं पुनर्भवे
१३.१०.६४इतस्त्वमधमामन्यां मा योनिं प्राप्स्यसे द्विज
गृह्यतां द्रविणं विप्र पूतात्मा भव सत्तम
१३.१०.६५भीष्म उवाच
१३.१०.६६ततो विसृष्टो राज्ञा तु विप्रो दानान्यनेकशः
ब्राह्मणेभ्यो ददौ वित्तं भूमिं ग्रामांश्च सर्वशः
१३.१०.६७कृच्छ्राणि चीर्त्वा च ततो यथोक्तानि द्विजोत्तमः
तीर्थानि चाभिगत्वा वै दानानि विविधानि च
१३.१०.६८दत्त्वा गाश्चैव विप्राणां पूतात्मा सोऽभवद्द्विजः
तमेव चाश्रमं गत्वा चचार विपुलं तपः
१३.१०.६९ततः सिद्धिं परां प्राप्तो ब्राह्मणो राजसत्तम
संमतश्चाभवत्तेषामाश्रमेऽऽश्रमवासिनाम्
१३.१०.७०एवं प्राप्तो महत्कृच्छ्रमृषिः स नृपसत्तम
ब्राह्मणेन न वक्तव्यं तस्माद्वर्णावरे जने
१३.१०.७१वर्जयेदुपदेशं च सदैव ब्राह्मणो नृप
उपदेशं हि कुर्वाणो द्विजः कृच्छ्रमवाप्नुयात्
१३.१०.७२एषितव्यं सदा वाचा नृपेण द्विजसत्तमात्
न प्रवक्तव्यमिह हि किंचिद्वर्णावरे जने
१३.१०.७३ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः
एतेषु कथयन्राजन्ब्राह्मणो न प्रदुष्यति
१३.१०.७४तस्मात्सद्भिर्न वक्तव्यं कस्यचित्किंचिदग्रतः
सूक्ष्मा गतिर्हि धर्मस्य दुर्ज्ञेया ह्यकृतात्मभिः
१३.१०.७५तस्मान्मौनानि मुनयो दीक्षां कुर्वन्ति चादृताः
दुरुक्तस्य भयाद्राजन्नानुभाषन्ति किंचन
१३.१०.७६धार्मिका गुणसंपन्नाः सत्यार्जवपरायणाः
दुरुक्तवाचाभिहताः प्राप्नुवन्तीह दुष्कृतम्
१३.१०.७७उपदेशो न कर्तव्यः कदाचिदपि कस्यचित्
उपदेशाद्धि तत्पापं ब्राह्मणः समवाप्नुयात्
१३.१०.७८विमृश्य तस्मात्प्राज्ञेन वक्तव्यं धर्ममिच्छता
सत्यानृतेन हि कृत उपदेशो हिनस्ति वै
१३.१०.७९वक्तव्यमिह पृष्टेन विनिश्चित्य विपर्ययम्
स चोपदेशः कर्तव्यो येन धर्ममवाप्नुयात्
१३.१०.८०एतत्ते सर्वमाख्यातमुपदेशे कृते सति
महान्क्लेशो हि भवति तस्मान्नोपदिशेत्क्वचित्