१३.११.१युधिष्ठिर उवाच
१३.११.२कीदृशे पुरुषे तात स्त्रीषु वा भरतर्षभ
श्रीः पद्मा वसते नित्यं तन्मे ब्रूहि पितामह
१३.११.३भीष्म उवाच
१३.११.४अत्र ते वर्तयिष्यामि यथादृष्टं यथाश्रुतम्
रुक्मिणी देवकीपुत्रसंनिधौ पर्यपृच्छत
१३.११.५नारायणस्याङ्कगतां ज्वलन्तीं; दृष्ट्वा श्रियं पद्मसमानवक्त्राम्
कौतूहलाद्विस्मितचारुनेत्रा; पप्रच्छ माता मकरध्वजस्य
१३.११.६कानीह भूतान्युपसेवसे त्वं; संतिष्ठती कानि न सेवसे त्वम्
तानि त्रिलोकेश्वरभूतकान्ते; तत्त्वेन मे ब्रूहि महर्षिकन्ये
१३.११.७एवं तदा श्रीरभिभाष्यमाणा; देव्या समक्षं गरुडध्वजस्य
उवाच वाक्यं मधुराभिधानं; मनोहरं चन्द्रमुखी प्रसन्ना
१३.११.८वसामि सत्ये सुभगे प्रगल्भे; दक्षे नरे कर्मणि वर्तमाने
नाकर्मशीले पुरुषे वसामि; न नास्तिके सांकरिके कृतघ्ने
न भिन्नवृत्ते न नृशंसवृत्ते; न चापि चौरे न गुरुष्वसूये
१३.११.९ये चाल्पतेजोबलसत्त्वसारा; हृष्यन्ति कुप्यन्ति च यत्र तत्र
न देवि तिष्ठामि तथाविधेषु; नरेषु संसुप्तमनोरथेषु
१३.११.१०यश्चात्मनि प्रार्थयते न किंचि;द्यश्च स्वभावोपहतान्तरात्मा
तेष्वल्पसंतोषरतेषु नित्यं; नरेषु नाहं निवसामि देवि
१३.११.११वसामि धर्मशीलेषु धर्मज्ञेषु महात्मसु
वृद्धसेविषु दान्तेषु सत्त्वज्ञेषु महात्मसु
१३.११.१२स्त्रीषु क्षान्तासु दान्तासु देवद्विजपरासु च
वसामि सत्यशीलासु स्वभावनिरतासु च
१३.११.१३प्रकीर्णभाण्डामनवेक्ष्यकारिणीं; सदा च भर्तुः प्रतिकूलवादिनीम्
परस्य वेश्माभिरतामलज्जा;मेवंविधां स्त्रीं परिवर्जयामि
१३.११.१४लोलामचोक्षामवलेहिनीं च; व्यपेतधैर्यां कलहप्रियां च
निद्राभिभूतां सततं शयाना;मेवंविधां स्त्रीं परिवर्जयामि
१३.११.१५सत्यासु नित्यं प्रियदर्शनासु; सौभाग्ययुक्तासु गुणान्वितासु
वसामि नारीषु पतिव्रतासु; कल्याणशीलासु विभूषितासु
१३.११.१६यानेषु कन्यासु विभूषणेषु; यज्ञेषु मेघेषु च वृष्टिमत्सु
वसामि फुल्लासु च पद्मिनीषु; नक्षत्रवीथीषु च शारदीषु
१३.११.१७शैलेषु गोष्ठेषु तथा वनेषु; सरःसु फुल्लोत्पलपङ्कजेषु
नदीषु हंसस्वननादितासु; क्रौञ्चावघुष्टस्वरशोभितासु
१३.११.१८विस्तीर्णकूलह्रदशोभितासु; तपस्विसिद्धद्विजसेवितासु
वसामि नित्यं सुबहूदकासु; सिंहैर्गजैश्चाकुलितोदकासु
मत्ते गजे गोवृषभे नरेन्द्रे; सिंहासने सत्पुरुषे च नित्यम्
१३.११.१९यस्मिन्गृहे हूयते हव्यवाहो; गोब्राह्मणश्चार्च्यते देवताश्च
काले च पुष्पैर्बलयः क्रियन्ते; तस्मिन्गृहे नित्यमुपैमि वासम्
१३.११.२०स्वाध्यायनित्येषु द्विजेषु नित्यं; क्षत्रे च धर्माभिरते सदैव
वैश्ये च कृष्याभिरते वसामि; शूद्रे च शुश्रूषणनित्ययुक्ते
१३.११.२१नारायणे त्वेकमना वसामि; सर्वेण भावेन शरीरभूता
तस्मिन्हि धर्मः सुमहान्निविष्टो; ब्रह्मण्यता चात्र तथा प्रियत्वम्
१३.११.२२नाहं शरीरेण वसामि देवि; नैवं मया शक्यमिहाभिधातुम्
यस्मिंस्तु भावेन वसामि पुंसि; स वर्धते धर्मयशोर्थकामैः