१३. अनुशासनपर्व
१३.११५.१वैशंपायन उवाच

१३.११५.२ततो युधिष्ठिरो राजा शरतल्पे पितामहम्
पुनरेव महातेजाः पप्रच्छ वदतां वरम्

१३.११५.३ऋषयो ब्राह्मणा देवाः प्रशंसन्ति महामते
अहिंसालक्षणं धर्मं वेदप्रामाण्यदर्शनात्

१३.११५.४कर्मणा मनुजः कुर्वन्हिंसां पार्थिवसत्तम
वाचा च मनसा चैव कथं दुःखात्प्रमुच्यते

१३.११५.५भीष्म उवाच

१३.११५.६चतुर्विधेयं निर्दिष्टा अहिंसा ब्रह्मवादिभिः
एषैकतोऽपि विभ्रष्टा न भवत्यरिसूदन

१३.११५.७यथा सर्वश्चतुष्पादस्त्रिभिः पादैर्न तिष्ठति
तथैवेयं महीपाल प्रोच्यते कारणैस्त्रिभिः

१३.११५.८यथा नागपदेऽन्यानि पदानि पदगामिनाम्
सर्वाण्येवापिधीयन्ते पदजातानि कौञ्जरे
एवं लोकेष्वहिंसा तु निर्दिष्टा धर्मतः परा

१३.११५.९कर्मणा लिप्यते जन्तुर्वाचा च मनसैव च

१३.११५.१०पूर्वं तु मनसा त्यक्त्वा तथा वाचाथ कर्मणा
त्रिकारणं तु निर्दिष्टं श्रूयते ब्रह्मवादिभिः

१३.११५.११मनोवाचि तथास्वादे दोषा ह्येषु प्रतिष्ठिताः
न भक्षयन्त्यतो मांसं तपोयुक्ता मनीषिणः

१३.११५.१२दोषांस्तु भक्षणे राजन्मांसस्येह निबोध मे
पुत्रमांसोपमं जानन्खादते यो विचेतनः

१३.११५.१३मातापितृसमायोगे पुत्रत्वं जायते यथा
रसं च प्रति जिह्वायाः प्रज्ञानं जायते तथा
तथा शास्त्रेषु नियतं रागो ह्यास्वादिताद्भवेत्

१३.११५.१४असंस्कृताः संस्कृताश्च लवणालवणास्तथा
प्रज्ञायन्ते यथा भावास्तथा चित्तं निरुध्यते

१३.११५.१५भेरीशङ्खमृदङ्गाद्यांस्तन्त्रीशब्दांश्च पुष्कलान्
निषेविष्यन्ति वै मन्दा मांसभक्षाः कथं नराः

१३.११५.१६अचिन्तितमनुद्दिष्टमसंकल्पितमेव च
रसं गृद्ध्याभिभूता वै प्रशंसन्ति फलार्थिनः
प्रशंसा ह्येव मांसस्य दोषकर्मफलान्विता

१३.११५.१७जीवितं हि परित्यज्य बहवः साधवो जनाः
स्वमांसैः परमांसानि परिपाल्य दिवं गताः

१३.११५.१८एवमेषा महाराज चतुर्भिः कारणैर्वृता
अहिंसा तव निर्दिष्टा सर्वधर्मार्थसंहिता