१३.११४.१युधिष्ठिर उवाच
१३.११४.२अहिंसा वैदिकं कर्म ध्यानमिन्द्रियसंयमः
तपोऽथ गुरुशुश्रूषा किं श्रेयः पुरुषं प्रति
१३.११४.३बृहस्पतिरुवाच
१३.११४.४सर्वाण्येतानि धर्मस्य पृथग्द्वाराणि सर्वशः
शृणु संकीर्त्यमानानि षडेव भरतर्षभ
१३.११४.५हन्त निःश्रेयसं जन्तोरहं वक्ष्याम्यनुत्तमम्
अहिंसापाश्रयं धर्मं यः साधयति वै नरः
१३.११४.६त्रीन्दोषान्सर्वभूतेषु निधाय पुरुषः सदा
कामक्रोधौ च संयम्य ततः सिद्धिमवाप्नुते
१३.११४.७अहिंसकानि भूतानि दण्डेन विनिहन्ति यः
आत्मनः सुखमन्विच्छन्न स प्रेत्य सुखी भवेत्
१३.११४.८आत्मोपमश्च भूतेषु यो वै भवति पूरुषः
न्यस्तदण्डो जितक्रोधः स प्रेत्य सुखमेधते
१३.११४.९सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः
देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः
१३.११४.१०न तत्परस्य संदद्यात्प्रतिकूलं यदात्मनः
एष संक्षेपतो धर्मः कामादन्यः प्रवर्तते
१३.११४.११प्रत्याख्याने च दाने च सुखदुःखे प्रियाप्रिये
आत्मौपम्येन पुरुषः समाधिमधिगच्छति
१३.११४.१२यथा परः प्रक्रमतेऽपरेषु; तथापरः प्रक्रमते परस्मिन्
एषैव तेऽस्तूपमा जीवलोके; यथा धर्मो नैपुणेनोपदिष्टः
१३.११४.१३वैशंपायन उवाच
१३.११४.१४इत्युक्त्वा तं सुरगुरुर्धर्मराजं युधिष्ठिरम्
दिवमाचक्रमे धीमान्पश्यतामेव नस्तदा