१३.११७.१युधिष्ठिर उवाच
१३.११७.२इमे वै मानवा लोके भृशं मांसस्य गृद्धिनः
विसृज्य भक्षान्विविधान्यथा रक्षोगणास्तथा
१३.११७.३नापूपान्विविधाकाराञ्शाकानि विविधानि च
षाडवान्रसयोगांश्च तथेच्छन्ति यथामिषम्
१३.११७.४तत्र मे बुद्धिरत्रैव विसर्गे परिमुह्यते
न मन्ये रसतः किंचिन्मांसतोऽस्तीह किंचन
१३.११७.५तदिच्छामि गुणाञ्श्रोतुं मांसस्याभक्षणेऽपि वा
भक्षणे चैव ये दोषास्तांश्चैव पुरुषर्षभ
१३.११७.६सर्वं तत्त्वेन धर्मज्ञ यथावदिह धर्मतः
किं वा भक्ष्यमभक्ष्यं वा सर्वमेतद्वदस्व मे
१३.११७.७भीष्म उवाच
१३.११७.८एवमेतन्महाबाहो यथा वदसि भारत
न मांसात्परमत्रान्यद्रसतो विद्यते भुवि
१३.११७.९क्षतक्षीणाभितप्तानां ग्राम्यधर्मरताश्च ये
अध्वना कर्शितानां च न मांसाद्विद्यते परम्
१३.११७.१०सद्यो वर्धयति प्राणान्पुष्टिमग्र्यां ददाति च
न भक्षोऽभ्यधिकः कश्चिन्मांसादस्ति परंतप
१३.११७.११विवर्जने तु बहवो गुणाः कौरवनन्दन
ये भवन्ति मनुष्याणां तान्मे निगदतः शृणु
१३.११७.१२स्वमांसं परमांसैर्यो विवर्धयितुमिच्छति
नास्ति क्षुद्रतरस्तस्मान्न नृशंसतरो नरः
१३.११७.१३न हि प्राणात्प्रियतरं लोके किंचन विद्यते
तस्माद्दयां नरः कुर्याद्यथात्मनि तथा परे
१३.११७.१४शुक्राच्च तात संभूतिर्मांसस्येह न संशयः
भक्षणे तु महान्दोषो वधेन सह कल्पते
१३.११७.१५अहिंसालक्षणो धर्म इति वेदविदो विदुः
यदहिंस्रं भवेत्कर्म तत्कुर्यादात्मवान्नरः
१३.११७.१६पितृदैवतयज्ञेषु प्रोक्षितं हविरुच्यते
विधिना वेददृष्टेन तद्भुक्त्वेह न दुष्यति
१३.११७.१७यज्ञार्थे पशवः सृष्टा इत्यपि श्रूयते श्रुतिः
अतोऽन्यथा प्रवृत्तानां राक्षसो विधिरुच्यते
१३.११७.१८क्षत्रियाणां तु यो दृष्टो विधिस्तमपि मे शृणु
वीर्येणोपार्जितं मांसं यथा खादन्न दुष्यति
१३.११७.१९आरण्याः सर्वदैवत्याः प्रोक्षिताः सर्वशो मृगाः
अगस्त्येन पुरा राजन्मृगया येन पूज्यते
१३.११७.२०नात्मानमपरित्यज्य मृगया नाम विद्यते
समतामुपसंगम्य रूपं हन्यान्न वा नृप
१३.११७.२१अतो राजर्षयः सर्वे मृगयां यान्ति भारत
लिप्यन्ते न हि दोषेण न चैतत्पातकं विदुः
१३.११७.२२न हि तत्परमं किंचिदिह लोके परत्र च
यत्सर्वेष्विह लोकेषु दया कौरवनन्दन
१३.११७.२३न भयं विद्यते जातु नरस्येह दयावतः
दयावतामिमे लोकाः परे चापि तपस्विनाम्
१३.११७.२४अभयं सर्वभूतेभ्यो यो ददाति दयापरः
अभयं तस्य भूतानि ददतीत्यनुशुश्रुमः
१३.११७.२५क्षतं च स्खलितं चैव पतितं क्लिष्टमाहतम्
सर्वभूतानि रक्षन्ति समेषु विषमेषु च
१३.११७.२६नैनं व्यालमृगा घ्नन्ति न पिशाचा न राक्षसाः
मुच्यन्ते भयकालेषु मोक्षयन्ति च ये परान्
१३.११७.२७प्राणदानात्परं दानं न भूतं न भविष्यति
न ह्यात्मनः प्रियतरः कश्चिदस्तीति निश्चितम्
१३.११७.२८अनिष्टं सर्वभूतानां मरणं नाम भारत
मृत्युकाले हि भूतानां सद्यो जायति वेपथुः
१३.११७.२९जातिजन्मजरादुःखे नित्यं संसारसागरे
जन्तवः परिवर्तन्ते मरणादुद्विजन्ति च
१३.११७.३०गर्भवासेषु पच्यन्ते क्षाराम्लकटुकै रसैः
मूत्रश्लेष्मपुरीषाणां स्पर्शैश्च भृशदारुणैः
१३.११७.३१जाताश्चाप्यवशास्तत्र भिद्यमानाः पुनः पुनः
पाट्यमानाश्च दृश्यन्ते विवशा मांसगृद्धिनः
१३.११७.३२कुम्भीपाके च पच्यन्ते तां तां योनिमुपागताः
आक्रम्य मार्यमाणाश्च भ्राम्यन्ते वै पुनः पुनः
१३.११७.३३नात्मनोऽस्ति प्रियतरः पृथिव्यामनुसृत्य ह
तस्मात्प्राणिषु सर्वेषु दयावानात्मवान्भवेत्
१३.११७.३४सर्वमांसानि यो राजन्यावज्जीवं न भक्षयेत्
स्वर्गे स विपुलं स्थानं प्राप्नुयान्नात्र संशयः
१३.११७.३५ये भक्षयन्ति मांसानि भूतानां जीवितैषिणाम्
भक्ष्यन्ते तेऽपि तैर्भूतैरिति मे नास्ति संशयः
१३.११७.३६मां स भक्षयते यस्माद्भक्षयिष्ये तमप्यहम्
एतन्मांसस्य मांसत्वमतो बुध्यस्व भारत
१३.११७.३७घातको वध्यते नित्यं तथा वध्येत बन्धकः
आक्रोष्टाक्रुश्यते राजन्द्वेष्टा द्वेष्यत्वमाप्नुते
१३.११७.३८येन येन शरीरेण यद्यत्कर्म करोति यः
तेन तेन शरीरेण तत्तत्फलमुपाश्नुते
१३.११७.३९अहिंसा परमो धर्मस्तथाहिंसा परो दमः
अहिंसा परमं दानमहिंसा परमं तपः
१३.११७.४०अहिंसा परमो यज्ञस्तथाहिंसा परं बलम्
अहिंसा परमं मित्रमहिंसा परमं सुखम्
अहिंसा परमं सत्यमहिंसा परमं श्रुतम्
१३.११७.४१सर्वयज्ञेषु वा दानं सर्वतीर्थेषु चाप्लुतम्
सर्वदानफलं वापि नैतत्तुल्यमहिंसया
१३.११७.४२अहिंस्रस्य तपोऽक्षय्यमहिंस्रो यजते सदा
अहिंस्रः सर्वभूतानां यथा माता यथा पिता
१३.११७.४३एतत्फलमहिंसाया भूयश्च कुरुपुंगव
न हि शक्या गुणा वक्तुमिह वर्षशतैरपि