१३. अनुशासनपर्व
१३.११८.१युधिष्ठिर उवाच

१३.११८.२अकामाश्च सकामाश्च हता येऽस्मिन्महाहवे
कां योनिं प्रतिपन्नास्ते तन्मे ब्रूहि पितामह

१३.११८.३दुःखं प्राणपरित्यागः पुरुषाणां महामृधे
जानामि तत्त्वं धर्मज्ञ प्राणत्यागं सुदुष्करम्

१३.११८.४समृद्धे वासमृद्धे वा शुभे वा यदि वाशुभे
कारणं तत्र मे ब्रूहि सर्वज्ञो ह्यसि मे मतः

१३.११८.५भीष्म उवाच

१३.११८.६समृद्धे वासमृद्धे वा शुभे वा यदि वाशुभे
संसारेऽस्मिन्समाजाताः प्राणिनः पृथिवीपते

१३.११८.७निरता येन भावेन तत्र मे शृणु कारणम्
सम्यक्चायमनुप्रश्नस्त्वयोक्तश्च युधिष्ठिर

१३.११८.८अत्र ते वर्तयिष्यामि पुरावृत्तमिदं नृप
द्वैपायनस्य संवादं कीटस्य च युधिष्ठिर

१३.११८.९ब्रह्मभूतश्चरन्विप्रः कृष्णद्वैपायनः पुरा
ददर्श कीटं धावन्तं शीघ्रं शकटवर्त्मनि

१३.११८.१०गतिज्ञः सर्वभूतानां रुतज्ञश्च शरीरिणाम्
सर्वज्ञः सर्वतो दृष्ट्वा कीटं वचनमब्रवीत्

१३.११८.११कीट संत्रस्तरूपोऽसि त्वरितश्चैव लक्ष्यसे
क्व धावसि तदाचक्ष्व कुतस्ते भयमागतम्

१३.११८.१२कीट उवाच

१३.११८.१३शकटस्यास्य महतो घोषं श्रुत्वा भयं मम
आगतं वै महाबुद्धे स्वन एष हि दारुणः
श्रूयते न स मां हन्यादिति तस्मादपाक्रमे

१३.११८.१४श्वसतां च शृणोम्येवं गोपुत्राणां प्रचोद्यताम्
वहतां सुमहाभारं संनिकर्षे स्वनं प्रभो
नृणां च संवाहयतां श्रूयते विविधः स्वनः

१३.११८.१५सोढुमस्मद्विधेनैष न शक्यः कीटयोनिना
तस्मादपक्रमाम्येष भयादस्मात्सुदारुणात्

१३.११८.१६दुःखं हि मृत्युर्भूतानां जीवितं च सुदुर्लभम्
अतो भीतः पलायामि गच्छेयं नासुखं सुखात्

१३.११८.१७भीष्म उवाच

१३.११८.१८इत्युक्तः स तु तं प्राह कुतः कीट सुखं तव
मरणं ते सुखं मन्ये तिर्यग्योनौ हि वर्तसे

१३.११८.१९शब्दं स्पर्शं रसं गन्धं भोगांश्चोच्चावचान्बहून्
नाभिजानासि कीट त्वं श्रेयो मरणमेव ते

१३.११८.२०कीट उवाच

१३.११८.२१सर्वत्र निरतो जीव इतीहापि सुखं मम
चेतयामि महाप्राज्ञ तस्मादिच्छामि जीवितुम्

१३.११८.२२इहापि विषयः सर्वो यथादेहं प्रवर्तितः
मानुषास्तिर्यगाश्चैव पृथग्भोगा विशेषतः

१३.११८.२३अहमासं मनुष्यो वै शूद्रो बहुधनः पुरा
अब्रह्मण्यो नृशंसश्च कदर्यो वृद्धिजीवनः

१३.११८.२४वाक्तीक्ष्णो निकृतिप्रज्ञो मोष्टा विश्वस्य सर्वशः
मिथःकृतोऽपनिधनः परस्वहरणे रतः

१३.११८.२५भृत्यातिथिजनश्चापि गृहे पर्युषितो मया
मात्सर्यात्स्वादुकामेन नृशंसेन बुभूषता

१३.११८.२६देवार्थं पितृयज्ञार्थमन्नं श्रद्धाकृतं मया
न दत्तमर्थकामेन देयमन्नं पुनाति ह

१३.११८.२७गुप्तं शरणमाश्रित्य भयेषु शरणागताः
अकस्मान्नो भयात्त्यक्ता न च त्राताभयैषिणः

१३.११८.२८धनं धान्यं प्रियान्दारान्यानं वासस्तथाद्भुतम्
श्रियं दृष्ट्वा मनुष्याणामसूयामि निरर्थकम्

१३.११८.२९ईर्ष्युः परसुखं दृष्ट्वा आतताय्यबुभूषकः
त्रिवर्गहन्ता चान्येषामात्मकामानुवर्तकः

१३.११८.३०नृशंसगुणभूयिष्ठं पुरा कर्म कृतं मया
स्मृत्वा तदनुतप्येऽहं त्यक्त्वा प्रियमिवात्मजम्

१३.११८.३१शुभानामपि जानामि कृतानां कर्मणां फलम्
माता च पूजिता वृद्धा ब्राह्मणश्चार्चितो मया

१३.११८.३२सकृज्जातिगुणोपेतः संगत्या गृहमागतः
अतिथिः पूजितो ब्रह्मंस्तेन मां नाजहात्स्मृतिः

१३.११८.३३कर्मणा तेन चैवाहं सुखाशामिह लक्षये
तच्छ्रोतुमहमिच्छामि त्वत्तः श्रेयस्तपोधन