१३.१२३.१भीष्म उवाच
१३.१२३.२एवमुक्तः स भगवान्मैत्रेयं प्रत्यभाषत
दिष्ट्यैवं त्वं विजानासि दिष्ट्या ते बुद्धिरीदृशी
लोको ह्ययं गुणानेव भूयिष्ठं स्म प्रशंसति
१३.१२३.३रूपमानवयोमानश्रीमानाश्चाप्यसंशयम्
दिष्ट्या नाभिभवन्ति त्वां दैवस्तेऽयमनुग्रहः
यत्ते भृशतरं दानाद्वर्तयिष्यामि तच्छृणु
१३.१२३.४यानीहागमशास्त्राणि याश्च काश्चित्प्रवृत्तयः
तानि वेदं पुरस्कृत्य प्रवृत्तानि यथाक्रमम्
१३.१२३.५अहं दानं प्रशंसामि भवानपि तपःश्रुते
तपः पवित्रं वेदस्य तपः स्वर्गस्य साधनम्
१३.१२३.६तपसा महदाप्नोति विद्यया चेति नः श्रुतम्
तपसैव चापनुदेद्यच्चान्यदपि दुष्कृतम्
१३.१२३.७यद्यद्धि किंचित्संधाय पुरुषस्तप्यते तपः
सर्वमेतदवाप्नोति ब्राह्मणो वेदपारगः
१३.१२३.८दुरन्वयं दुष्प्रधृष्यं दुरापं दुरतिक्रमम्
सर्वं वै तपसाभ्येति तपो हि बलवत्तरम्
१३.१२३.९सुरापोऽसंमतादायी भ्रूणहा गुरुतल्पगः
तपसा तरते सर्वमेनसश्च प्रमुच्यते
१३.१२३.१०सर्वविद्यस्तु चक्षुष्मानपि यादृशतादृशः
तपस्विनौ च तावाहुस्ताभ्यां कार्यं सदा नमः
१३.१२३.११सर्वे पूज्याः श्रुतधनास्तथैव च तपस्विनः
दानप्रदाः सुखं प्रेत्य प्राप्नुवन्तीह च श्रियम्
१३.१२३.१२इमं च ब्रह्मलोकं च लोकं च बलवत्तरम्
अन्नदानैः सुकृतिनः प्रतिपद्यन्ति लौकिकाः
१३.१२३.१३पूजिताः पूजयन्त्येतान्मानिता मानयन्ति च
अदाता यत्र यत्रैति सर्वतः संप्रणुद्यते
१३.१२३.१४अकर्ता चैव कर्ता च लभते यस्य यादृशम्
यद्येवोर्ध्वं यद्यवाक्च त्वं लोकमभियास्यसि
१३.१२३.१५प्राप्स्यसे त्वन्नपानानि यानि दास्यसि कानिचित्
मेधाव्यसि कुले जातः श्रुतवाननृशंसवान्
१३.१२३.१६कौमारदारव्रतवान्मैत्रेय निरतो भव
एतद्गृहाण प्रथमं प्रशस्तं गृहमेधिनाम्
१३.१२३.१७यो भर्ता वासितातुष्टो भर्तुस्तुष्टा च वासिता
यस्मिन्नेवं कुले सर्वं कल्याणं तत्र वर्तते
१३.१२३.१८अद्भिर्गात्रान्मलमिव तमोऽग्निप्रभया यथा
दानेन तपसा चैव सर्वपापमपोह्यते
१३.१२३.१९स्वस्ति प्राप्नुहि मैत्रेय गृहान्साधु व्रजाम्यहम्
एतन्मनसि कर्तव्यं श्रेय एवं भविष्यति
१३.१२३.२०तं प्रणम्याथ मैत्रेयः कृत्वा चाभिप्रदक्षिणम्
स्वस्ति प्राप्नोतु भगवानित्युवाच कृताञ्जलिः