१३.१३.१युधिष्ठिर उवाच
१३.१३.२किं कर्तव्यं मनुष्येण लोकयात्राहितार्थिना
कथं वै लोकयात्रां तु किंशीलश्च समाचरेत्
१३.१३.३भीष्म उवाच
१३.१३.४कायेन त्रिविधं कर्म वाचा चापि चतुर्विधम्
मनसा त्रिविधं चैव दश कर्मपथांस्त्यजेत्
१३.१३.५प्राणातिपातं स्तैन्यं च परदारमथापि च
त्रीणि पापानि कायेन सर्वतः परिवर्जयेत्
१३.१३.६असत्प्रलापं पारुष्यं पैशुन्यमनृतं तथा
चत्वारि वाचा राजेन्द्र न जल्पेन्नानुचिन्तयेत्
१३.१३.७अनभिध्या परस्वेषु सर्वसत्त्वेषु सौहृदम्
कर्मणां फलमस्तीति त्रिविधं मनसा चरेत्
१३.१३.८तस्माद्वाक्कायमनसा नाचरेदशुभं नरः
शुभाशुभान्याचरन्हि तस्य तस्याश्नुते फलम्