१३. अनुशासनपर्व
१३.१३६.१युधिष्ठिर उवाच

१३.१३६.२के पूज्याः के नमस्कार्याः कथं वर्तेत केषु च
किमाचारः कीदृशेषु पितामह न रिष्यते

१३.१३६.३भीष्म उवाच

१३.१३६.४ब्राह्मणानां परिभवः सादयेदपि देवताः
ब्राह्मणानां नमस्कर्ता युधिष्ठिर न रिष्यते

१३.१३६.५ते पूज्यास्ते नमस्कार्या वर्तेथास्तेषु पुत्रवत्
ते हि लोकानिमान्सर्वान्धारयन्ति मनीषिणः

१३.१३६.६ब्राह्मणाः सर्वलोकानां महान्तो धर्मसेतवः
धनत्यागाभिरामाश्च वाक्संयमरताश्च ये

१३.१३६.७रमणीयाश्च भूतानां निधानं च धृतव्रताः
प्रणेतारश्च लोकानां शास्त्राणां च यशस्विनः

१३.१३६.८तपो येषां धनं नित्यं वाक्चैव विपुलं बलम्
प्रभवश्चापि धर्माणां धर्मज्ञाः सूक्ष्मदर्शिनः

१३.१३६.९धर्मकामाः स्थिता धर्मे सुकृतैर्धर्मसेतवः
यानुपाश्रित्य जीवन्ति प्रजाः सर्वाश्चतुर्विधाः

१३.१३६.१०पन्थानः सर्वनेतारो यज्ञवाहाः सनातनाः
पितृपैतामहीं गुर्वीमुद्वहन्ति धुरं सदा

१३.१३६.११धुरि ये नावसीदन्ति विषमे सद्गवा इव
पितृदेवातिथिमुखा हव्यकव्याग्रभोजिनः

१३.१३६.१२भोजनादेव ये लोकांस्त्रायन्ते महतो भयात्
दीपाः सर्वस्य लोकस्य चक्षुश्चक्षुष्मतामपि

१३.१३६.१३सर्वशिल्पादिनिधयो निपुणाः सूक्ष्मदर्शिनः
गतिज्ञाः सर्वभूतानामध्यात्मगतिचिन्तकाः

१३.१३६.१४आदिमध्यावसानानां ज्ञातारश्छिन्नसंशयाः
परावरविशेषज्ञा गन्तारः परमां गतिम्

१३.१३६.१५विमुक्ता धुतपाप्मानो निर्द्वंद्वा निष्परिग्रहाः
मानार्हा मानिता नित्यं ज्ञानविद्भिर्महात्मभिः

१३.१३६.१६चन्दने मलपङ्के च भोजनेऽभोजने समाः
समं येषां दुकूलं च शाणक्षौमाजिनानि च

१३.१३६.१७तिष्ठेयुरप्यभुञ्जाना बहूनि दिवसान्यपि
शोषयेयुश्च गात्राणि स्वाध्यायैः संयतेन्द्रियाः

१३.१३६.१८अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम्
लोकानन्यान्सृजेयुश्च लोकपालांश्च कोपिताः

१३.१३६.१९अपेयः सागरो येषामभिशापान्महात्मनाम्
येषां कोपाग्निरद्यापि दण्डके नोपशाम्यति

१३.१३६.२०देवानामपि ये देवाः कारणं कारणस्य च
प्रमाणस्य प्रमाणं च कस्तानभिभवेद्बुधः

१३.१३६.२१येषां वृद्धश्च बालश्च सर्वः संमानमर्हति
तपोविद्याविशेषात्तु मानयन्ति परस्परम्

१३.१३६.२२अविद्वान्ब्राह्मणो देवः पात्रं वै पावनं महत्
विद्वान्भूयस्तरो देवः पूर्णसागरसंनिभः

१३.१३६.२३अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत्
प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत्

१३.१३६.२४श्मशाने ह्यपि तेजस्वी पावको नैव दुष्यति
हविर्यज्ञेषु च वहन्भूय एवाभिशोभते

१३.१३६.२५एवं यद्यप्यनिष्टेषु वर्तते सर्वकर्मसु
सर्वथा ब्राह्मणो मान्यो दैवतं विद्धि तत्परम्