१३. अनुशासनपर्व
१३.१३७.१युधिष्ठिर उवाच

१३.१३७.२कां तु ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा जनाधिप
कं वा कर्मोदयं मत्वा तानर्चसि महामते

१३.१३७.३भीष्म उवाच

१३.१३७.४अत्राप्युदाहरन्तीममितिहासं पुरातनम्
पवनस्य च संवादमर्जुनस्य च भारत

१३.१३७.५सहस्रभुजभृच्छ्रीमान्कार्तवीर्योऽभवत्प्रभुः
अस्य लोकस्य सर्वस्य माहिष्मत्यां महाबलः

१३.१३७.६स तु रत्नाकरवतीं सद्वीपां सागराम्बराम्
शशास सर्वां पृथिवीं हैहयः सत्यविक्रमः

१३.१३७.७स्ववित्तं तेन दत्तं तु दत्तात्रेयाय कारणे
क्षत्रधर्मं पुरस्कृत्य विनयं श्रुतमेव च

१३.१३७.८आराधयामास च तं कृतवीर्यात्मजो मुनिम्
न्यमन्त्रयत संहृष्टः स द्विजश्च वरैस्त्रिभिः

१३.१३७.९स वरैश्छन्दितस्तेन नृपो वचनमब्रवीत्
सहस्रबाहुर्भूयां वै चमूमध्ये गृहेऽन्यथा

१३.१३७.१०मम बाहुसहस्रं तु पश्यन्तां सैनिका रणे
विक्रमेण महीं कृत्स्नां जयेयं विपुलव्रत
तां च धर्मेण संप्राप्य पालयेयमतन्द्रितः

१३.१३७.११चतुर्थं तु वरं याचे त्वामहं द्विजसत्तम
तं ममानुग्रहकृते दातुमर्हस्यनिन्दित
अनुशासन्तु मां सन्तो मिथ्यावृत्तं तदाश्रयम्

१३.१३७.१२इत्युक्तः स द्विजः प्राह तथास्त्विति नराधिपम्
एवं समभवंस्तस्य वरास्ते दीप्ततेजसः

१३.१३७.१३ततः स रथमास्थाय ज्वलनार्कसमद्युतिः
अब्रवीद्वीर्यसंमोहात्को न्वस्ति सदृशो मया
वीर्यधैर्ययशःशौचैर्विक्रमेणौजसापि वा

१३.१३७.१४तद्वाक्यान्ते चान्तरिक्षे वागुवाचाशरीरिणी
न त्वं मूढ विजानीषे ब्राह्मणं क्षत्रियाद्वरम्
सहितो ब्राह्मणेनेह क्षत्रियो रक्षति प्रजाः

१३.१३७.१५अर्जुन उवाच

१३.१३७.१६कुर्यां भूतानि तुष्टोऽहं क्रुद्धो नाशं तथा नये
कर्मणा मनसा वाचा न मत्तोऽस्ति वरो द्विजः

१३.१३७.१७पूर्वो ब्रह्मोत्तरो वादो द्वितीयः क्षत्रियोत्तरः
त्वयोक्तौ यौ तु तौ हेतू विशेषस्त्वत्र दृश्यते

१३.१३७.१८ब्राह्मणाः संश्रिताः क्षत्रं न क्षत्रं ब्राह्मणाश्रितम्
श्रितान्ब्रह्मोपधा विप्राः खादन्ति क्षत्रियान्भुवि

१३.१३७.१९क्षत्रियेष्वाश्रितो धर्मः प्रजानां परिपालनम्
क्षत्राद्वृत्तिर्ब्राह्मणानां तैः कथं ब्राह्मणो वरः

१३.१३७.२०सर्वभूतप्रधानांस्तान्भैक्षवृत्तीनहं सदा
आत्मसंभावितान्विप्रान्स्थापयाम्यात्मनो वशे

१३.१३७.२१कथितं ह्यनया सत्यं गायत्र्या कन्यया दिवि
विजेष्याम्यवशान्सर्वान्ब्राह्मणांश्चर्मवाससः

१३.१३७.२२न च मां च्यावयेद्राष्ट्रात्त्रिषु लोकेषु कश्चन
देवो वा मानुषो वापि तस्माज्ज्येष्ठो द्विजादहम्

१३.१३७.२३अद्य ब्रह्मोत्तरं लोकं करिष्ये क्षत्रियोत्तरम्
न हि मे संयुगे कश्चित्सोढुमुत्सहते बलम्

१३.१३७.२४अर्जुनस्य वचः श्रुत्वा वित्रस्ताभून्निशाचरी
अथैनमन्तरिक्षस्थस्ततो वायुरभाषत

१३.१३७.२५त्यजैनं कलुषं भावं ब्राह्मणेभ्यो नमस्कुरु
एतेषां कुर्वतः पापं राष्ट्रक्षोभो हि ते भवेत्

१३.१३७.२६अथ वा त्वां महीपाल शमयिष्यन्ति वै द्विजाः
निरसिष्यन्ति वा राष्ट्राद्धतोत्साहं महाबलाः

१३.१३७.२७तं राजा कस्त्वमित्याह ततस्तं प्राह मारुतः
वायुर्वै देवदूतोऽस्मि हितं त्वां प्रब्रवीम्यहम्

१३.१३७.२८अर्जुन उवाच

१३.१३७.२९अहो त्वयाद्य विप्रेषु भक्तिरागः प्रदर्शितः
यादृशं पृथिवी भूतं तादृशं ब्रूहि वै द्विजम्

१३.१३७.३०वायोर्वा सदृशं किंचिद्ब्रूहि त्वं ब्राह्मणोत्तमम्
अपां वै सदृशं ब्रूहि सूर्यस्य नभसोऽपि वा