१३.१५३.१वैशंपायन उवाच
१३.१५३.२ततः कुन्तीसुतो राजा पौरजानपदं जनम्
पूजयित्वा यथान्यायमनुजज्ञे गृहान्प्रति
१३.१५३.३सान्त्वयामास नारीश्च हतवीरा हतेश्वराः
विपुलैरर्थदानैश्च तदा पाण्डुसुतो नृपः
१३.१५३.४सोऽभिषिक्तो महाप्राज्ञः प्राप्य राज्यं युधिष्ठिरः
अवस्थाप्य नरश्रेष्ठः सर्वाः स्वप्रकृतीस्तदा
१३.१५३.५द्विजेभ्यो बलमुख्येभ्यो नैगमेभ्यश्च सर्वशः
प्रतिगृह्याशिषो मुख्यास्तदा धर्मभृतां वरः
१३.१५३.६उषित्वा शर्वरीः श्रीमान्पञ्चाशन्नगरोत्तमे
समयं कौरवाग्र्यस्य सस्मार पुरुषर्षभः
१३.१५३.७स निर्ययौ गजपुराद्याजकैः परिवारितः
दृष्ट्वा निवृत्तमादित्यं प्रवृत्तं चोत्तरायणम्
१३.१५३.८घृतं माल्यं च गन्धांश्च क्षौमाणि च युधिष्ठिरः
चन्दनागरुमुख्यानि तथा कालागरूणि च
१३.१५३.९प्रस्थाप्य पूर्वं कौन्तेयो भीष्मसंसाधनाय वै
माल्यानि च महार्हाणि रत्नानि विविधानि च
१३.१५३.१०धृतराष्ट्रं पुरस्कृत्य गान्धारीं च यशस्विनीम्
मातरं च पृथां धीमान्भ्रातॄंश्च पुरुषर्षभः
१३.१५३.११जनार्दनेनानुगतो विदुरेण च धीमता
युयुत्सुना च कौरव्यो युयुधानेन चाभिभो
१३.१५३.१२महता राजभोग्येन परिबर्हेण संवृतः
स्तूयमानो महाराज भीष्मस्याग्नीननुव्रजन्
१३.१५३.१३निश्चक्राम पुरात्तस्माद्यथा देवपतिस्तथा
आससाद कुरुक्षेत्रे ततः शांतनवं नृपम्
१३.१५३.१४उपास्यमानं व्यासेन पाराशर्येण धीमता
नारदेन च राजर्षे देवलेनासितेन च
१३.१५३.१५हतशिष्टैर्नृपैश्चान्यैर्नानादेशसमागतैः
रक्षिभिश्च महात्मानं रक्ष्यमाणं समन्ततः
१३.१५३.१६शयानं वीरशयने ददर्श नृपतिस्ततः
ततो रथादवारोहद्भ्रातृभिः सह धर्मराट्
१३.१५३.१७अभिवाद्याथ कौन्तेयः पितामहमरिंदमम्
द्वैपायनादीन्विप्रांश्च तैश्च प्रत्यभिनन्दितः
१३.१५३.१८ऋत्विग्भिर्ब्रह्मकल्पैश्च भ्रातृभिश्च सहाच्युतः
आसाद्य शरतल्पस्थमृषिभिः परिवारितम्
१३.१५३.१९अब्रवीद्भरतश्रेष्ठं धर्मराजो युधिष्ठिरः
भ्रातृभिः सह कौरव्य शयानं निम्नगासुतम्
१३.१५३.२०युधिष्ठिरोऽहं नृपते नमस्ते जाह्नवीसुत
शृणोषि चेन्महाबाहो ब्रूहि किं करवाणि ते
१३.१५३.२१प्राप्तोऽस्मि समये राजन्नग्नीनादाय ते विभो
आचार्या ब्राह्मणाश्चैव ऋत्विजो भ्रातरश्च मे
१३.१५३.२२पुत्रश्च ते महातेजा धृतराष्ट्रो जनेश्वरः
उपस्थितः सहामात्यो वासुदेवश्च वीर्यवान्
१३.१५३.२३हतशिष्टाश्च राजानः सर्वे च कुरुजाङ्गलाः
तान्पश्य कुरुशार्दूल समुन्मीलय लोचने
१३.१५३.२४यच्चेह किंचित्कर्तव्यं तत्सर्वं प्रापितं मया
यथोक्तं भवता काले सर्वमेव च तत्कृतम्
१३.१५३.२५एवमुक्तस्तु गाङ्गेयः कुन्तीपुत्रेण धीमता
ददर्श भारतान्सर्वान्स्थितान्संपरिवार्य तम्
१३.१५३.२६ततश्चलवलिर्भीष्मः प्रगृह्य विपुलं भुजम्
ओघमेघस्वनो वाग्मी काले वचनमब्रवीत्
१३.१५३.२७दिष्ट्या प्राप्तोऽसि कौन्तेय सहामात्यो युधिष्ठिर
परिवृत्तो हि भगवान्सहस्रांशुर्दिवाकरः
१३.१५३.२८अष्टपञ्चाशतं रात्र्यः शयानस्याद्य मे गताः
शरेषु निशिताग्रेषु यथा वर्षशतं तथा
१३.१५३.२९माघोऽयं समनुप्राप्तो मासः पुण्यो युधिष्ठिर
त्रिभागशेषः पक्षोऽयं शुक्लो भवितुमर्हति
१३.१५३.३०एवमुक्त्वा तु गाङ्गेयो धर्मपुत्रं युधिष्ठिरम्
धृतराष्ट्रमथामन्त्र्य काले वचनमब्रवीत्
१३.१५३.३१राजन्विदितधर्मोऽसि सुनिर्णीतार्थसंशयः
बहुश्रुता हि ते विप्रा बहवः पर्युपासिताः
१३.१५३.३२वेदशास्त्राणि सर्वाणि धर्मांश्च मनुजेश्वर
वेदांश्च चतुरः साङ्गान्निखिलेनावबुध्यसे
१३.१५३.३३न शोचितव्यं कौरव्य भवितव्यं हि तत्तथा
श्रुतं देवरहस्यं ते कृष्णद्वैपायनादपि
१३.१५३.३४यथा पाण्डोः सुता राजंस्तथैव तव धर्मतः
तान्पालय स्थितो धर्मे गुरुशुश्रूषणे रतान्
१३.१५३.३५धर्मराजो हि शुद्धात्मा निदेशे स्थास्यते तव
आनृशंस्यपरं ह्येनं जानामि गुरुवत्सलम्
१३.१५३.३६तव पुत्रा दुरात्मानः क्रोधलोभपरायणाः
ईर्ष्याभिभूता दुर्वृत्तास्तान्न शोचितुमर्हसि
१३.१५३.३७वैशंपायन उवाच
१३.१५३.३८एतावदुक्त्वा वचनं धृतराष्ट्रं मनीषिणम्
वासुदेवं महाबाहुमभ्यभाषत कौरवः
१३.१५३.३९भगवन्देवदेवेश सुरासुरनमस्कृत
त्रिविक्रम नमस्तेऽस्तु शङ्खचक्रगदाधर
१३.१५३.४०अनुजानीहि मां कृष्ण वैकुण्ठ पुरुषोत्तम
रक्ष्याश्च ते पाण्डवेया भवान्ह्येषां परायणम्
१३.१५३.४१उक्तवानस्मि दुर्बुद्धिं मन्दं दुर्योधनं पुरा
यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः
१३.१५३.४२वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः
संधानस्य परः कालस्तवेति च पुनः पुनः
१३.१५३.४३न च मे तद्वचो मूढः कृतवान्स सुमन्दधीः
घातयित्वेह पृथिवीं ततः स निधनं गतः
१३.१५३.४४त्वां च जानाम्यहं वीर पुराणमृषिसत्तमम्
नरेण सहितं देवं बदर्यां सुचिरोषितम्
१३.१५३.४५तथा मे नारदः प्राह व्यासश्च सुमहातपाः
नरनारायणावेतौ संभूतौ मनुजेष्विति
१३.१५३.४६वासुदेव उवाच
१३.१५३.४७अनुजानामि भीष्म त्वां वसूनाप्नुहि पार्थिव
न तेऽस्ति वृजिनं किंचिन्मया दृष्टं महाद्युते
१३.१५३.४८पितृभक्तोऽसि राजर्षे मार्कण्डेय इवापरः
तेन मृत्युस्तव वशे स्थितो भृत्य इवानतः
१३.१५३.४९वैशंपायन उवाच
१३.१५३.५०एवमुक्तस्तु गाङ्गेयः पाण्डवानिदमब्रवीत्
धृतराष्ट्रमुखांश्चापि सर्वान्ससुहृदस्तथा
१३.१५३.५१प्राणानुत्स्रष्टुमिच्छामि तन्मानुज्ञातुमर्हथ
सत्ये प्रयतितव्यं वः सत्यं हि परमं बलम्
१३.१५३.५२आनृशंस्यपरैर्भाव्यं सदैव नियतात्मभिः
ब्रह्मण्यैर्धर्मशीलैश्च तपोनीत्यैश्च भारत
१३.१५३.५३इत्युक्त्वा सुहृदः सर्वान्संपरिष्वज्य चैव ह
पुनरेवाब्रवीद्धीमान्युधिष्ठिरमिदं वचः
१३.१५३.५४ब्राह्मणाश्चैव ते नित्यं प्राज्ञाश्चैव विशेषतः
आचार्या ऋत्विजश्चैव पूजनीया नराधिप