१३.१५२.१वैशंपायन उवाच
१३.१५२.२तूष्णींभूते तदा भीष्मे पटे चित्रमिवार्पितम्
मुहूर्तमिव च ध्यात्वा व्यासः सत्यवतीसुतः
नृपं शयानं गाङ्गेयमिदमाह वचस्तदा
१३.१५२.३राजन्प्रकृतिमापन्नः कुरुराजो युधिष्ठिरः
सहितो भ्रातृभिः सर्वैः पार्थिवैश्चानुयायिभिः
१३.१५२.४उपास्ते त्वां नरव्याघ्र सह कृष्णेन धीमता
तमिमं पुरयानाय त्वमनुज्ञातुमर्हसि
१३.१५२.५एवमुक्तो भगवता व्यासेन पृथिवीपतिः
युधिष्ठिरं सहामात्यमनुजज्ञे नदीसुतः
१३.१५२.६उवाच चैनं मधुरं ततः शांतनवो नृपः
प्रविशस्व पुरं राजन्व्येतु ते मानसो ज्वरः
१३.१५२.७यजस्व विविधैर्यज्ञैर्बह्वन्नैः स्वाप्तदक्षिणैः
ययातिरिव राजेन्द्र श्रद्धादमपुरःसरः
१३.१५२.८क्षत्रधर्मरतः पार्थ पितॄन्देवांश्च तर्पय
श्रेयसा योक्ष्यसे चैव व्येतु ते मानसो ज्वरः
१३.१५२.९रञ्जयस्व प्रजाः सर्वाः प्रकृतीः परिसान्त्वय
सुहृदः फलसत्कारैरभ्यर्चय यथार्हतः
१३.१५२.१०अनु त्वां तात जीवन्तु मित्राणि सुहृदस्तथा
चैत्यस्थाने स्थितं वृक्षं फलवन्तमिव द्विजाः
१३.१५२.११आगन्तव्यं च भवता समये मम पार्थिव
विनिवृत्ते दिनकरे प्रवृत्ते चोत्तरायणे
१३.१५२.१२तथेत्युक्त्वा तु कौन्तेयः सोऽभिवाद्य पितामहम्
प्रययौ सपरीवारो नगरं नागसाह्वयम्
१३.१५२.१३धृतराष्ट्रं पुरस्कृत्य गान्धारीं च पतिव्रताम्
सह तैरृषिभिः सर्वैर्भ्रातृभिः केशवेन च
१३.१५२.१४पौरजानपदैश्चैव मन्त्रिवृद्धैश्च पार्थिवः
प्रविवेश कुरुश्रेष्ठ पुरं वारणसाह्वयम्