१३. अनुशासनपर्व
१३.२३.१युधिष्ठिर उवाच

१३.२३.२किमाहुर्भरतश्रेष्ठ पात्रं विप्राः सनातनम्
ब्राह्मणं लिङ्गिनं चैव ब्राह्मणं वाप्यलिङ्गिनम्

१३.२३.३भीष्म उवाच

१३.२३.४स्ववृत्तिमभिपन्नाय लिङ्गिने वेतराय वा
देयमाहुर्महाराज उभावेतौ तपस्विनौ

१३.२३.५युधिष्ठिर उवाच

१३.२३.६श्रद्धया परया पूतो यः प्रयच्छेद्द्विजातये
हव्यं कव्यं तथा दानं को दोषः स्यात्पितामह

१३.२३.७भीष्म उवाच

१३.२३.८श्रद्धापूतो नरस्तात दुर्दान्तोऽपि न संशयः
पूतो भवति सर्वत्र किं पुनस्त्वं महीपते

१३.२३.९युधिष्ठिर उवाच

१३.२३.१०न ब्राह्मणं परीक्षेत दैवेषु सततं नरः
कव्यप्रदाने तु बुधाः परीक्ष्यं ब्राह्मणं विदुः

१३.२३.११भीष्म उवाच

१३.२३.१२न ब्राह्मणः साधयते हव्यं दैवात्प्रसिध्यति
देवप्रसादादिज्यन्ते यजमाना न संशयः

१३.२३.१३ब्राह्मणा भरतश्रेष्ठ सततं ब्रह्मवादिनः
मार्कण्डेयः पुरा प्राह इह लोकेषु बुद्धिमान्

१३.२३.१४युधिष्ठिर उवाच

१३.२३.१५अपूर्वोऽप्यथ वा विद्वान्संबन्धी वाथ यो भवेत्
तपस्वी यज्ञशीलो वा कथं पात्रं भवेत्तु सः

१३.२३.१६भीष्म उवाच

१३.२३.१७कुलीनः कर्मकृद्वैद्यस्तथा चाप्यानृशंस्यवान्
ह्रीमानृजुः सत्यवादी पात्रं पूर्वे च ते त्रयः

१३.२३.१८तत्रेदं शृणु मे पार्थ चतुर्णां तेजसां मतम्
पृथिव्याः काश्यपस्याग्नेर्मार्कण्डेयस्य चैव हि

१३.२३.१९पृथिव्युवाच

१३.२३.२०यथा महार्णवे क्षिप्तः क्षिप्रं लोष्टो विनश्यति
तथा दुश्चरितं सर्वं त्रय्यावृत्त्या विनश्यति

१३.२३.२१काश्यप उवाच

१३.२३.२२सर्वे च वेदाः सह षड्भिरङ्गैः; सांख्यं पुराणं च कुले च जन्म
नैतानि सर्वाणि गतिर्भवन्ति; शीलव्यपेतस्य नरस्य राजन्

१३.२३.२३अग्निरुवाच

१३.२३.२४अधीयानः पण्डितं मन्यमानो; यो विद्यया हन्ति यशः परेषाम्
ब्रह्मन्स तेनाचरते ब्रह्महत्यां; लोकास्तस्य ह्यन्तवन्तो भवन्ति

१३.२३.२५मार्कण्डेय उवाच

१३.२३.२६अश्वमेधसहस्रं च सत्यं च तुलया धृतम्
नाभिजानामि यद्यस्य सत्यस्यार्धमवाप्नुयात्

१३.२३.२७भीष्म उवाच

१३.२३.२८इत्युक्त्वा ते जग्मुराशु चत्वारोऽमिततेजसः
पृथिवी काश्यपोऽग्निश्च प्रकृष्टायुश्च भार्गवः

१३.२३.२९युधिष्ठिर उवाच

१३.२३.३०यदिदं ब्राह्मणा लोके व्रतिनो भुञ्जते हविः
भुक्तं ब्राह्मणकामाय कथं तत्सुकृतं भवेत्

१३.२३.३१भीष्म उवाच

१३.२३.३२आदिष्टिनो ये राजेन्द्र ब्राह्मणा वेदपारगाः
भुञ्जते ब्रह्मकामाय व्रतलुप्ता भवन्ति ते

१३.२३.३३युधिष्ठिर उवाच

१३.२३.३४अनेकान्तं बहुद्वारं धर्ममाहुर्मनीषिणः
किं निश्चितं भवेत्तत्र तन्मे ब्रूहि पितामह

१३.२३.३५भीष्म उवाच

१३.२३.३६अहिंसा सत्यमक्रोध आनृशंस्यं दमस्तथा
आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम्

१३.२३.३७ये तु धर्मं प्रशंसन्तश्चरन्ति पृथिवीमिमाम्
अनाचरन्तस्तद्धर्मं संकरे निरताः प्रभो

१३.२३.३८तेभ्यो रत्नं हिरण्यं वा गामश्वान्वा ददाति यः
दश वर्षाणि विष्ठां स भुङ्क्ते निरयमाश्रितः

१३.२३.३९मेदानां पुल्कसानां च तथैवान्तावसायिनाम्
कृतं कर्माकृतं चापि रागमोहेन जल्पताम्

१३.२३.४०वैश्वदेवं च ये मूढा विप्राय ब्रह्मचारिणे
ददतीह न राजेन्द्र ते लोकान्भुञ्जतेऽशुभान्

१३.२३.४१युधिष्ठिर उवाच

१३.२३.४२किं परं ब्रह्मचर्यस्य किं परं धर्मलक्षणम्
किं च श्रेष्ठतमं शौचं तन्मे ब्रूहि पितामह

१३.२३.४३भीष्म उवाच

१३.२३.४४ब्रह्मचर्यं परं तात मधुमांसस्य वर्जनम्
मर्यादायां स्थितो धर्मः शमः शौचस्य लक्षणम्

१३.२३.४५युधिष्ठिर उवाच

१३.२३.४६कस्मिन्काले चरेद्धर्मं कस्मिन्कालेऽर्थमाचरेत्
कस्मिन्काले सुखी च स्यात्तन्मे ब्रूहि पितामह

१३.२३.४७भीष्म उवाच

१३.२३.४८काल्यमर्थं निषेवेत ततो धर्ममनन्तरम्
पश्चात्कामं निषेवेत न च गच्छेत्प्रसङ्गिताम्

१३.२३.४९ब्राह्मणांश्चाभिमन्येत गुरूंश्चाप्यभिपूजयेत्
सर्वभूतानुलोमश्च मृदुशीलः प्रियंवदः

१३.२३.५०अधिकारे यदनृतं राजगामि च पैशुनम्
गुरोश्चालीककरणं समं तद्ब्रह्महत्यया

१३.२३.५१प्रहरेन्न नरेन्द्रेषु न गां हन्यात्तथैव च
भ्रूणहत्यासमं चैतदुभयं यो निषेवते

१३.२३.५२नाग्निं परित्यजेज्जातु न च वेदान्परित्यजेत्
न च ब्राह्मणमाक्रोशेत्समं तद्ब्रह्महत्यया

१३.२३.५३युधिष्ठिर उवाच

१३.२३.५४कीदृशाः साधवो विप्राः केभ्यो दत्तं महाफलम्
कीदृशानां च भोक्तव्यं तन्मे ब्रूहि पितामह

१३.२३.५५भीष्म उवाच

१३.२३.५६अक्रोधना धर्मपराः सत्यनित्या दमे रताः
तादृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम्

१३.२३.५७अमानिनः सर्वसहा दृष्टार्था विजितेन्द्रियाः
सर्वभूतहिता मैत्रास्तेभ्यो दत्तं महाफलम्

१३.२३.५८अलुब्धाः शुचयो वैद्या ह्रीमन्तः सत्यवादिनः
स्वकर्मनिरता ये च तेभ्यो दत्तं महाफलम्

१३.२३.५९साङ्गांश्च चतुरो वेदान्योऽधीयीत द्विजर्षभः
षड्भ्यो निवृत्तः कर्मभ्यस्तं पात्रमृषयो विदुः

१३.२३.६०ये त्वेवंगुणजातीयास्तेभ्यो दत्तं महाफलम्
सहस्रगुणमाप्नोति गुणार्हाय प्रदायकः

१३.२३.६१प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च समन्वितः
तारयेत कुलं कृत्स्नमेकोऽपीह द्विजर्षभः

१३.२३.६२गामश्वं वित्तमन्नं वा तद्विधे प्रतिपादयेत्
द्रव्याणि चान्यानि तथा प्रेत्यभावे न शोचति

१३.२३.६३तारयेत कुलं कृत्स्नमेकोऽपीह द्विजोत्तमः
किमङ्ग पुनरेकं वै तस्मात्पात्रं समाचरेत्

१३.२३.६४निशम्य च गुणोपेतं ब्राह्मणं साधुसंमतम्
दूरादानाययेत्कृत्ये सर्वतश्चाभिपूजयेत्