१३.२८.१युधिष्ठिर उवाच
१३.२८.२प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च यथा भवान्
गुणैः समुदितः सर्वैर्वयसा च समन्वितः
तस्माद्भवन्तं पृच्छामि धर्मं धर्मभृतां वर
१३.२८.३क्षत्रियो यदि वा वैश्यः शूद्रो वा राजसत्तम
ब्राह्मण्यं प्राप्नुयात्केन तन्मे व्याख्यातुमर्हसि
१३.२८.४तपसा वा सुमहता कर्मणा वा श्रुतेन वा
ब्राह्मण्यमथ चेदिच्छेत्तन्मे ब्रूहि पितामह
१३.२८.५भीष्म उवाच
१३.२८.६ब्राह्मण्यं तात दुष्प्रापं वर्णैः क्षत्रादिभिस्त्रिभिः
परं हि सर्वभूतानां स्थानमेतद्युधिष्ठिर
१३.२८.७बह्वीस्तु संसरन्योनीर्जायमानः पुनः पुनः
पर्याये तात कस्मिंश्चिद्ब्राह्मणो नाम जायते
१३.२८.८अत्राप्युदाहरन्तीममितिहासं पुरातनम्
मतङ्गस्य च संवादं गर्दभ्याश्च युधिष्ठिर
१३.२८.९द्विजातेः कस्यचित्तात तुल्यवर्णः सुतः प्रभुः
मतङ्गो नाम नाम्नाभूत्सर्वैः समुदितो गुणैः
१३.२८.१०स यज्ञकारः कौन्तेय पित्रा सृष्टः परंतप
प्रायाद्गर्दभयुक्तेन रथेनेहाशुगामिना
१३.२८.११स बालं गर्दभं राजन्वहन्तं मातुरन्तिके
निरविध्यत्प्रतोदेन नासिकायां पुनः पुनः
१३.२८.१२तं तु तीव्रव्रणं दृष्ट्वा गर्दभी पुत्रगृद्धिनी
उवाच मा शुचः पुत्र चण्डालस्त्वाधितिष्ठति
१३.२८.१३ब्राह्मणे दारुणं नास्ति मैत्रो ब्राह्मण उच्यते
आचार्यः सर्वभूतानां शास्ता किं प्रहरिष्यति
१३.२८.१४अयं तु पापप्रकृतिर्बाले न कुरुते दयाम्
स्वयोनिं मानयत्येष भावो भावं निगच्छति
१३.२८.१५एतच्छ्रुत्वा मतङ्गस्तु दारुणं रासभीवचः
अवतीर्य रथात्तूर्णं रासभीं प्रत्यभाषत
१३.२८.१६ब्रूहि रासभि कल्याणि माता मे येन दूषिता
कथं मां वेत्सि चण्डालं क्षिप्रं रासभि शंस मे
१३.२८.१७केन जातोऽस्मि चण्डालो ब्राह्मण्यं येन मेऽनशत्
तत्त्वेनैतन्महाप्राज्ञे ब्रूहि सर्वमशेषतः
१३.२८.१८गर्दभ्युवाच
१३.२८.१९ब्राह्मण्यां वृषलेन त्वं मत्तायां नापितेन ह
जातस्त्वमसि चण्डालो ब्राह्मण्यं तेन तेऽनशत्
१३.२८.२०एवमुक्तो मतङ्गस्तु प्रत्युपायाद्गृहं प्रति
तमागतमभिप्रेक्ष्य पिता वाक्यमथाब्रवीत्
१३.२८.२१मया त्वं यज्ञसंसिद्धौ नियुक्तो गुरुकर्मणि
कस्मात्प्रतिनिवृत्तोऽसि कच्चिन्न कुशलं तव
१३.२८.२२मतङ्ग उवाच
१३.२८.२३अयोनिरग्र्ययोनिर्वा यः स्यात्स कुशली भवेत्
कुशलं तु कुतस्तस्य यस्येयं जननी पितः
१३.२८.२४ब्राह्मण्यां वृषलाज्जातं पितर्वेदयतीह माम्
अमानुषी गर्दभीयं तस्मात्तप्स्ये तपो महत्
१३.२८.२५एवमुक्त्वा स पितरं प्रतस्थे कृतनिश्चयः
ततो गत्वा महारण्यमतप्यत महत्तपः
१३.२८.२६ततः संतापयामास विबुधांस्तपसान्वितः
मतङ्गः सुसुखं प्रेप्सुः स्थानं सुचरितादपि
१३.२८.२७तं तथा तपसा युक्तमुवाच हरिवाहनः
मतङ्ग तप्यसे किं त्वं भोगानुत्सृज्य मानुषान्
१३.२८.२८वरं ददानि ते हन्त वृणीष्व त्वं यदिच्छसि
यच्चाप्यवाप्यमन्यत्ते सर्वं प्रब्रूहि माचिरम्
१३.२८.२९मतङ्ग उवाच
१३.२८.३०ब्राह्मण्यं कामयानोऽहमिदमारब्धवांस्तपः
गच्छेयं तदवाप्येह वर एष वृतो मया
१३.२८.३१एतच्छ्रुत्वा तु वचनं तमुवाच पुरंदरः
ब्राह्मण्यं प्रार्थयानस्त्वमप्राप्यमकृतात्मभिः
१३.२८.३२श्रेष्ठं यत्सर्वभूतेषु तपो यन्नातिवर्तते
तदग्र्यं प्रार्थयानस्त्वमचिराद्विनशिष्यसि
१३.२८.३३देवतासुरमर्त्येषु यत्पवित्रं परं स्मृतम्
चण्डालयोनौ जातेन न तत्प्राप्यं कथंचन