१३. अनुशासनपर्व
१३.३.१युधिष्ठिर उवाच

१३.३.२ब्राह्मण्यं यदि दुष्प्रापं त्रिभिर्वर्णैर्नराधिप
कथं प्राप्तं महाराज क्षत्रियेण महात्मना

१३.३.३विश्वामित्रेण धर्मात्मन्ब्राह्मणत्वं नरर्षभ
श्रोतुमिच्छामि तत्त्वेन तन्मे ब्रूहि पितामह

१३.३.४तेन ह्यमितवीर्येण वसिष्ठस्य महात्मनः
हतं पुत्रशतं सद्यस्तपसा प्रपितामह

१३.३.५यातुधानाश्च बहवो राक्षसास्तिग्मतेजसः
मन्युनाविष्टदेहेन सृष्टाः कालान्तकोपमाः

१३.३.६महान्कुशिकवंशश्च ब्रह्मर्षिशतसंकुलः
स्थापितो नरलोकेऽस्मिन्विद्वान्ब्राह्मणसंस्तुतः

१३.३.७ऋचीकस्यात्मजश्चैव शुनःशेपो महातपाः
विमोक्षितो महासत्रात्पशुतामभ्युपागतः

१३.३.८हरिश्चन्द्रक्रतौ देवांस्तोषयित्वात्मतेजसा
पुत्रतामनुसंप्राप्तो विश्वामित्रस्य धीमतः

१३.३.९नाभिवादयते ज्येष्ठं देवरातं नराधिप
पुत्राः पञ्चशताश्चापि शप्ताः श्वपचतां गताः

१३.३.१०त्रिशङ्कुर्बन्धुसंत्यक्त इक्ष्वाकुः प्रीतिपूर्वकम्
अवाक्शिरा दिवं नीतो दक्षिणामाश्रितो दिशम्

१३.३.११विश्वामित्रस्य विपुला नदी राजर्षिसेविता
कौशिकीति शिवा पुण्या ब्रह्मर्षिगणसेविता

१३.३.१२तपोविघ्नकरी चैव पञ्चचूडा सुसंमता
रम्भा नामाप्सराः शापाद्यस्य शैलत्वमागता

१३.३.१३तथैवास्य भयाद्बद्ध्वा वसिष्ठः सलिले पुरा
आत्मानं मज्जयामास विपाशः पुनरुत्थितः

१३.३.१४तदाप्रभृति पुण्या हि विपाशाभून्महानदी
विख्याता कर्मणा तेन वसिष्ठस्य महात्मनः

१३.३.१५वाग्भिश्च भगवान्येन देवसेनाग्रगः प्रभुः
स्तुतः प्रीतमनाश्चासीच्छापाच्चैनममोचयत्

१३.३.१६ध्रुवस्यौत्तानपादस्य ब्रह्मर्षीणां तथैव च
मध्ये ज्वलति यो नित्यमुदीचीमाश्रितो दिशम्

१३.३.१७तस्यैतानि च कर्माणि तथान्यानि च कौरव
क्षत्रियस्येत्यतो जातमिदं कौतूहलं मम

१३.३.१८किमेतदिति तत्त्वेन प्रब्रूहि भरतर्षभ
देहान्तरमनासाद्य कथं स ब्राह्मणोऽभवत्

१३.३.१९एतत्तत्त्वेन मे राजन्सर्वमाख्यातुमर्हसि
मतंगस्य यथातत्त्वं तथैवैतद्ब्रवीहि मे

१३.३.२०स्थाने मतंगो ब्राह्मण्यं नालभद्भरतर्षभ
चण्डालयोनौ जातो हि कथं ब्राह्मण्यमाप्नुयात्