१३. अनुशासनपर्व
१३.४.१भीष्म उवाच

१३.४.२श्रूयतां पार्थ तत्त्वेन विश्वामित्रो यथा पुरा
ब्राह्मणत्वं गतस्तात ब्रह्मर्षित्वं तथैव च

१३.४.३भरतस्यान्वये चैवाजमीढो नाम पार्थिवः
बभूव भरतश्रेष्ठ यज्वा धर्मभृतां वरः

१३.४.४तस्य पुत्रो महानासीज्जह्नुर्नाम नरेश्वरः
दुहितृत्वमनुप्राप्ता गङ्गा यस्य महात्मनः

१३.४.५तस्यात्मजस्तुल्यगुणः सिन्धुद्वीपो महायशाः
सिन्धुद्वीपाच्च राजर्षिर्बलाकाश्वो महाबलः

१३.४.६वल्लभस्तस्य तनयः साक्षाद्धर्म इवापरः
कुशिकस्तस्य तनयः सहस्राक्षसमद्युतिः

१३.४.७कुशिकस्यात्मजः श्रीमान्गाधिर्नाम जनेश्वरः
अपुत्रः स महाबाहुर्वनवासमुदावसत्

१३.४.८कन्या जज्ञे सुता तस्य वने निवसतः सतः
नाम्ना सत्यवती नाम रूपेणाप्रतिमा भुवि

१३.४.९तां वव्रे भार्गवः श्रीमांश्च्यवनस्यात्मजः प्रभुः
ऋचीक इति विख्यातो विपुले तपसि स्थितः

१३.४.१०स तां न प्रददौ तस्मै ऋचीकाय महात्मने
दरिद्र इति मत्वा वै गाधिः शत्रुनिबर्हणः

१३.४.११प्रत्याख्याय पुनर्यान्तमब्रवीद्राजसत्तमः
शुल्कं प्रदीयतां मह्यं ततो वेत्स्यसि मे सुताम्

१३.४.१२ऋचीक उवाच

१३.४.१३किं प्रयच्छामि राजेन्द्र तुभ्यं शुल्कमहं नृप
दुहितुर्ब्रूह्यसंसक्तो मात्राभूत्ते विचारणा

१३.४.१४गाधिरुवाच

१३.४.१५चन्द्ररश्मिप्रकाशानां हयानां वातरंहसाम्
एकतः श्यामकर्णानां सहस्रं देहि भार्गव

१३.४.१६भीष्म उवाच

१३.४.१७ततः स भृगुशार्दूलश्च्यवनस्यात्मजः प्रभुः
अब्रवीद्वरुणं देवमादित्यं पतिमम्भसाम्

१३.४.१८एकतः श्यामकर्णानां हयानां चन्द्रवर्चसाम्
सहस्रं वातवेगानां भिक्षे त्वां देवसत्तम

१३.४.१९तथेति वरुणो देव आदित्यो भृगुसत्तमम्
उवाच यत्र ते छन्दस्तत्रोत्थास्यन्ति वाजिनः

१३.४.२०ध्यातमात्रे ऋचीकेन हयानां चन्द्रवर्चसाम्
गङ्गाजलात्समुत्तस्थौ सहस्रं विपुलौजसाम्

१३.४.२१अदूरे कन्यकुब्जस्य गङ्गायास्तीरमुत्तमम्
अश्वतीर्थं तदद्यापि मानवाः परिचक्षते

१३.४.२२तत्तदा गाधये तात सहस्रं वाजिनां शुभम्
ऋचीकः प्रददौ प्रीतः शुल्कार्थं जपतां वरः

१३.४.२३ततः स विस्मितो राजा गाधिः शापभयेन च
ददौ तां समलंकृत्य कन्यां भृगुसुताय वै

१३.४.२४जग्राह पाणिं विधिना तस्य ब्रह्मर्षिसत्तमः
सा च तं पतिमासाद्य परं हर्षमवाप ह

१३.४.२५स तुतोष च विप्रर्षिस्तस्या वृत्तेन भारत
छन्दयामास चैवैनां वरेण वरवर्णिनीम्

१३.४.२६मात्रे तत्सर्वमाचख्यौ सा कन्या राजसत्तमम्
अथ तामब्रवीन्माता सुतां किंचिदवाङ्मुखीम्

१३.४.२७ममापि पुत्रि भर्ता ते प्रसादं कर्तुमर्हति
अपत्यस्य प्रदानेन समर्थः स महातपाः

१३.४.२८ततः सा त्वरितं गत्वा तत्सर्वं प्रत्यवेदयत्
मातुश्चिकीर्षितं राजन्नृचीकस्तामथाब्रवीत्

१३.४.२९गुणवन्तमपत्यं वै त्वं च सा जनयिष्यथः
जनन्यास्तव कल्याणि मा भूद्वै प्रणयोऽन्यथा

१३.४.३०तव चैव गुणश्लाघी पुत्र उत्पत्स्यते शुभे
अस्मद्वंशकरः श्रीमांस्तव भ्राता च वंशकृत्

१३.४.३१ऋतुस्नाता च साश्वत्थं त्वं च वृक्षमुदुम्बरम्
परिष्वजेथाः कल्याणि तत इष्टमवाप्स्यथः

१३.४.३२चरुद्वयमिदं चैव मन्त्रपूतं शुचिस्मिते
त्वं च सा चोपयुञ्जीथां ततः पुत्राववाप्स्यथः

१३.४.३३ततः सत्यवती हृष्टा मातरं प्रत्यभाषत
यदृचीकेन कथितं तच्चाचख्यौ चरुद्वयम्

१३.४.३४तामुवाच ततो माता सुतां सत्यवतीं तदा
पुत्रि मूर्ध्ना प्रपन्नायाः कुरुष्व वचनं मम

१३.४.३५भर्त्रा य एष दत्तस्ते चरुर्मन्त्रपुरस्कृतः
एतं प्रयच्छ मह्यं त्वं मदीयं त्वं गृहाण च

१३.४.३६व्यत्यासं वृक्षयोश्चापि करवाव शुचिस्मिते
यदि प्रमाणं वचनं मम मातुरनिन्दिते

१३.४.३७व्यक्तं भगवता चात्र कृतमेवं भविष्यति
ततो मे त्वच्चरौ भावः पादपे च सुमध्यमे
कथं विशिष्टो भ्राता ते भवेदित्येव चिन्तय

१३.४.३८तथा च कृतवत्यौ ते माता सत्यवती च सा
अथ गर्भावनुप्राप्ते उभे ते वै युधिष्ठिर

१३.४.३९दृष्ट्वा गर्भमनुप्राप्तां भार्यां स च महानृषिः
उवाच तां सत्यवतीं दुर्मना भृगुसत्तमः

१३.४.४०व्यत्यासेनोपयुक्तस्ते चरुर्व्यक्तं भविष्यति
व्यत्यासः पादपे चापि सुव्यक्तं ते कृतः शुभे

१३.४.४१मया हि विश्वं यद्ब्रह्म त्वच्चरौ संनिवेशितम्
क्षत्रवीर्यं च सकलं चरौ तस्या निवेशितम्

१३.४.४२त्रिलोकविख्यातगुणं त्वं विप्रं जनयिष्यसि
सा च क्षत्रं विशिष्टं वै तत एतत्कृतं मया

१३.४.४३व्यत्यासस्तु कृतो यस्मात्त्वया मात्रा तथैव च
तस्मात्सा ब्राह्मणश्रेष्ठं माता ते जनयिष्यति

१३.४.४४क्षत्रियं तूग्रकर्माणं त्वं भद्रे जनयिष्यसि
न हि ते तत्कृतं साधु मातृस्नेहेन भामिनि

१३.४.४५सा श्रुत्वा शोकसंतप्ता पपात वरवर्णिनी
भूमौ सत्यवती राजंश्छिन्नेव रुचिरा लता

१३.४.४६प्रतिलभ्य च सा संज्ञां शिरसा प्रणिपत्य च
उवाच भार्या भर्तारं गाधेयी ब्राह्मणर्षभम्

१३.४.४७प्रसादयन्त्यां भार्यायां मयि ब्रह्मविदां वर
प्रसादं कुरु विप्रर्षे न मे स्यात्क्षत्रियः सुतः

१३.४.४८कामं ममोग्रकर्मा वै पौत्रो भवितुमर्हति
न तु मे स्यात्सुतो ब्रह्मन्नेष मे दीयतां वरः

१३.४.४९एवमस्त्विति होवाच स्वां भार्यां सुमहातपाः
ततः सा जनयामास जमदग्निं सुतं शुभम्

१३.४.५०विश्वामित्रं चाजनयद्गाधेर्भार्या यशस्विनी
ऋषेः प्रभावाद्राजेन्द्र ब्रह्मर्षिं ब्रह्मवादिनम्

१३.४.५१ततो ब्राह्मणतां यातो विश्वामित्रो महातपाः
क्षत्रियः सोऽप्यथ तथा ब्रह्मवंशस्य कारकः

१३.४.५२तस्य पुत्रा महात्मानो ब्रह्मवंशविवर्धनाः
तपस्विनो ब्रह्मविदो गोत्रकर्तार एव च

१३.४.५३मधुच्छन्दश्च भगवान्देवरातश्च वीर्यवान्
अक्षीणश्च शकुन्तश्च बभ्रुः कालपथस्तथा

१३.४.५४याज्ञवल्क्यश्च विख्यातस्तथा स्थूणो महाव्रतः
उलूको यमदूतश्च तथर्षिः सैन्धवायनः

१३.४.५५कर्णजङ्घश्च भगवान्गालवश्च महानृषिः
ऋषिर्वज्रस्तथाख्यातः शालङ्कायन एव च

१३.४.५६लालाट्यो नारदश्चैव तथा कूर्चमुखः स्मृतः
वादुलिर्मुसलश्चैव रक्षोग्रीवस्तथैव च

१३.४.५७अङ्घ्रिको नैकभृच्चैव शिलायूपः सितः शुचिः
चक्रको मारुतन्तव्यो वातघ्नोऽथाश्वलायनः

१३.४.५८श्यामायनोऽथ गार्ग्यश्च जाबालिः सुश्रुतस्तथा
कारीषिरथ संश्रुत्यः परपौरवतन्तवः

१३.४.५९महानृषिश्च कपिलस्तथर्षिस्तारकायनः
तथैव चोपगहनस्तथर्षिश्चार्जुनायनः

१३.४.६०मार्गमित्रिर्हिरण्याक्षो जङ्घारिर्बभ्रुवाहनः
सूतिर्विभूतिः सूतश्च सुरङ्गश्च तथैव हि

१३.४.६१आराद्धिर्नामयश्चैव चाम्पेयोज्जयनौ तथा
नवतन्तुर्बकनखः शयोनरतिरेव च

१३.४.६२शयोरुहश्चारुमत्स्यः शिरीषी चाथ गार्दभिः
उज्जयोनिरदापेक्षी नारदी च महानृषिः
विश्वामित्रात्मजाः सर्वे मुनयो ब्रह्मवादिनः

१३.४.६३तन्नैष क्षत्रियो राजन्विश्वामित्रो महातपाः
ऋचीकेनाहितं ब्रह्म परमेतद्युधिष्ठिर

१३.४.६४एतत्ते सर्वमाख्यातं तत्त्वेन भरतर्षभ
विश्वामित्रस्य वै जन्म सोमसूर्याग्नितेजसः

१३.४.६५यत्र यत्र च संदेहो भूयस्ते राजसत्तम
तत्र तत्र च मां ब्रूहि च्छेत्तास्मि तव संशयान्