१३.३३.१युधिष्ठिर उवाच
१३.३३.२किं राज्ञः सर्वकृत्यानां गरीयः स्यात्पितामह
किं कुर्वन्कर्म नृपतिरुभौ लोकौ समश्नुते
१३.३३.३भीष्म उवाच
१३.३३.४एतद्राज्ञः कृत्यतममभिषिक्तस्य भारत
ब्राह्मणानामनुष्ठानमत्यन्तं सुखमिच्छता
श्रोत्रियान्ब्राह्मणान्वृद्धान्नित्यमेवाभिपूजयेत्
१३.३३.५पौरजानपदांश्चापि ब्राह्मणांश्च बहुश्रुतान्
सान्त्वेन भोगदानेन नमस्कारैस्तथार्चयेत्
१३.३३.६एतत्कृत्यतमं राज्ञो नित्यमेवेति लक्षयेत्
यथात्मानं यथा पुत्रांस्तथैतान्परिपालयेत्
१३.३३.७ये चाप्येषां पूज्यतमास्तान्दृढं प्रतिपूजयेत्
तेषु शान्तेषु तद्राष्ट्रं सर्वमेव विराजते
१३.३३.८ते पूज्यास्ते नमस्कार्यास्ते रक्ष्याः पितरो यथा
तेष्वेव यात्रा लोकस्य भूतानामिव वासवे
१३.३३.९अभिचारैरुपायैश्च दहेयुरपि तेजसा
निःशेषं कुपिताः कुर्युरुग्राः सत्यपराक्रमाः
१३.३३.१०नान्तमेषां प्रपश्यामि न दिशश्चाप्यपावृताः
कुपिताः समुदीक्षन्ते दावेष्वग्निशिखा इव
१३.३३.११विद्यन्तेषां साहसिका गुणास्तेषामतीव हि
कूपा इव तृणच्छन्ना विशुद्धा द्यौरिवापरे
१३.३३.१२प्रसह्यकारिणः केचित्कार्पासमृदवोऽपरे
सन्ति चैषामतिशठास्तथान्येऽतितपस्विनः
१३.३३.१३कृषिगोरक्ष्यमप्यन्ये भैक्षमन्येऽप्यनुष्ठिताः
चोराश्चान्येऽनृताश्चान्ये तथान्ये नटनर्तकाः
१३.३३.१४सर्वकर्मसु दृश्यन्ते प्रशान्तेष्वितरेषु च
विविधाचारयुक्ताश्च ब्राह्मणा भरतर्षभ
१३.३३.१५नानाकर्मसु युक्तानां बहुकर्मोपजीविनाम्
धर्मज्ञानां सतां तेषां नित्यमेवानुकीर्तयेत्
१३.३३.१६पितॄणां देवतानां च मनुष्योरगरक्षसाम्
पुरोहिता महाभागा ब्राह्मणा वै नराधिप
१३.३३.१७नैते देवैर्न पितृभिर्न गन्धर्वैर्न राक्षसैः
नासुरैर्न पिशाचैश्च शक्या जेतुं द्विजातयः
१३.३३.१८अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम्
यमिच्छेयुः स राजा स्याद्यं द्विष्युः स पराभवेत्
१३.३३.१९परिवादं च ये कुर्युर्ब्राह्मणानामचेतसः
निन्दाप्रशंसाकुशलाः कीर्त्यकीर्तिपरावराः
परिकुप्यन्ति ते राजन्सततं द्विषतां द्विजाः
१३.३३.२०ब्राह्मणा यं प्रशंसन्ति पुरुषः स प्रवर्धते
ब्राह्मणैर्यः पराक्रुष्टः पराभूयात्क्षणाद्धि सः
१३.३३.२१शका यवनकाम्बोजास्तास्ताः क्षत्रियजातयः
वृषलत्वं परिगता ब्राह्मणानामदर्शनात्
१३.३३.२२द्रमिळाश्च कलिङ्गाश्च पुलिन्दाश्चाप्युशीनराः
कौलाः सर्पा माहिषकास्तास्ताः क्षत्रियजातयः
१३.३३.२३वृषलत्वं परिगता ब्राह्मणानामदर्शनात्
श्रेयान्पराजयस्तेभ्यो न जयो जयतां वर
१३.३३.२४यस्तु सर्वमिदं हन्याद्ब्राह्मणं च न तत्समम्
ब्रह्मवध्या महान्दोष इत्याहुः परमर्षयः
१३.३३.२५परिवादो द्विजातीनां न श्रोतव्यः कथंचन
आसीताधोमुखस्तूष्णीं समुत्थाय व्रजेत वा
१३.३३.२६न स जातो जनिष्यो वा पृथिव्यामिह कश्चन
यो ब्राह्मणविरोधेन सुखं जीवितुमुत्सहेत्
१३.३३.२७दुर्ग्रहो मुष्टिना वायुर्दुःस्पर्शः पाणिना शशी
दुर्धरा पृथिवी मूर्ध्ना दुर्जया ब्राह्मणा भुवि