१३. अनुशासनपर्व
१३.४२.१भीष्म उवाच

१३.४२.२विपुलस्त्वकरोत्तीव्रं तपः कृत्वा गुरोर्वचः
तपोयुक्तमथात्मानममन्यत च वीर्यवान्

१३.४२.३स तेन कर्मणा स्पर्धन्पृथिवीं पृथिवीपते
चचार गतभीः प्रीतो लब्धकीर्तिर्वरो नृषु

१३.४२.४उभौ लोकौ जितौ चापि तथैवामन्यत प्रभुः
कर्मणा तेन कौरव्य तपसा विपुलेन च

१३.४२.५अथ काले व्यतिक्रान्ते कस्मिंश्चित्कुरुनन्दन
रुच्या भगिन्या दानं वै बभूव धनधान्यवत्

१३.४२.६एतस्मिन्नेव काले तु दिव्या काचिद्वराङ्गना
बिभ्रती परमं रूपं जगामाथ विहायसा

१३.४२.७तस्याः शरीरात्पुष्पाणि पतितानि महीतले
तस्याश्रमस्याविदूरे दिव्यगन्धानि भारत

१३.४२.८तान्यगृह्णात्ततो राजन्रुचिर्नलिनलोचना
तदा निमन्त्रकस्तस्या अङ्गेभ्यः क्षिप्रमागमत्

१३.४२.९तस्या हि भगिनी तात ज्येष्ठा नाम्ना प्रभावती
भार्या चित्ररथस्याथ बभूवाङ्गेश्वरस्य वै

१३.४२.१०पिनह्य तानि पुष्पाणि केशेषु वरवर्णिनी
आमन्त्रिता ततोऽगच्छद्रुचिरङ्गपतेर्गृहान्

१३.४२.११पुष्पाणि तानि दृष्ट्वाथ तदाङ्गेन्द्रवराङ्गना
भगिनीं चोदयामास पुष्पार्थे चारुलोचना

१३.४२.१२सा भर्त्रे सर्वमाचष्ट रुचिः सुरुचिरानना
भगिन्या भाषितं सर्वमृषिस्तच्चाभ्यनन्दत

१३.४२.१३ततो विपुलमानाय्य देवशर्मा महातपाः
पुष्पार्थे चोदयामास गच्छ गच्छेति भारत

१३.४२.१४विपुलस्तु गुरोर्वाक्यमविचार्य महातपाः
स तथेत्यब्रवीद्राजंस्तं च देशं जगाम ह

१३.४२.१५यस्मिन्देशे तु तान्यासन्पतितानि नभस्तलात्
अम्लानान्यपि तत्रासन्कुसुमान्यपराण्यपि

१३.४२.१६ततः स तानि जग्राह दिव्यानि रुचिराणि च
प्राप्तानि स्वेन तपसा दिव्यगन्धानि भारत

१३.४२.१७संप्राप्य तानि प्रीतात्मा गुरोर्वचनकारकः
ततो जगाम तूर्णं च चम्पां चम्पकमालिनीम्

१३.४२.१८स वने विजने तात ददर्श मिथुनं नृणाम्
चक्रवत्परिवर्तन्तं गृहीत्वा पाणिना करम्

१३.४२.१९तत्रैकस्तूर्णमगमत्तत्पदे परिवर्तयन्
एकस्तु न तथा राजंश्चक्रतुः कलहं ततः

१३.४२.२०त्वं शीघ्रं गच्छसीत्येकोऽब्रवीन्नेति तथापरः
नेति नेति च तौ तात परस्परमथोचतुः

१३.४२.२१तयोर्विस्पर्धतोरेवं शपथोऽयमभूत्तदा
मनसोद्दिश्य विपुलं ततो वाक्यमथोचतुः

१३.४२.२२आवयोरनृतं प्राह यस्तस्याथ द्विजस्य वै
विपुलस्य परे लोके या गतिः सा भवेदिति

१३.४२.२३एतच्छ्रुत्वा तु विपुलो विषण्णवदनोऽभवत्
एवं तीव्रतपाश्चाहं कष्टश्चायं परिग्रहः

१३.४२.२४मिथुनस्यास्य किं मे स्यात्कृतं पापं यतो गतिः
अनिष्टा सर्वभूतानां कीर्तितानेन मेऽद्य वै

१३.४२.२५एवं संचिन्तयन्नेव विपुलो राजसत्तम
अवाङ्मुखो न्यस्तशिरा दध्यौ दुष्कृतमात्मनः

१३.४२.२६ततः षडन्यान्पुरुषानक्षैः काञ्चनराजतैः
अपश्यद्दीव्यमानान्वै लोभहर्षान्वितांस्तथा

१३.४२.२७कुर्वतः शपथं तं वै यः कृतो मिथुनेन वै
विपुलं वै समुद्दिश्य तेऽपि वाक्यमथाब्रुवन्

१३.४२.२८यो लोभमास्थायास्माकं विषमं कर्तुमुत्सहेत्
विपुलस्य परे लोके या गतिस्तामवाप्नुयात्

१३.४२.२९एतच्छ्रुत्वा तु विपुलो नापश्यद्धर्मसंकरम्
जन्मप्रभृति कौरव्य कृतपूर्वमथात्मनः

१३.४२.३०स प्रदध्यौ तदा राजन्नग्नावग्निरिवाहितः
दह्यमानेन मनसा शापं श्रुत्वा तथाविधम्

१३.४२.३१तस्य चिन्तयतस्तात बह्व्यो दिननिशा ययुः
इदमासीन्मनसि च रुच्या रक्षणकारितम्

१३.४२.३२लक्षणं लक्षणेनैव वदनं वदनेन च
विधाय न मया चोक्तं सत्यमेतद्गुरोस्तदा

१३.४२.३३एतदात्मनि कौरव्य दुष्कृतं विपुलस्तदा
अमन्यत महाभाग तथा तच्च न संशयः

१३.४२.३४स चम्पां नगरीमेत्य पुष्पाणि गुरवे ददौ
पूजयामास च गुरुं विधिवत्स गुरुप्रियः