१३.४९.१युधिष्ठिर उवाच
१३.४९.२ब्रूहि पुत्रान्कुरुश्रेष्ठ वर्णानां त्वं पृथक्पृथक्
कीदृश्यां कीदृशाश्चापि पुत्राः कस्य च के च ते
१३.४९.३विप्रवादाः सुबहुशः श्रूयन्ते पुत्रकारिताः
अत्र नो मुह्यतां राजन्संशयं छेत्तुमर्हसि
१३.४९.४भीष्म उवाच
१३.४९.५आत्मा पुत्रस्तु विज्ञेयस्तस्यानन्तरजश्च यः
नियुक्तजश्च विज्ञेयः सुतः प्रसृतजस्तथा
१३.४९.६पतितस्य च भार्यायां भर्त्रा सुसमवेतया
तथा दत्तकृतौ पुत्रावध्यूढश्च तथापरः
१३.४९.७षडपध्वंसजाश्चापि कानीनापसदास्तथा
इत्येते ते समाख्यातास्तान्विजानीहि भारत
१३.४९.८युधिष्ठिर उवाच
१३.४९.९षडपध्वंसजाः के स्युः के वाप्यपसदास्तथा
एतत्सर्वं यथातत्त्वं व्याख्यातुं मे त्वमर्हसि
१३.४९.१०भीष्म उवाच
१३.४९.११त्रिषु वर्णेषु ये पुत्रा ब्राह्मणस्य युधिष्ठिर
वर्णयोश्च द्वयोः स्यातां यौ राजन्यस्य भारत
१३.४९.१२एको द्विवर्ण एवाथ तथात्रैवोपलक्षितः
षडपध्वंसजास्ते हि तथैवापसदाञ्शृणु
१३.४९.१३चण्डालो व्रात्यवेनौ च ब्राह्मण्यां क्षत्रियासु च
वैश्यायां चैव शूद्रस्य लक्ष्यन्तेऽपसदास्त्रयः
१३.४९.१४मागधो वामकश्चैव द्वौ वैश्यस्योपलक्षितौ
ब्राह्मण्यां क्षत्रियायां च क्षत्रियस्यैक एव तु
१३.४९.१५ब्राह्मण्यां लक्ष्यते सूत इत्येतेऽपसदाः स्मृताः
पुत्ररेतो न शक्यं हि मिथ्या कर्तुं नराधिप
१३.४९.१६युधिष्ठिर उवाच
१३.४९.१७क्षेत्रजं केचिदेवाहुः सुतं केचित्तु शुक्रजम्
तुल्यावेतौ सुतौ कस्य तन्मे ब्रूहि पितामह
१३.४९.१८भीष्म उवाच
१३.४९.१९रेतजो वा भवेत्पुत्रस्त्यक्तो वा क्षेत्रजो भवेत्
अध्यूढः समयं भित्त्वेत्येतदेव निबोध मे
१३.४९.२०युधिष्ठिर उवाच
१३.४९.२१रेतोजं विद्म वै पुत्रं क्षेत्रजस्यागमः कथम्
अध्यूढं विद्म वै पुत्रं हित्वा च समयं कथम्
१३.४९.२२भीष्म उवाच
१३.४९.२३आत्मजं पुत्रमुत्पाद्य यस्त्यजेत्कारणान्तरे
न तत्र कारणं रेतः स क्षेत्रस्वामिनो भवेत्
१३.४९.२४पुत्रकामो हि पुत्रार्थे यां वृणीते विशां पते
तत्र क्षेत्रं प्रमाणं स्यान्न वै तत्रात्मजः सुतः
१३.४९.२५अन्यत्र क्षेत्रजः पुत्रो लक्ष्यते भरतर्षभ
न ह्यात्मा शक्यते हन्तुं दृष्टान्तोपगतो ह्यसौ
१३.४९.२६कश्चिच्च कृतकः पुत्रः संग्रहादेव लक्ष्यते
न तत्र रेतः क्षेत्रं वा प्रमाणं स्याद्युधिष्ठिर
१३.४९.२७युधिष्ठिर उवाच
१३.४९.२८कीदृशः कृतकः पुत्रः संग्रहादेव लक्ष्यते
शुक्रं क्षेत्रं प्रमाणं वा यत्र लक्ष्येत भारत
१३.४९.२९भीष्म उवाच
१३.४९.३०मातापितृभ्यां संत्यक्तं पथि यं तु प्रलक्षयेत्
न चास्य मातापितरौ ज्ञायेते स हि कृत्रिमः
१३.४९.३१अस्वामिकस्य स्वामित्वं यस्मिन्संप्रतिलक्षयेत्
सवर्णस्तं च पोषेत सवर्णस्तस्य जायते
१३.४९.३२युधिष्ठिर उवाच
१३.४९.३३कथमस्य प्रयोक्तव्यः संस्कारः कस्य वा कथम्
देया कन्या कथं चेति तन्मे ब्रूहि पितामह
१३.४९.३४भीष्म उवाच
१३.४९.३५आत्मवत्तस्य कुर्वीत संस्कारं स्वामिवत्तथा
१३.४९.३६त्यक्तो मातापितृभ्यां यः सवर्णं प्रतिपद्यते
तद्गोत्रवर्णतस्तस्य कुर्यात्संस्कारमच्युत
१३.४९.३७अथ देया तु कन्या स्यात्तद्वर्णेन युधिष्ठिर
संस्कर्तुं मातृगोत्रं च मातृवर्णविनिश्चये
१३.४९.३८कानीनाध्यूढजौ चापि विज्ञेयौ पुत्रकिल्बिषौ
तावपि स्वाविव सुतौ संस्कार्याविति निश्चयः
१३.४९.३९क्षेत्रजो वाप्यपसदो येऽध्यूढास्तेषु चाप्यथ
आत्मवद्वै प्रयुञ्जीरन्संस्कारं ब्राह्मणादयः
१३.४९.४०धर्मशास्त्रेषु वर्णानां निश्चयोऽयं प्रदृश्यते
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि