१३.५०.१युधिष्ठिर उवाच
१३.५०.२दर्शने कीदृशः स्नेहः संवासे च पितामह
महाभाग्यं गवां चैव तन्मे ब्रूहि पितामह
१३.५०.३भीष्म उवाच
१३.५०.४हन्त ते कथयिष्यामि पुरावृत्तं महाद्युते
नहुषस्य च संवादं महर्षेश्च्यवनस्य च
१३.५०.५पुरा महर्षिश्च्यवनो भार्गवो भरतर्षभ
उदवासकृतारम्भो बभूव सुमहाव्रतः
१३.५०.६निहत्य मानं क्रोधं च प्रहर्षं शोकमेव च
वर्षाणि द्वादश मुनिर्जलवासे धृतव्रतः
१३.५०.७आदधत्सर्वभूतेषु विस्रम्भं परमं शुभम्
जलेचरेषु सत्त्वेषु शीतरश्मिरिव प्रभुः
१३.५०.८स्थाणुभूतः शुचिर्भूत्वा दैवतेभ्यः प्रणम्य च
गङ्गायमुनयोर्मध्ये जलं संप्रविवेश ह
१३.५०.९गङ्गायमुनयोर्वेगं सुभीमं भीमनिःस्वनम्
प्रतिजग्राह शिरसा वातवेगसमं जवे
१३.५०.१०गङ्गा च यमुना चैव सरितश्चानुगास्तयोः
प्रदक्षिणमृषिं चक्रुर्न चैनं पर्यपीडयन्
१३.५०.११अन्तर्जले स सुष्वाप काष्ठभूतो महामुनिः
ततश्चोर्ध्वस्थितो धीमानभवद्भरतर्षभ
१३.५०.१२जलौकसां स सत्त्वानां बभूव प्रियदर्शनः
उपाजिघ्रन्त च तदा मत्स्यास्तं हृष्टमानसाः
तत्र तस्यासतः कालः समतीतोऽभवन्महान्
१३.५०.१३ततः कदाचित्समये कस्मिंश्चिन्मत्स्यजीविनः
तं देशं समुपाजग्मुर्जालहस्ता महाद्युते
१३.५०.१४निषादा बहवस्तत्र मत्स्योद्धरणनिश्चिताः
व्यायता बलिनः शूराः सलिलेष्वनिवर्तिनः
अभ्याययुश्च तं देशं निश्चिता जालकर्मणि
१३.५०.१५जालं च योजयामासुर्विशेषेण जनाधिप
मत्स्योदकं समासाद्य तदा भरतसत्तम
१३.५०.१६ततस्ते बहुभिर्योगैः कैवर्ता मत्स्यकाङ्क्षिणः
गङ्गायमुनयोर्वारि जालैरभ्यकिरंस्ततः
१३.५०.१७जालं सुविततं तेषां नवसूत्रकृतं तथा
विस्तारायामसंपन्नं यत्तत्र सलिले क्षमम्
१३.५०.१८ततस्ते सुमहच्चैव बलवच्च सुवर्तितम्
प्रकीर्य सर्वतः सर्वे जालं चकृषिरे तदा
१३.५०.१९अभीतरूपाः संहृष्टास्तेऽन्योन्यवशवर्तिनः
बबन्धुस्तत्र मत्स्यांश्च तथान्याञ्जलचारिणः
१३.५०.२०तथा मत्स्यैः परिवृतं च्यवनं भृगुनन्दनम्
आकर्षन्त महाराज जालेनाथ यदृच्छया
१३.५०.२१नदीशैवलदिग्धाङ्गं हरिश्मश्रुजटाधरम्
लग्नैः शङ्खगणैर्गात्रैः कोष्ठैश्चित्रैरिवावृतम्
१३.५०.२२तं जालेनोद्धृतं दृष्ट्वा ते तदा वेदपारगम्
सर्वे प्राञ्जलयो दाशाः शिरोभिः प्रापतन्भुवि
१३.५०.२३परिखेदपरित्रासाज्जालस्याकर्षणेन च
मत्स्या बभूवुर्व्यापन्नाः स्थलसंकर्षणेन च
१३.५०.२४स मुनिस्तत्तदा दृष्ट्वा मत्स्यानां कदनं कृतम्
बभूव कृपयाविष्टो निःश्वसंश्च पुनः पुनः
१३.५०.२५निषादा ऊचुः
१३.५०.२६अज्ञानाद्यत्कृतं पापं प्रसादं तत्र नः कुरु
करवाम प्रियं किं ते तन्नो ब्रूहि महामुने
१३.५०.२७भीष्म उवाच
१३.५०.२८इत्युक्तो मत्स्यमध्यस्थश्च्यवनो वाक्यमब्रवीत्
यो मेऽद्य परमः कामस्तं शृणुध्वं समाहिताः
१३.५०.२९प्राणोत्सर्गं विक्रयं वा मत्स्यैर्यास्याम्यहं सह
संवासान्नोत्सहे त्यक्तुं सलिलाध्युषितानिमान्
१३.५०.३०इत्युक्तास्ते निषादास्तु सुभृशं भयकम्पिताः
सर्वे विषण्णवदना नहुषाय न्यवेदयन्