१३.५५.१च्यवन उवाच
१३.५५.२वरश्च गृह्यतां मत्तो यश्च ते संशयो हृदि
तं च ब्रूहि नरश्रेष्ठ सर्वं संपादयामि ते
१३.५५.३कुशिक उवाच
१३.५५.४यदि प्रीतोऽसि भगवंस्ततो मे वद भार्गव
कारणं श्रोतुमिच्छामि मद्गृहे वासकारितम्
१३.५५.५शयनं चैकपार्श्वेन दिवसानेकविंशतिम्
अकिंचिदुक्त्वा गमनं बहिश्च मुनिपुंगव
१३.५५.६अन्तर्धानमकस्माच्च पुनरेव च दर्शनम्
पुनश्च शयनं विप्र दिवसानेकविंशतिम्
१३.५५.७तैलाभ्यक्तस्य गमनं भोजनं च गृहे मम
समुपानीय विविधं यद्दग्धं जातवेदसा
निर्याणं च रथेनाशु सहसा यत्कृतं त्वया
१३.५५.८धनानां च विसर्गस्य वनस्यापि च दर्शनम्
प्रासादानां बहूनां च काञ्चनानां महामुने
१३.५५.९मणिविद्रुमपादानां पर्यङ्कानां च दर्शनम्
पुनश्चादर्शनं तस्य श्रोतुमिच्छामि कारणम्
१३.५५.१०अतीव ह्यत्र मुह्यामि चिन्तयानो दिवानिशम्
न चैवात्राधिगच्छामि सर्वस्यास्य विनिश्चयम्
एतदिच्छामि कार्त्स्न्येन सत्यं श्रोतुं तपोधन
१३.५५.११च्यवन उवाच
१३.५५.१२शृणु सर्वमशेषेण यदिदं येन हेतुना
न हि शक्यमनाख्यातुमेवं पृष्टेन पार्थिव
१३.५५.१३पितामहस्य वदतः पुरा देवसमागमे
श्रुतवानस्मि यद्राजंस्तन्मे निगदतः शृणु
१३.५५.१४ब्रह्मक्षत्रविरोधेन भविता कुलसंकरः
पौत्रस्ते भविता राजंस्तेजोवीर्यसमन्वितः
१३.५५.१५ततः स्वकुलरक्षार्थमहं त्वा समुपागमम्
चिकीर्षन्कुशिकोच्छेदं संदिधक्षुः कुलं तव
१३.५५.१६ततोऽहमागम्य पुरा त्वामवोचं महीपते
नियमं कंचिदारप्स्ये शुश्रूषा क्रियतामिति
१३.५५.१७न च ते दुष्कृतं किंचिदहमासादयं गृहे
तेन जीवसि राजर्षे न भवेथास्ततोऽन्यथा
१३.५५.१८एतां बुद्धिं समास्थाय दिवसानेकविंशतिम्
सुप्तोऽस्मि यदि मां कश्चिद्बोधयेदिति पार्थिव
१३.५५.१९यदा त्वया सभार्येण संसुप्तो न प्रबोधितः
अहं तदैव ते प्रीतो मनसा राजसत्तम
१३.५५.२०उत्थाय चास्मि निष्क्रान्तो यदि मां त्वं महीपते
पृच्छेः क्व यास्यसीत्येवं शपेयं त्वामिति प्रभो
१३.५५.२१अन्तर्हितश्चास्मि पुनः पुनरेव च ते गृहे
योगमास्थाय संविष्टो दिवसानेकविंशतिम्
१३.५५.२२क्षुधितो मामसूयेथाः श्रमाद्वेति नराधिप
एतां बुद्धिं समास्थाय कर्शितौ वां मया क्षुधा
१३.५५.२३न च तेऽभूत्सुसूक्ष्मोऽपि मन्युर्मनसि पार्थिव
सभार्यस्य नरश्रेष्ठ तेन ते प्रीतिमानहम्
१३.५५.२४भोजनं च समानाय्य यत्तदादीपितं मया
क्रुध्येथा यदि मात्सर्यादिति तन्मर्षितं च ते
१३.५५.२५ततोऽहं रथमारुह्य त्वामवोचं नराधिप
सभार्यो मां वहस्वेति तच्च त्वं कृतवांस्तथा
१३.५५.२६अविशङ्को नरपते प्रीतोऽहं चापि तेन ते
धनोत्सर्गेऽपि च कृते न त्वां क्रोधः प्रधर्षयत्
१३.५५.२७ततः प्रीतेन ते राजन्पुनरेतत्कृतं तव
सभार्यस्य वनं भूयस्तद्विद्धि मनुजाधिप
१३.५५.२८प्रीत्यर्थं तव चैतन्मे स्वर्गसंदर्शनं कृतम्
यत्ते वनेऽस्मिन्नृपते दृष्टं दिव्यं निदर्शनम्
१३.५५.२९स्वर्गोद्देशस्त्वया राजन्सशरीरेण पार्थिव
मुहूर्तमनुभूतोऽसौ सभार्येण नृपोत्तम
१३.५५.३०निदर्शनार्थं तपसो धर्मस्य च नराधिप
तत्र यासीत्स्पृहा राजंस्तच्चापि विदितं मम
१३.५५.३१ब्राह्मण्यं काङ्क्षसे हि त्वं तपश्च पृथिवीपते
अवमन्य नरेन्द्रत्वं देवेन्द्रत्वं च पार्थिव
१३.५५.३२एवमेतद्यथात्थ त्वं ब्राह्मण्यं तात दुर्लभम्
ब्राह्मण्ये सति चर्षित्वमृषित्वे च तपस्विता
१३.५५.३३भविष्यत्येष ते कामः कुशिकात्कौशिको द्विजः
तृतीयं पुरुषं प्राप्य ब्राह्मणत्वं गमिष्यति
१३.५५.३४वंशस्ते पार्थिवश्रेष्ठ भृगूणामेव तेजसा
पौत्रस्ते भविता विप्र तपस्वी पावकद्युतिः
१३.५५.३५यः स देवमनुष्याणां भयमुत्पादयिष्यति
त्रयाणां चैव लोकानां सत्यमेतद्ब्रवीमि ते
१३.५५.३६वरं गृहाण राजर्षे यस्ते मनसि वर्तते
तीर्थयात्रां गमिष्यामि पुरा कालोऽतिवर्तते
१३.५५.३७कुशिक उवाच
१३.५५.३८एष एव वरो मेऽद्य यत्त्वं प्रीतो महामुने
भवत्वेतद्यथात्थ त्वं तपः पौत्रे ममानघ
ब्राह्मण्यं मे कुलस्यास्तु भगवन्नेष मे वरः
१३.५५.३९पुनश्चाख्यातुमिच्छामि भगवन्विस्तरेण वै
कथमेष्यति विप्रत्वं कुलं मे भृगुनन्दन
कश्चासौ भविता बन्धुर्मम कश्चापि संमतः