१३. अनुशासनपर्व
१३.५४.१भीष्म उवाच

१३.५४.२ततः स राजा रात्र्यन्ते प्रतिबुद्धो महामनाः
कृतपूर्वाह्णिकः प्रायात्सभार्यस्तद्वनं प्रति

१३.५४.३ततो ददर्श नृपतिः प्रासादं सर्वकाञ्चनम्
मणिस्तम्भसहस्राढ्यं गन्धर्वनगरोपमम्
तत्र दिव्यानभिप्रायान्ददर्श कुशिकस्तदा

१३.५४.४पर्वतान्रम्यसानूंश्च नलिनीश्च सपङ्कजाः
चित्रशालाश्च विविधास्तोरणानि च भारत
शाद्वलोपचितां भूमिं तथा काञ्चनकुट्टिमाम्

१३.५४.५सहकारान्प्रफुल्लांश्च केतकोद्दालकान्धवान्
अशोकान्मुचुकुन्दांश्च फुल्लांश्चैवातिमुक्तकान्

१३.५४.६चम्पकांस्तिलकान्भव्यान्पनसान्वञ्जुलानपि
पुष्पितान्कर्णिकारांश्च तत्र तत्र ददर्श ह

१३.५४.७श्यामां वारणपुष्पीं च तथाष्टापदिकां लताम्
तत्र तत्र परिकॢप्ता ददर्श स महीपतिः

१३.५४.८वृक्षान्पद्मोत्पलधरान्सर्वर्तुकुसुमांस्तथा
विमानच्छन्दकांश्चापि प्रासादान्पद्मसंनिभान्

१३.५४.९शीतलानि च तोयानि क्वचिदुष्णानि भारत
आसनानि विचित्राणि शयनप्रवराणि च

१३.५४.१०पर्यङ्कान्सर्वसौवर्णान्परार्ध्यास्तरणास्तृतान्
भक्ष्यभोज्यमनन्तं च तत्र तत्रोपकल्पितम्

१३.५४.११वाणीवादाञ्छुकांश्चापि शारिकाभृङ्गराजकान्
कोकिलाञ्छतपत्रांश्च कोयष्टिमककुक्कुटान्

१३.५४.१२मयूरान्कुक्कुटांश्चापि पुत्रकाञ्जीवजीवकान्
चकोरान्वानरान्हंसान्सारसांश्चक्रसाह्वयान्

१३.५४.१३समन्ततः प्रणदितान्ददर्श सुमनोहरान्
क्वचिदप्सरसां संघान्गन्धर्वाणां च पार्थिव

१३.५४.१४कान्ताभिरपरांस्तत्र परिष्वक्तान्ददर्श ह
न ददर्श च तान्भूयो ददर्श च पुनर्नृपः

१३.५४.१५गीतध्वनिं सुमधुरं तथैवाध्ययनध्वनिम्
हंसान्सुमधुरांश्चापि तत्र शुश्राव पार्थिवः

१३.५४.१६तं दृष्ट्वात्यद्भुतं राजा मनसाचिन्तयत्तदा
स्वप्नोऽयं चित्तविभ्रंश उताहो सत्यमेव तु

१३.५४.१७अहो सह शरीरेण प्राप्तोऽस्मि परमां गतिम्
उत्तरान्वा कुरून्पुण्यानथ वाप्यमरावतीम्

१३.५४.१८किं त्विदं महदाश्चर्यं संपश्यामीत्यचिन्तयत्
एवं संचिन्तयन्नेव ददर्श मुनिपुंगवम्

१३.५४.१९तस्मिन्विमाने सौवर्णे मणिस्तम्भसमाकुले
महार्हे शयने दिव्ये शयानं भृगुनन्दनम्

१३.५४.२०तमभ्ययात्प्रहर्षेण नरेन्द्रः सह भार्यया
अन्तर्हितस्ततो भूयश्च्यवनः शयनं च तत्

१३.५४.२१ततोऽन्यस्मिन्वनोद्देशे पुनरेव ददर्श तम्
कौश्यां बृस्यां समासीनं जपमानं महाव्रतम्
एवं योगबलाद्विप्रो मोहयामास पार्थिवम्

१३.५४.२२क्षणेन तद्वनं चैव ते चैवाप्सरसां गणाः
गन्धर्वाः पादपाश्चैव सर्वमन्तरधीयत

१३.५४.२३निःशब्दमभवच्चापि गङ्गाकूलं पुनर्नृप
कुशवल्मीकभूयिष्ठं बभूव च यथा पुरा

१३.५४.२४ततः स राजा कुशिकः सभार्यस्तेन कर्मणा
विस्मयं परमं प्राप्तस्तद्दृष्ट्वा महदद्भुतम्

१३.५४.२५ततः प्रोवाच कुशिको भार्यां हर्षसमन्वितः
पश्य भद्रे यथा भावाश्चित्रा दृष्टाः सुदुर्लभाः

१३.५४.२६प्रसादाद्भृगुमुख्यस्य किमन्यत्र तपोबलात्
तपसा तदवाप्यं हि यन्न शक्यं मनोरथैः

१३.५४.२७त्रैलोक्यराज्यादपि हि तप एव विशिष्यते
तपसा हि सुतप्तेन क्रीडत्येष तपोधनः

१३.५४.२८अहो प्रभावो ब्रह्मर्षेश्च्यवनस्य महात्मनः
इच्छन्नेष तपोवीर्यादन्याँल्लोकान्सृजेदपि

१३.५४.२९ब्राह्मणा एव जायेरन्पुण्यवाग्बुद्धिकर्मणः
उत्सहेदिह कर्तुं हि कोऽन्यो वै च्यवनादृते

१३.५४.३०ब्राह्मण्यं दुर्लभं लोके राज्यं हि सुलभं नरैः
ब्राह्मण्यस्य प्रभावाद्धि रथे युक्तौ स्वधुर्यवत्

१३.५४.३१इत्येवं चिन्तयानः स विदितश्च्यवनस्य वै
संप्रेक्ष्योवाच स नृपं क्षिप्रमागम्यतामिति

१३.५४.३२इत्युक्तः सहभार्यस्तमभ्यगच्छन्महामुनिम्
शिरसा वन्दनीयं तमवन्दत स पार्थिवः

१३.५४.३३तस्याशिषः प्रयुज्याथ स मुनिस्तं नराधिपम्
निषीदेत्यब्रवीद्धीमान्सान्त्वयन्पुरुषर्षभ

१३.५४.३४ततः प्रकृतिमापन्नो भार्गवो नृपते नृपम्
उवाच श्लक्ष्णया वाचा तर्पयन्निव भारत

१३.५४.३५राजन्सम्यग्जितानीह पञ्च पञ्चसु यत्त्वया
मनःषष्ठानीन्द्रियाणि कृच्छ्रान्मुक्तोऽसि तेन वै

१३.५४.३६सम्यगाराधितः पुत्र त्वयाहं वदतां वर
न हि ते वृजिनं किंचित्सुसूक्ष्ममपि विद्यते

१३.५४.३७अनुजानीहि मां राजन्गमिष्यामि यथागतम्
प्रीतोऽस्मि तव राजेन्द्र वरश्च प्रतिगृह्यताम्

१३.५४.३८कुशिक उवाच

१३.५४.३९अग्निमध्यगतेनेदं भगवन्संनिधौ मया
वर्तितं भृगुशार्दूल यन्न दग्धोऽस्मि तद्बहु

१३.५४.४०एष एव वरो मुख्यः प्राप्तो मे भृगुनन्दन
यत्प्रीतोऽसि समाचारात्कुलं पूतं ममानघ

१३.५४.४१एष मेऽनुग्रहो विप्र जीविते च प्रयोजनम्
एतद्राज्यफलं चैव तपश्चैतत्परं मम

१३.५४.४२यदि तु प्रीतिमान्विप्र मयि त्वं भृगुनन्दन
अस्ति मे संशयः कश्चित्तन्मे व्याख्यातुमर्हसि